तमागतन्ततो दृष्ट्वा ध्यानं कृत्वा शिवस्य सः
तमागतन्ततो दृष्ट्वा ध्यानं कृत्वा शिवस्य सः ।
गत्वा तत्रार्जुनस्तेन युद्धं चक्रे सुदारुणम्
॥१॥गणैश्च विविधैस्तीक्ष्णैरायुधैस्तं न्यपीडयत् ।
तैस्तदा पीडितः पार्थः सस्मार स्वामिनं शिवम्
॥२॥अर्जुनश्च तदा तेषां बाणावलिमथाच्छिनत् ।
यदायुद्धं च तैः क्षिप्तं ततः शर्वं परामृशत्
॥३॥पीडितास्ते गणास्तेन ययुश्चैव दिशो दश ।
गणेशा वारितास्ते च नाजग्मुस्स्वामिनम्प्रति
॥४॥शिवश्चैवार्जुनश्चैव युयुधाते परस्परम् ।
नानाविधैश्चायुधैर्हि महाबलपराक्रमौ
॥५॥शिवोऽपि मनसा नूनं दयां कृत्वार्जुनं ह्यगात् ।
अर्जुनश्च दृढं तत्र प्रहारं कृतवांस्तदा
॥६॥आयुधानि शिवस्सो वै ह्यर्जुनस्याच्छिनत्तदा ।
कवचानि च सर्वाणि शरीरं केवलं स्थितम्
॥७॥तदार्जुनः शिवं स्मृत्वा मल्लयुद्धं चकार सः ।
वाहिनीपतिना तेन भयात्क्लिष्टोपि धैर्यवान्
॥८॥तद्युद्धेन मही सर्वा चकंपे ससमुद्रका ।
देवा दुःखं समापन्नः किं भविष्यति वा पुनः
॥९॥एतस्मित्रंतरे देवः शिवो गगनमास्थितः ।
युद्धं चकार तत्रस्थस्सोर्जुनश्च तथाऽकरोत्
॥१०॥उड्डीयोड्डीय तौ युद्धं चक्रतुर्देवपार्थिवौ ।
देवाश्च विस्मयं प्रापू रणं दृष्ट्वा तदाद्भुतम्
॥११॥अथार्जुनोत्तरे ज्ञात्वा स्मृत्वा शिवपदांबुजम् ।
दधार पादयोस्तं वै तद्ध्यानादाप्तसद्बलः
॥१२॥धृत्वा पादौ तदा तस्य भ्रामयामास सोर्जुनः ।
विजहास महादेवो भक्तवत्सल ऊतिकृत्
॥१३॥दातुं स्वदासतां तस्मै भक्तवश्यतया मुने ।
शिवेनैव कृतं ह्येतच्चरितन्नान्यथा भवेत्
॥१४॥पश्चाद्विहस्य तत्रैव शंकरो रूपम द्भुतम् ।
दर्शयामास सहसा भक्तवश्यतया शुभम्
॥१५॥यथोक्तं वेदशास्त्रेषु पुराणे पुरुषोत्तमम् ।
व्यासोपदिष्टं ध्यानाय तस्य यत्सर्वसिद्धिदम्
॥१६॥तद्दृष्ट्वा सुंदरं रूपं ध्यानप्राप्तं शिवस्य तु ।
बभूव विस्मितोतीव ह्यर्जुनो लज्जितः स्वयम्
॥१७॥अहो शिवश्शिवस्सोय यो मे प्रभुतया वृतः ।
त्रिलोकेशः स्वयं साक्षाद्धा कृतं किं मयाऽधुना
॥१८॥प्रभोर्बलवती माया मायिनामपि मोहिनी ।
किं कृतं रूपमाच्छाद्य प्रभुणा छलितो ह्यहम्
॥१९॥धियेति संविचार्य्यैव साञ्जलिर्नतमस्तकः ।
प्रणनाम प्रभुं प्रीत्या तदोवाच स खिन्नधीः
॥२०॥अर्जुन उवाच
देवदेव महादेव करुणाकर शंकर ।
ममापराधः सर्वेश क्षन्तव्यश्च त्वया पुनः
॥२१॥किं कृतं रूपमाच्छाद्य च्छलितोऽस्मि त्वयाधुना ।
धिङ् मां समरकर्तारं स्वामिना भवता प्रभो
॥२२॥नन्दीश्वर उवाच
इत्येवं पाण्डवस्सोथ पश्चात्तापमवाप सः ।
पादयोर्निपपाताशु शंकरस्य महाप्रभोः
