मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पार्वतीखण्डः, अध्याय ५५

3
रुद्रसंहिता · पार्वतीखण्डः · 55

शिवकैलासगमनवर्णनम्

ब्रह्मोवाच

अथ सा ब्राह्मणी देव्यै शिक्षयित्वा व्रतञ्च तत् ।

प्रोवाच मेनामामन्त्र्य यात्रामस्याश्च कारय

॥१॥

तथास्त्विति च सम्प्रोच्य प्रेमवश्या बभूव सा ।

धृतिन्धृत्वाहूय कालीं विश्लेषविरहा कुला

॥२॥

अत्युच्चै रोदनं चक्रे संश्लिष्य च पुनः पुनः ।

पार्वत्यपि रुरोदोच्चैरुच्चरन्ती कृपावचः

॥३॥

शैलप्रिया शिवा चापि मूर्च्छामाप शुचार्दिता ।

मूर्च्छाम्प्रापुर्देवपत्न्यः पार्वत्या रोदनेन च

॥४॥

सर्वाश्च रुरुदुर्नार्य्यस्सर्वमासीदचेतनम् ।

स्वयं रुरोद योगीशो गच्छन्कोन्य परः प्रभुः

॥५॥

एतस्मिन्नन्तरे शीघ्रमाजगाम हिमालयः ।

ससर्वतनयस्तत्र सचिवैश्च द्विजैः परैः

॥६॥

स्वयं रुरोद मोहेन वत्सां कृत्वा स्ववक्षसि ।

क्व यासीत्येवमुच्चार्य शून्यं कृत्वा मुहुर्मुहुः

॥७॥

ततः पुरोहितो विप्रैरध्यात्मविद्यया सुखम् ।

सर्वान्प्रबोधयामास कृपया ज्ञानवत्तरः

॥८॥

ननाम पार्वती भक्त्या मातरम्पितरं गुरुम् ।

महामाया भवाचाराद्रुरोदोच्चैर्मुहुर्मुहुः

॥९॥

पार्वत्या रोदनेनैव रुरुदुस्सर्वयोषितः ।

नितरां जननी मेना यामयो भ्रातरस्तथा

॥१०॥

पुनः पुनः शिवामाता यामयोऽन्याश्च योषितः ।

भ्रातरो जनकः प्रेम्णा रुरुदुर्बद्धसौहृदाः

॥११॥

तदा विप्राः समागत्य बोधयामासुरादरात् ।

लग्नन्निवेदयामासुर्यात्रायास्सुखदम्परम्

॥१२॥

ततो हिमालयो मेनां धृत्वा धैर्य्यम्विवेकतः ।

शिबिकामानयामास शिवारोहणहेतवे

॥१३॥

शिवामारोहयामासुस्तत्र विप्राङ्गनाश्च ताम् ।

आशिषम्प्रददुस्सर्वाः पिता माता द्विजास्तथा

॥१४॥

महाराज्ञ्युपचाराँश्च ददौ मेना गिरिस्तथा ।

नानाद्रव्यसमूहं च परेषान्दुर्लभं शुभम्

॥१५॥

शिवा नत्वा गुरून्सर्वाञ् जनकं जननीन्तथा ।

द्विजान्पुरोहितं यामीस्त्रीस्तथान्या ययौ मुने

॥१६॥

हिमाचलोऽपि ससुतोऽगच्छत्स्नेहवशी बुधः ।

प्राप्तस्तत्र प्रभुर्यत्र सामरः प्रीतिमावहन्

॥१७॥

प्रीत्याभिरेभिरे सर्वे महोत्सवपुर स्सरम् ।

प्रभुम्प्रणेमुस्ते भक्त्या प्रशंसन्तोऽविशन्पुरीम्

॥१८॥

जातिस्मरां स्मारयामि नित्यं स्मरसि चेद्वद ।

लीलया त्वाञ्च देवेशि सदा प्राणप्रिया मम

॥१९॥

ब्रह्मोवाच

