गृहपत्यवतावर्णनम्
( अथ गृहपत्यवतारकथा ।
) नन्दीश्वर उवाच ।
शृणु ब्रह्मसुत प्रीत्या चरितं शशिमौलिनः ।
सोऽवतीर्णो यथा प्रीत्या विश्वानरगृहे शिवः
॥१॥नाम्ना गृहपतिः सोऽभूदग्निलोकपतिर्मुने ।
अग्निरूपस्तेजसश्च सर्व्वात्मा परमः प्रभुः
॥२॥नर्मदायास्तटे रम्ये पुरे नर्मपुरे पुरा ।
पुरारिभक्तः पुण्यात्मा भवद्विश्वानरो मुनिः
॥३॥ब्रह्मचर्य्याश्रमे निष्ठो ब्रह्मयज्ञरतस्सदा ।
शाण्डिल्यगोत्रः शुचिमान्ब्रह्मतेजो निधिर्व्वशी
॥४॥विज्ञाताखिलशास्त्रार्थस्सदाचाररतस्सदा ।
शैवाचारप्रवीणोऽति लौकिकाचारविद्वरः
॥५॥चित्ते विचार्य्य गृहिणीगुणान्विश्वानरः शुभान् ।
उदुवाह विधानेन स्वोचितां कालकन्यकाम्
॥६॥अग्निशुश्रूषणरतः पञ्चयज्ञपरायणः ।
षट्कर्मनिरतो नित्यं देवपित्रतिथिप्रियः
॥७॥एवम्बहुतिथे काले गते तस्याग्रजन्मनः ।
भार्य्या शुचिष्मती नाम भर्तारम्प्राह सुव्रता
॥८॥नाथ भोगा मया सर्वे भुक्ता वै त्वत्प्रसादतः ।
स्त्रीणां समुचिता ये स्युस्त्वां समेत्य मुदावहाः
॥९॥एवम्मे प्रार्थितन्नाथ चिराय हृदि संस्थितम् ।
गृहस्थानां समुचितं त्वमेतद्दातुमर्हसि
॥१०॥विश्वानर उवाच
किमदेयं हि सुश्रोणि तव प्रियहितैषिणी ।
तत्प्रार्थय महाभागे प्रयच्छाम्यविलम्बितम्
॥११॥महेशितुः प्रसादेन मम किञ्चिन्न दुर्लभम् ।
इहामुत्र च कल्याणि सर्वकल्याणकारिणः
॥१२॥नन्दीश्वर उवाच
इत्याकर्ण्य वचः पत्युस्तस्य सा पतिदेवता ।
उवाच हृष्यद्वदना करौ बद्ध्वा विनीतिका
॥१३॥शुचिष्मत्युवाच
वरयोग्यास्मि चेन्नाथ यदि देयो वरो मम ।
महेशसदृशम्पुत्रन्देहि नान्यं वरं वृणे
॥१४॥नन्दीश्वर उवाच
इति तस्या वचः श्रुत्वा ब्राह्मणस्स शुचिव्रतः ।
क्षणं समाधिमाधाय हृद्येतत्समचिन्तयत्
॥१५॥अहो किं मे तया तन्व्या प्रार्थितं ह्यतिदुर्लभम् ।
मनोरथपथाद्दूरमस्तु वा स हि सर्व्वकृत्
॥१६॥तेनैवास्या मुखे स्थित्वा वाक्स्वरूपेण शम्भुना ।
व्याहृतं कोऽन्यथा कर्त्तुमु त्सहेत भवेदिदम्
॥१७॥नन्दीश्वर उवाच
इति सञ्चिंत्य स मुनिर्विश्वानर उदारधीः ।
ततः प्रोवाच ताम्पत्नीमेकपत्नीव्रते स्थितः
॥१८॥नन्दीश्वर उवाच
इत्थमाश्वास्य ताम्पत्नीञ्जगाम तपसे मुनिः ।
यत्र विश्वेश्वरः साक्षात्काशीनाथोऽधि तिष्ठति
॥१९॥प्राप्य वाराणसीं तूर्णं दृष्ट्वा ताम्मणिकर्णिकाम् ।
तत्याज तापत्रितयमपि जन्मशतार्जितम्
॥२०॥दृष्ट्वा सर्वाणि लिंगानि विश्वेशप्रमुखानि च ।
स्नात्वा सर्वेषु कुण्डेषु वापीकूपसरस्सु च
॥२१॥नत्वा विनायकान्सर्वान्गौरीं शर्वां प्रणम्य च ।
सम्पूज्य कालराजञ्च भैरवम्पापभक्षणम्
॥२२॥दण्डनायकमुख्यांश्च गणान्स्तुत्वा प्रयत्नतः ।