॥२३॥अथेश्वरः प्रसन्नात्मा प्रत्युवाचार्जुनं च तम् ।
समाश्वास्येति बहुशो महेशो भक्तवत्सलः
॥२४॥शंकर उवाच
न खिद्य पार्थ भक्तोसि मम त्वं हि विशेषतः ।
परीक्षार्थं मया तेऽद्य कृतमेवं शुचञ्जहि
॥२५॥नंदीश्वर उवाच
इत्युक्त्वा तं स्वहस्ताभ्यामुत्थाप्य प्रभुरर्जुनम् ।
विलज्जं कारयामास गणैश्च स्वामिनो गणैः
॥२६॥पुनश्शिवोऽर्जुनम्प्राह पाण्डवं वीरसम्मतम् ।
हर्षयन् सर्वथा प्रीत्या शंकरो भक्तवत्सलः
॥२७॥शिव उवाच
हे पार्थ पाण्डवश्रेष्ठ प्रसन्नोस्मि वरं वृणु ।
प्रहारैस्ताडनैस्तेऽद्य पूजनम्मानितम्मया
॥२८॥इच्छया च कृतं मेऽद्य नापराधस्तवाधुना ।
नादेयं विद्यते तुभ्यं यदिच्छसि वृणीष्व तत्
॥२९॥ते शत्रुषु यशोराज्यस्थापनाय शुभं कृतम् ।
एतद्दुःखं न कर्तव्यं वैक्लव्यं च त्यजाखिलम्
॥३०॥नन्दीश्वर उवाच
इत्युक्तस्त्वर्जुनस्तेन प्रभुणा शंकरेण सः ।
उवाच शंकरं भक्त्या सावधानतया स्थितः
॥३१॥अर्जुन उवाच
भक्तप्रियस्य शम्भोस्ते सुप्रभो किं समीहितम् ।
वर्णनीयं मया देव कृपालुस्त्वं सदाशिव
॥३२॥इत्युक्त्वा संस्तुतिं तस्य शंकरस्य महाप्रभोः ।
चकार पाण्डवस्सोथ सद्भक्तिं वेदसंमताम्
॥३३॥अर्जुन उवाच
नमस्ते देवदेवाय नमः कैलासवासिने ।
सदाशिव नमस्तुभ्यं पञ्चवक्त्राय ते नमः
॥३४॥कपर्दिने नमस्तुभ्यन्त्रिनेत्राय नमोऽस्तु ते ।
मनः प्रसन्नरूपाय सहस्रवदनाय च
॥३५॥नीलकंठ नमस्तेस्तु सद्योजाताय वै नमः ।
वृषध्वज नमस्तेस्तु वामांगगिरिजाय च
॥३६॥दशदोष नमस्तुभ्यन्नमस्ते परमात्मने ।
डमरुकपालहस्ताय नमस्ते मुण्डमालिने
॥३७॥शुद्धस्फटिकसंकाशशुद्धकर्पूरवर्ष्मणे ।
पिनाकपाणये तुभ्यन्त्रिशूलवरधारिणे
॥३८॥व्याघ्रचर्मोत्तरीयाय गजाम्बरविधारिणे ।
नागांगाय नमस्तुभ्यं गंगाधर नमोस्तु ते
॥३९॥सुपादाय नमस्तेऽस्तु आरक्तचरणाय च ।
नन्द्यादिगणसेव्याय गणेशाय च ते नमः
॥४०॥नमो गणेशरूपाय कार्तिकेयानुगाय च ।
भक्तिदाय च भक्तानां मुक्तिदाय नमोनमः
॥४१॥अगुणाय नमस्तेस्तु सगुणाय नमोनमः ।
अरूपाय सरूपाय सकलायाकलाय च
॥४२॥नमः किरातरूपाय मदनुग्रहकारिणे ।
युद्धप्रियाय वीराणां नानालीलानुकारिणे
॥४३॥यत्किंचिद्दृश्यते रूपन्तत्तेजस्तावकं स्मृतम् ।
चिद्रूपस्त्वं त्रिलोकेषु रमसेन्वयभेदतः
॥४४॥गुणानान्ते न संख्यास्ति यथा भूरजसामिह ।
आकाशे तारकाणां हि कणानां वृष्ट्यपामपि
॥४५॥न ते गुणास्तु संख्यातुं वेदा वै सम्भवन्ति हि ।
मन्दबुद्धिरहं नाथ वर्णयामि कथम्पुनः
॥४६॥सोसि योसि नमस्तेऽस्तु कृपां कर्तुमिहार्हसि ।
दासोहं ते महेशान स्वामी त्वं मे महेश्वर
