मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — शतरुद्रसंहिता, अध्याय २६

3
शतरुद्रसंहिता · 26

वैश्यनाथाह्वयशिवावतारवर्णनम्

नन्दीश्वर उवाच

शृणु तात प्रवक्ष्यामि शिवस्य परमात्मनः ।

अवतारं परमानन्दं वैश्यनाथाह्वयं मुने

॥१॥

नन्दिग्रामे पुरा काचिन्महानन्देति विश्रुता ।

बभूव वारवनिता शिवभक्ता सुसुन्दरी

॥२॥

महाविभवसम्पन्ना सुधनाढ्या महोज्ज्वला ।

नानारत्नपरिच्छिन्न शृङ्गाररसनिर्भरा

॥३॥

सर्वसंगीत विद्यासु निपुणातिमनोहरा ।

तस्या गेयेन हृष्यन्ति राज्ञ्यो राजान एव च

॥४॥

समानर्च सदा साम्बं सा वेश्या शंकरं मुदा ।

शिवनामजपासक्ता भस्मरुद्राक्षभूषणा

॥५॥

शिवं सम्पूज्य सा नित्यं सेवन्ती जगदीश्वरम् ।

ननर्त परया भक्त्या गायन्ती शिवसद्यशः

॥६॥

रुद्राक्षैर्भूषयित्वैकं मर्कटं चैव कुक्कुटम् ।

करतालैश्च गीतैश्च सदा नर्तयति स्म सा

॥७॥

नृत्यमानौ च तौ दृष्ट्वा शिवभक्तिरता च सा ।

वेश्या स्म विहसत्युच्चैः प्रेम्णा सर्वसखीयुता

॥८॥

रुद्राक्षैः कृतकेयूरकर्णा भरणमण्डनः ।

मर्कटः शिक्षया तस्याः पुरो नृत्यति बालवत्

॥९॥

शिखासंबद्धरुद्राक्षः कुक्कुटः कपिना सह ।

नित्यं ननर्त नृत्यज्ञः पश्यतां हितमावहन्

॥१०॥

एवं सा कुर्वती वेश्या कौतुकम्परमादरात् ।

शिवभक्तिरता नित्यं महानन्दभराऽभवत्

॥११॥

शिवभक्तिं प्रकुर्वन्त्या वेश्याया मुनिसत्तम ।

बहुकालो व्यतीयाय तस्याः परमसौख्यतः

॥१२॥

एकदा च गृहे तस्या वैश्यो भूत्वा शिवस्स्वयम् ।

परीक्षितुं च तद्भावमाजगाम शुभो व्रती

॥१३॥

त्रिपुण्ड्रविलसद्भालो रुद्राक्षाभरणः कृती ।

शिवनामजपासक्तो जटिलः शैववेषभृत्

॥१४॥

स बिभ्रद्भस्मनिचयं प्रकोष्ठे वरकंकणम् ।

महारत्नपरिस्तीर्णं राजते परकौतुकी

॥१५॥

तमागतं सुसंपूज्य सा वेश्या परया मुदा ।

स्वस्थाने सादरं वैश्यं सुन्दरी हि न्यवेशयत्

॥१६॥

तत्प्रकोष्ठे वरं वीक्ष्य कंकणं सुमनोहरम् ।

तस्मिञ्जातस्पृहा सा च तं प्रोवाच सुविस्मिता

॥१७॥

महानन्दोवाच

महारत्नमयश्चायं कंकणस्त्वत्करे स्थितः ।

मनो हरति मे सद्यो दिव्यस्त्रीभूषणोचितः

॥१८॥

नन्दीश्वर उवाच

इति तां नवरत्नाढ्ये सस्पृहां करभूषणे ।

वीक्ष्योदारमतिर्वैश्यः सस्मितं समभाषत

॥१९॥

वैश्यनाथ उवाच

अस्मिन्रत्नवरे दिव्ये सस्पृहं यदि ते मनः ।

त्वमेवाधत्स्व सुप्रीत्या मौल्यमस्य ददासि किम्

॥२०॥

वेश्योवाच

वयं हि स्वैरचारिण्यो वेश्यास्तु न पतिव्रताः ।

अस्मत्कुलोचितो धर्मो व्यभिचारो न संशयः

॥२१॥

यद्येतदखिलं चित्तं गृह्णाति करभूषणम् ।

दिनत्रयमहोरात्रं पत्नी तव भवाम्यहम्

॥२२॥

वैश्य उवाच