इत्याकर्ण्य महेशस्य स्वनाथस्याथ पार्वती ।

शङ्करस्य प्रिया नित्यं सस्मितोवाच सा सती

॥२०॥

पार्वत्युवाच

सर्वं स्मरामि प्राणेश मौनी भूतो भवेति च ।

प्रस्तावोचितमद्याशु कार्यं कुरु नमोऽस्तु ते

॥२१॥

ब्रह्मोवाच

इत्याकर्ण्य प्रियावाक्यं सुधाधाराशतोपमम् ।

मुमुदेऽतीव विश्वेशो लौकिकाचारतत्परः

॥२२॥

शिवः सम्भृतसम्भारो नानावस्तुमनोहरम् ।

भोजयामास देवश्च नारायणपुरोगमान्

॥२३॥

तथान्यान्निखिलान्प्रीत्या स्वविवाहसमागतान् ।

भोजयामास सुरसमन्नम्बहुविधम्प्रभुः

॥२४॥

ततो भुक्त्वा च ते देवा नानारत्न विभूषिताः ।

सस्त्रीकास्सगणास्सर्वे प्रणेमुश्चंद्रशेखरम्

॥२५॥

संस्तुत्य वाग्भिरिष्टाभिः परिक्रम्य मुदान्विताः ।

प्रशंसन्तो विवाहञ्च स्वधामानि ययुस्ततः

॥२६॥

नारायणं मुने मां च प्रणनाम शिवस्स्वयम् ।

लौकिकाचारमाश्रित्य यथा विष्णुश्च कश्यपम्

॥२७॥

मयाश्लिष्याशिषन्दत्त्वा शिवस्य पुनरग्रतः ।

मत्वा वै तं परं ब्रह्म चक्रे च स्तुतिरुत्तमा

॥२८॥

तमामन्त्र्य मया विष्णुस्साञ्जलिश्शिवयोर्मुदा ।

प्रशंसंस्तद्विवाहञ्च जगाम स्वालयम्परम्

॥२९॥

शिवोऽपि स्वगिरौ तस्थौ पार्वत्या विहरन्मुदा ।

सर्वे गणास्सुखं प्रापुरतीव स्वभजञ्छिवौ

॥३०॥

इत्येवङ्क थितस्तात शिवोद्वाहस्सुमंगलः ।

शोकघ्नो हर्षजनक आयुष्यो धनवर्द्धनः

॥३१॥

य इमं शृणुयान्नित्यं शुचिस्तद्गतमानसः ।

श्रावयेद्वाथ नियमाच्छिवलोकमवाप्नुयात्

॥३२॥

इदमाख्यानमाख्यातमद्भुतं मंगलायनम् ।

सर्वविघ्नप्रशमनं सर्वव्याधिविनाशनम्

॥३३॥

यशस्यं स्वर्ग्यमायुष्यं पुत्रपौत्रकरम्परम् ।

सर्वकामप्रदं चेह भुक्तिदं मुक्तिदं सदा

॥३४॥

अपमृत्युप्रशमनं महाशान्तिकरं शुभम् ।

सर्वदुस्स्वप्नप्रशमनं बुद्धिप्रज्ञादिसाधनम्

॥३५॥

शिवोत्सवेषु सर्वेषु पठितव्यम्प्रयत्नतः ।

शुभेप्सुभिर्जनैः प्रीत्या शिवसन्तोषकारणम्

॥३६॥

पठेत्प्रतिष्ठाकाले तु देवादीनां विशेषतः ।

शिवस्य सर्वकार्यस्य प्रारम्भे च सुप्रीतितः

॥३७॥

शृणुयाद्वा शुचिर्भूत्वा चरितं शिवयोश्शिवम् ।

सिध्यन्ति सर्वकार्याणि सत्यं सत्यं न संशयः

॥३८॥

इति श्रीशिवमहापुराणे ब्रह्मनारदसंवादे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवकैलासगमनवर्णनं नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५ ॥

समाप्तोऽयं तृतीयः पार्वतीखण्डः

॥३॥