हनुमदवतारचरित्रवर्णनम्
नन्दीश्वर उवाच
अतः परं श्रुणु प्रीत्या हनुमच्चरितम्मुने ।
यथा चकाराशु हरो लीलास्तद्रूपतो वराः
॥१॥चकार सुहितं प्रीत्या रामस्य परमेश्वराः ।
तत्सर्वं चरितं विप्र शृणु सर्वसुखावहम्
॥२॥एकस्मिन्समये शम्भुरद्भुतोतिकरः प्रभुः ।
ददर्श मोहिनीरूपं विष्णोस्स हि वसद्गुणः?
॥३॥चक्रे स्वं क्षुभितं शम्भुः कामबाणहतो यथा ।
स्वम्वीर्यम्पातयामास रामकार्यार्थमीश्वरः
॥४॥तद्वीर्यं स्थापयामासुः पत्रे सप्तर्षयश्च ते ।
प्रेरिता मनसा तेन रामकार्यार्थमादरात
॥५॥तैर्गौतमसुतायां तद्वीर्यं शम्भोर्महर्षिभिः ।
कर्णद्वारा तथांजन्यां रामकार्यार्थमाहितम्
॥६॥ततश्च समये तस्माद्धनूमानिति नामभाक् ।
शम्भुर्जज्ञे कपितनुर्महाबलपराक्रमः
॥७॥हनूमान्स कपीशानः शिशुरेव महाबलः ।
रविबिम्बं बभक्षाशु ज्ञात्वा लघुफलम्प्रगे
॥८॥देवप्रार्थनया तं सोऽत्यजज्ज्ञात्वा महाबलम् ।
शिवावतारं च प्राप वरान्दत्तान्सुरर्षिभिः
॥९॥स्वजनन्यन्तिकम्प्रागादथ सोतिप्रहर्षितः ।
हनूमान्सर्वमाचख्यौ तस्यै तद्वृत्तमादरात्
॥१०॥तदाज्ञया ततो धीरस्सर्वविद्यामयत्नतः ।
सूर्यात्पपाठ स कपिर्गत्वा नित्यं तदान्तिकम्
॥११॥सूर्याज्ञया तदंशत्य सुग्रीवस्यान्तिकं ययौ ।
मातुराज्ञामनुप्राप्य रुद्रांशः कपिसत्तमः
॥१२॥ज्येष्ठभ्रात्रा वालिना हि स्वस्त्रीभोक्त्रा तिरस्कृतः ।
ऋष्यमृकगिरौ तेन न्यवसत्स हनूमता
॥१३॥ततोऽभूत्स सुकण्ठस्य मन्त्री कपिवरस्सुधीः ।
सर्वथा सुहितं चक्रे सुग्रीवस्य हरांशजः
॥१४॥तत्रागतेन सभ्रात्रा हृतभार्येण दुःखिना ।
कारयामास रामेण तस्य सख्यं सुखावहम्
॥१५॥घातयामास रामश्च वालिनं कपिकुञ्जरम् ।
भ्रातृपत्न्याश्च भोक्तारं पापिनम्वीरमानिनम्
॥१६॥ततो रामाऽऽज्ञया तात हनूमान्वानरेश्वरः ।
स सीतान्वेषणञ्चक्रे बहुभिर्वानरैस्सुधीः
॥१७॥ज्ञात्वा लङ्कागतां सीतां गतस्तत्र कपीश्वरः ।
द्रुतमुल्लंघ्य सिंधुन्तमनिस्तीर्य्यं परैस्स वै
॥१८॥चक्रेऽद्भुतचरित्रं स तत्र विक्रमसंयुतम् ।
अभिज्ञानन्ददौ प्रीत्या सीतायै स्वप्रभोर्वरम्
॥१९॥सीताशोकं जहाराशु स वीरः कपिनायकः ।
श्रावयित्वा रामवृत्तं तत्प्राणावनकारकम्
॥२०॥तदभिज्ञानमादाय निवृत्तो रामसन्निधिम् ।
रावणाऽऽराममाहत्य जघान बहुराक्षसान्
॥२१॥तदेव रावणसुतं हत्वा सबहुराक्षसम् ।
स महोपद्रवं चक्रे महोतिस्तत्र निर्भयः
॥२२॥यदा दग्धो रावणेनावगुंठ्य वसनानि च ।
तैलाभ्यक्तानि सुदृढं महाबलवता मुने
॥२३॥उत्प्लुत्योत्प्लुत्य च तदा महादेवांशजः कपिः ।
ददाह लंकां निखिलां कृत्वा व्याजन्तमेव हि
॥२४॥दग्ध्वा लंकां वंचयित्वा विभीषणगृहं ततः ।
अपतद्वारिधौ वीरस्ततस्स कपिकुञ्जरः
॥२५॥स्वपुच्छं तत्र निर्वाप्य प्राप तस्य परन्तटम् ।
अखिन्नस्स ययौ रामसन्निधिं गिरिशांशजः
॥२६॥अविलंबेन सुजवो हनूमान् कपिसत्तमः ।
रामोपकण्ठमागत्य ददौ सीताशिरोमणिम्
॥२७॥ततस्तदाज्ञया वीरस्सिन्धौ सेतुमबन्धयत् ।
वानरस्स समानीय बहून्गिरिवरान्बली
॥२८॥गत्वा तत्र ततो रामस्तर्तुकामो यथा ततः ।
शिवलिंगं समानर्च प्रतिष्ठाप्य जयेप्सया
॥२९॥तद्वरात्स जयं प्राप्य वरं तीर्त्वोदधिं ततः ।
लंकामावृत्य कपिभी रणं चक्रे स राक्षसैः
॥३०॥जघानाथासुरान्वीरो रामसैन्यं ररक्ष सः ।
शक्तिक्षतं लक्ष्मणं च संजीविन्या ह्यजीवयत्
॥३१॥सर्वथा सुखिनं चक्रे सरामं लक्ष्मणं हि सः ।
सर्वसैन्यं ररक्षासौ महादेवात्मजः प्रभुः
॥३२॥रावणं परिवाराढ्यं नाशयामास विश्रमः ।
सुखीचकार देवान्स महाबलग्रहः कपि
॥३३॥महीरावणसंज्ञं स हत्वा रामं सलक्ष्मणम् ।
तत्स्थानादानयामास स्वस्थानम्परिपाल्य च
॥३४॥रामकार्यं चकाराशु सर्वथा कपिपुंगवः ।
असुरान्नमयामास नानालीलां चकार च
॥३५॥स्थापयामास भूलोके रामभक्तिं कपीश्वरः ।
स्वयं भक्तवरो भूत्वा सीतारामसुखप्रदः
॥३६॥लक्ष्मणप्राणदाता च सर्वदेवमदापहः ।
रुद्रावतारो भगवान्भक्तोद्धारकरस्स वै
॥३७॥हनुमान्स महावीरो रामकार्यकरस्सदा ।
रामदूताभिधो लोके दैत्यघ्नो भक्तवत्सलः
॥३८॥इति ते कथितं तात हनुमच्चरितम्वरम् ।
धन्यं यशस्यमायुष्यं सर्वकामफलप्रदम्
॥३९॥य इदं शृणुयाद्भक्त्या श्रावयेद्वा समाहितः ।
स भुक्त्वेहाखिलान्कामानन्ते मोक्षं लभेत्परम्
॥४०॥इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां हनुमदवतारचरित्रवर्णनं नाम विंशोऽध्यायः ॥ २० ॥