तथास्तु यदि ते सत्यं वचनं वीरवल्लभे ।

ददामि रत्नवलयं त्रिरात्रं भव मे वधूः

॥२३॥

एतस्मिन्व्यवहारे तु प्रमाणं शशिभास्करौ ।

त्रिवारं सत्यमित्युक्त्वा हृदयं मे स्पृश प्रिये

॥२४॥

वेश्योवाच

दिनत्रयमहोरात्रं पत्नी भूत्वा तव प्रभो ।

सहधर्मं चरामीति सत्यंसत्यं न संशयः

॥२५॥

नन्दीश्वर उवाच

इत्युक्त्वा हि महानन्दा त्रिवारं शशिभास्करौ ।

प्रमाणीकृत्य सुप्रीत्या सा तद्धृदयमस्पृशत्

॥२६॥

अथ तस्यै स वैश्यस्तु प्रदत्त्वा रत्नकंकणम् ।

लिंगं रत्नमयं तस्य हस्ते दत्त्वेदमब्रवीत्

॥२७॥

वैश्यनाथ उवाच

इदं रत्नमयं लिंगं शैवं मत्प्राणदवल्ल भम् ।

रक्षणीयं त्वया कान्ते गोपनीयं प्रयत्नतः

॥२८॥

नन्दीश्वर उवाच

एवमस्त्विति सा प्रोच्य लिंगमादाय रत्नजम् ।

नाट्यमण्डपिका मध्ये निधाय प्राविशद्गृहम्

॥२९॥

सा तेन संगता रात्रौ वैश्येन विटधर्मिणा ।

सुखं सुष्वाप पर्यंके मृदुतल्पोपशो भिते

॥३०॥

ततो निशीथसमये मुने वैश्यपतीच्छया ।

अकस्मादुत्थिता वाणी नृत्यमण्डपिकान्तरे

॥३१॥

महाप्रज्वलितो वह्निः सुसमीरसहायवान् ।

नाट्यमण्डपिकां तात तामेव सहसावृणोत्

॥३२॥

मण्डपे दह्यमाने तु सहसोत्थाय संभ्रमात् ।

मर्कटं मोचयामास सा वेश्या तत्र बन्धनात्

॥३३॥

स मर्कटो मुक्तबन्धः कुक्कुटेन सहामुना ।

भिया दूरं हि दुद्राव विधूयाग्निकणान्बहून्

॥३४॥

स्तम्भेन सह निर्दग्धं तल्लिंगं शकलीकृतम् ।

दृष्ट्वा वेश्या स वैश्यश्च दुरंतं दुःखमापतुः

॥३५॥

दृष्ट्वा ह्यात्मसमं लिंगं दग्धं वैश्यपतिस्तदा ।

ज्ञातुन्तद्भावमन्तःस्थम्मरणाय मतिन्दधे

॥३६॥

निविश्येतितरां खेदाद्वैश्यस्तामाह दुःखिताम् ।

नानालीलो महेशानः कौतुकान्नरदेहवान्

॥३७॥

वैश्यपतिरुवाच

शिवलिंगे तु निर्भिन्ने दग्धे महत्प्राणवल्लभे ।

सत्यं वच्मि न सन्देहो नाहं जीवितुमुत्सहे

॥३८॥

चितां कारय मे भद्रे स्वभृत्यैस्त्वं वरैर्लघु ।

शिवे मनस्समावेश्य प्रवेक्ष्यामि हुताशनम्

॥३९॥

यदि ब्रह्मेन्द्रविष्ण्वाद्या वारयेयुः समेत्य माम् ।

तथाप्यस्मिन् क्षणे भद्रे प्रविशामि त्यजाम्यसून्

॥४०॥

नन्दीश्वर उवाच

तमेवं दृढनिर्बन्धं सा विज्ञाय सुदुःखिता ।

स्वभृत्यैः कारयामास चितां स्वभवनाद्बहिः

॥४१॥

ततस्स वैश्यश्शिव एक एव प्रदक्षिणीकृत्य समिद्धमग्निम् ।

विवेश पश्यत्सु नरेषु धीरः सुकौतुकी संगतिभावमिच्छुः

॥४२॥

दृष्ट्वा सा तद्गतिं वेश्या महानन्दातिविस्मिता ।

अनुतापं च युवती प्रपेदे मुनिसत्तम

॥४३॥

अथ सा दुःखिता वेश्या स्मृत्वा धर्म सुनिर्मलम् ।

सर्वान्बंधुजनान्वीक्ष्य बभाषे करुणं वचः

॥४४॥

महानन्दोवाच

रत्नकंकणमादाय मया सत्यमुदाहृतम् ।