आदिकेशवमुख्यांश्च केशवम्परितोष्य च
॥२३॥लोकार्कमुखसूर्यांश्च प्रणम्य स पुनःपुनः ।
कृत्वा च पिण्डदानानि सर्वतीर्थेष्वतन्द्रितः
॥२४॥सहस्रभोजनाद्यैश्च मुनीन्विप्रान्प्रतर्प्य च ।
महापूजोपचारैश्च लिंगान्यभ्यर्च्य भक्तितः
॥२५॥असकृच्चिन्तयामास किं लिंगं क्षिप्रसिद्धिदम् ।
यत्र निश्चलतामेति तपस्तनयकाम्यया
॥२६॥क्षणं विचार्य्य स मुनिरिति विश्वानरस्सुधीः ।
क्षिप्रम्पुत्रप्रदं लिंगं वीरेशम्प्रशशंस ह
॥२७॥असंख्यातास्सहस्राणि सिद्धाः सिद्धिं गतास्ततः ।
सिद्धलिंगमिति ख्यातन्तस्माद्वीरेश्वरम्परम्
॥२८॥वीरेश्वरम्महालिंगमब्दमभ्यर्च्य भक्तितः ।
आयुर्मनोरथं सर्वं पुत्रादिकमनेकशः
॥२९॥अहमप्यत्र वीरेशं समाराध्य त्रिकालताः ।
आशु पुत्रमवाप्स्यामि यथाभिलषितं स्त्रिया
॥३०॥नन्दीश्वर उवाच
इति कृत्वा मतिन्धीरो विप्रो विश्वानरः कृती ।
चन्द्रकूपजले स्नात्वा जग्राह नियमं व्रती
॥३१॥एकाहारोऽभवन्मासं मासं नक्ताशनोऽभवत् ।
अयाचिताशनो मासम्मासन्त्यक्ताशनः पुनः
॥३२॥पयोव्रतोऽभवन्मासम्मासं शाकफलाशनः ।
मासम्मुष्टितिलाहारो मासं पानीयभोजनः
॥३३॥पञ्चगव्याशनो मासम्मासञ्चान्द्रायणव्रती ।
मासं कुशाग्रजलभुग्मासं श्वसनभक्षणः
॥३४॥एवमब्दमितं कालन्तताप स तपोऽद्भुतम् ।
त्रिकालमर्चयद्भक्त्या वीरेशं लिङ्गमुत्तमम्
॥३५॥अथ त्रयोदशे मासि स्नात्वा त्रिपथगाम्भसि ।
प्रत्यूष एव वीरेशं यावदायाति स द्विजः
॥३६॥तावद्विलोकयाञ्चक्रे मध्ये लिंगन्तपोधनः ।
विभूतिभूषणम्बालमष्टवर्षाकृतिं शिशुम्
॥३७॥आकर्णायतनेत्रञ्च सुरक्तदशनच्छदम् ।
चारुपिंगजटामौलि न्नग्नप्रहसिताननम्
॥३८॥शैशवोचितनेपथ्यधारिणञ्चितिधारिणम् ।
पठन्तं श्रुतिसूक्तानि हसन्तं च स्वलीलया
॥३९॥तमालोक्य मुदम्प्राप्य रोमकञ्चुकितो मुनिः ।
प्रोच्चचार हृदालापान्नमोस्त्विति पुनः पुनः
॥४०॥अभिलाषप्रदैः पद्यैरष्टभिर्बालरूपिणम् ।
तुष्टाव परमानन्दं शंभुं विश्वानरः कृती
॥४१॥विश्वानर उवाच
एकम्ब्रह्मैवाद्वितीयं समस्तं सत्यंसत्यं नेह नानास्ति किञ्चित् ।
एको रुद्रो न द्वितीयोऽवतस्थे तस्मादेकन्त्वाम्प्रपद्ये महेशम्
॥४२॥कर्ता हर्त्ता त्वं हि सर्वस्य शम्भो नानारूपेष्वेकरूपोऽप्यरूपः ।
यद्वत्प्रत्यग्धर्म एकोऽप्यनेकस्तस्मान्नान्यन्त्वां विनेशम्प्रपद्ये
॥४३॥रज्जो सर्पश्शुक्तिकायां च रौप्यं नैरः पूरस्तन्मृगाख्ये मरीचौ ।
यद्यत्सद्वद्विष्वगेव प्रपञ्चो यस्मिञ्ज्ञाते तम्प्रपद्ये महेशम्
॥४४॥तोये शैत्यं दाहकत्वं च वह्नौ तापो भानौ शीतभानौ प्रसादः ।
पुष्पे गन्धो दुग्धमध्येऽपि सर्पिर्यत्तच्छंभो त्वं ततस्त्वाम्प्रपद्ये