॥४७॥नन्दीश्वर उवाच
इति श्रुत्वा वचस्तस्य पुनः प्रोवाच शंकर ।
सुप्रसन्नतरो भूत्वा विहसन्प्रभुरर्जुनम्
॥४८॥शंकर उवाच
वचसा किम्बहूक्तेन शृणुष्व वचनम्मम ।
शीघ्रं वृणु वरम्पुत्र सर्वन्तच्च ददामि ते
॥४९॥नन्दीश्वर उवाच
इत्युक्तश्चार्जुनस्तेन प्रणिपत्य सदाशिवम् ।
साञ्जलिर्नतकः प्रेम्णा प्रोवाच गद्गदाक्षरम्
॥५०॥अर्जुन उवाच
किं ब्रूयां त्वं च सर्वेषामन्तर्यामितया स्थितः ।
तथापि वर्णितं मेऽद्य श्रूयतां च त्वया विभो
॥५१॥शत्रूणां संकटं यच्च तद्गतन्दर्शनात्तव ।
ऐहिकीं च परां सिद्धिम्प्राप्नुयां वै तथा कुरु
॥५२॥नन्दीश्वर उवाच
इत्युक्त्वा तं नमस्कृत्य शंकरम्भक्तवत्सलम् ।
नतस्कन्धोऽर्जुनस्तत्र बद्धाञ्जलिरुपस्थितः
॥५३॥शिवोपि च तथाभूतञ्ज्ञात्वा पाण्डवमर्जुनम् ।
निजभक्तवरं स्वामी महातुष्टो बभूव ह
॥५४॥अस्त्रम्पाशुपतं स्वीयन्दुर्जयं सर्वदाखिलैः ।
ददौ तस्मै महेशानो वचनश्चेदमब्रवीत्
॥५५॥शिव उवाच
स्वं महास्त्रम्मया दत्तन्दुर्जयस्त्वम्भविष्यति ।
अनेन सर्वशत्रूणां जयकृत्यमवाप्नुहि
॥५६॥कृष्णं च कथयिष्यामि साहाय्यन्ते करिष्यति ।
स वै ममात्मभूतश्च मद्भक्तः कार्य्यकारकः
॥५७॥मत्प्रभावान्भारत त्वं राज्यन्निकण्टकं कुरु ।
धर्म्यान्नानाविधान्भ्रात्रा कारय त्वं च सर्वदा
॥५८॥नन्दीश्वर उवाच
इत्युक्त्वा निजहस्तं च धृत्वा शिरसि तस्य सः ।
पूजितो ह्यर्जुनेनाशु शंकरोन्तरधीयत
॥५९॥अथार्जुनः प्रसन्नात्मा प्राप्यास्त्रं च वरं प्रभोः ।
जगाम स्वाश्रमे मुख्यं स्मरन्भक्त्या गुरुं शिवम्
॥६०॥सर्व्वे ते भ्रातरः प्रीतास्तन्वः प्राणमिवागतम् ।
मिलित्वा तं सुखं प्रापुर्द्रौपदी चाति सुव्रता
॥६१॥शिवं परं च सन्तुष्टम्पाण्डवाः सर्व एव हि ।
नातृप्यन्सर्ववृत्तान्तं श्रुत्वा हर्षमुपागताः
॥६२॥आश्रमे पुष्पवृष्टिश्च चन्दनेन समन्विता ।
पपात सुकरार्थं च तेषाञ्चैव महात्मनाम्
॥६३॥धन्यं च शंकरं चैव नमस्कृत्य शिवम्मुदा ।
अवधिं चागतं ज्ञात्वा जयश्चैव भविष्यति
॥६४॥एतस्मिन्नन्तरे कृष्णश्श्रुत्वार्जुनमथागतम् ।
मेलनाय समायातश्श्रुत्वा सुखमुपागतः
॥६५॥अतश्चैव मयाख्यातः शंकरः सर्वदुःखहा ।
स सेव्यते मया नित्यं भवद्भिरपि सेव्यताम्
॥६६॥इत्युक्तस्ते किराताह्वोवतारश्शंकस्य वै ।
तं श्रुत्वा श्रावयन्वापि सर्वान्कामानवाप्नुयात्
॥६७॥इत्यष्टाशीत्यवताराः (८८)
॥६८॥इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां किरातेश्वरावतारवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