दिनत्रयमहं पत्नी वैश्यस्यामुष्य संमता

॥४५॥

कर्मणा मत्कृतेनायं मृतो वैश्यः शिवव्रती ।

तस्मादहं प्रवेक्ष्यामि सहानेन हुताशनम्

॥४६॥

स्वधर्मचारिणी त्यक्तमाचार्य्यै सत्यवादिभिः ।

एवं कृते मम प्रीत्या सत्यं मयि न नश्यतु

॥४७॥

सत्याश्रयः परो धर्म सत्येन परमा गतिः ।

सत्येन स्वर्ग मोक्षौ च सत्ये सर्वं प्रतिष्ठितम्

॥४८॥

नन्दीश्वर उवाच

इति सा दृढनिर्वन्धा वार्यमाणापि बन्धुभिः ।

सत्यलोकपरा नारी प्राणांस्त्यक्तुं मनो दधे

॥४९॥

सर्वस्वं द्विजमुख्येभ्यो दत्त्वा ध्यात्वा सदाशिवम् ।

तमग्निं त्रिः परिक्रम्य प्रवेशाभिमुखी ह्यभूत्

॥५०॥

तां पतन्तीं समिद्धेग्नौ स्वपदार्पितमानसाम् ।

वारयामास विश्वात्मा प्रादुर्भूतः स वै शिवः

॥५१॥

सा तं विलोक्याखिलदेवदेवन्त्रिलोचनं चन्द्रकलावतंसम् ।

शशांकसूर्यानलकोटिभासं स्तब्धेव भीतेव तथैव तस्थौ

॥५२॥

तां विह्वलां सुवित्रस्वां वेपमानां जडीकृताम् ।

समाश्वास्य गलद्बाष्पां करौ धृत्वाऽब्रवीद्वचः

॥५३॥

शिव उवाच

सत्यं धर्मं च धैर्यं च भक्तिं च मयि निश्चलाम् ।

परीक्षितुं त्वत्सकाशं वैश्यो भूत्वाहमागतः

॥५४॥

मा ययाग्निं समुद्दीप्य दग्धन्ते नाट्यमण्डपम् ।

दग्धं कृत्वा रत्नलिंगं प्रविष्टोहं हुताशनम्

॥५५॥

सा त्वं सत्यमनुस्मृत्य प्रविष्टाग्निं मया सहा ।

अतस्ते संप्रदास्यामि भोगांस्त्रिदशदुर्लभान्

॥५६॥

यद्यदिच्छसि सुश्रोणि तदेव हि ददामि ते ।

त्वद्भक्त्याहं प्रसन्नोस्मि तवादेयं न विद्यते

॥५७॥

नन्दीश्वर उवाच

इति ब्रुवति गौरीशे शंकरे भक्तवत्सले ।

महानन्दा च सा वेश्या शंकरम्प्रत्यभाषत

॥५८॥

वेश्योवाच

न मे वाञ्छास्ति भोगेषु भूमौ स्वर्गे रसातले ।

तव पादाम्बुजस्पर्शादन्यत्किंचिन्न कामये

॥५९॥

ये मे भृत्याश्च दास्यश्च ये चान्ये मम बान्धवाः ।

सर्वे त्वद्दर्शनपरास्त्वयि सन्न्यस्तवृत्तयः

॥६०॥

सर्वानेतान्मया सार्द्धं निनीयात्मपरम्पदम् ।

पुनर्जन्मभयं घोरं विमोचय नमोऽस्तु ते

॥६१॥

नन्दीश्वर उवाच

ततस्स तस्या वचनम्प्रतिनन्द्य महेश्वरः ।

ताः सर्वाश्च तया सार्धं निनाय स्वम्परम्पदम्

॥६२॥

वैश्यनाथावतारस्ते वर्णितः परमो मया ।

महानन्दासुखकरो भक्तानन्दप्रदस्सदा

॥६३॥

इदं चरित्रं परमं पवित्रं सतां च सर्वप्रदमाशु दिव्यम् ।

शिवावतारस्य विशाम्पतेर्महानन्दामहासौख्यकरं विचित्रम्

॥६४॥

इदं यः शृणुयाद्भक्त्या श्रावयेद्वा समाहितः ।

च्यवते न स्वधर्मात्स परत्र लभते गतिम्

॥६५॥

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां वैश्यनाथाह्वयशिवावतारवर्णनं नाम षड्विंशोऽध्यायः ॥ २६ ॥

( ७६)