॥४५॥शब्दं गृह्णास्यश्रवास्त्वं हि जिघ्रस्यप्राणस्त्वं त्र्यंघ्रिरायासि दूरात् ।
त्र्यक्षः पश्येस्त्वं रसज्ञोऽप्यजिह्वः कस्त्वां सम्यग्वेत्त्यतस्त्वाम्प्रपद्ये
॥४६॥नो वेद त्वामीश साक्षाद्धि वेदो नो वा विष्णुर्नो विधाताखिलस्य ।
नो योगीन्द्रानेन्द्रमुख्याश्च देवा भक्तो वेदस्त्वामतस्त्वाम्प्रपद्ये
॥४७॥नो ते गोत्रं नो सजन्मापि नाशो नो वा रूपं नैव शीलन्न देशः ।
इत्थम्भूतोऽपीश्वरस्त्वं त्रिलोक्यास्सर्वान्कामान्पूरयेस्त्वं भजे त्वाम्
॥४८॥त्वत्तस्सर्वं त्वं हि सर्वं स्मरारे त्वं गौरीशस्त्वं च नग्नोऽतिशान्तः ।
त्वं वै वृद्धस्त्वं युवा त्वं च बालस्तत्त्वं यत्किं नान्यतस्त्वां नतोऽहम्
॥४९॥नन्दीश्वर उवाच
स्तुत्वेति विप्रो निपपात भूमौ संबद्धपाणिर्भवतीह यावत् ।
तावत्स बालोऽरिबलवृद्धवृद्धः प्रोवाच भूदेवमतीव हृष्टः
॥५०॥बाल उवाच
विश्वानर मुनिश्रेष्ठ भूदेवाहं त्वयाद्य वै ।
तोषितस्सुप्रसन्नात्मा वृणीष्व वरमुत्तमम्
॥५१॥तत उत्थाय हृष्टात्मा मुनिर्विश्वानरः कृती ।
प्रत्यब्रवीन्मुनिश्रेष्ठः शंकरम्बालरूपिणम्
॥५२॥विश्वानर उवाच
महेश्वर किमज्ञातं सर्वज्ञस्य तव प्रभो ।
सर्वान्तरात्मा भगवाच्छर्वस्सर्व्वप्रदो भवान्
॥५३॥याच्ञाम्प्रति नियुक्तम्मां किं ब्रूषे दैन्यकारिणीम् ।
इति ज्ञात्वा महेशान यथेच्छसि तथा कुरु
॥५४॥नन्दीश्वर उवाच
इति श्रुत्वा वचस्तस्य देवो विश्वानरस्य हि ।
शुचिश्शुचिव्रतस्याथ शुचिस्मित्वाब्रवीच्छिशुः
॥५५॥त्वया शुचे शुचिष्मत्यां योऽभिलाषः कृतो हृदि ।
अचिरेणैव कालेन स भविष्यत्यसंशयम्
॥५६॥तव पुत्रत्वमेष्यामि शुचिष्मत्यां महामते ।
ख्यातो गृहपतिर्नाम्ना शुचिस्सर्व्वामरप्रियः
॥५७॥अभिलाषाष्टकं पुण्यं स्तोत्रमेतत्त्वयेरितम् ।
अब्दत्रिकालपठनात्कामदं शिवसन्निधौ
॥५८॥एतत्स्तोत्रप्रपठनं पुत्रपौत्रधनप्रदम् ।
सर्व्वशान्तिकरश्चापि सर्व्वापत्तिविनाशनम्
॥५९॥स्वर्गापवर्गसम्पत्तिकारकन्नात्र संशयः ।
सर्व्वस्तोत्रसमं ह्येतत्सर्व्वकामप्रदं सदा
॥६०॥प्रातरुत्थाय सुस्नातो लिंगमभ्यर्च्य शाम्भवम् ।
वर्षं जपन्निदं स्तोत्रमपुत्रः पुत्रवान्भवेत्
॥६१॥अभिलाषाष्टकमिदन्न देयं यस्य कस्यचित् ।
गोपनीयं प्रयत्नेन महावन्ध्याप्रसूतिकृत्
॥६२॥स्त्रिया वा पुरुषेणापि नियमाल्लिंगसन्निधौ ।
अब्दजप्तमिदं स्तोत्रम्पुत्रदन्नात्र संशयः
॥६३॥नन्दीश्वर उवाच
इत्युक्त्वान्तर्दधे शम्भुर्बालरूपः सतां गतिः ।
सोऽपि विश्वानरो विप्रो हृष्टात्मा स्वगृहं ययौ
॥६४॥इति श्रीशिवमहापुराणे तृतीयायां रुद्रसंहितायां गृहपत्यवतावर्णनंनाम त्रयोदशोऽध्यायः ॥ १३ ॥