मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पार्वतीखण्डः, अध्याय २३

3
रुद्रसंहिता · पार्वतीखण्डः · 23

पार्वतीसांत्वनशिवदेवदर्शनवर्णनम्

ब्रह्मोवाच

एवं तपत्यां पार्वत्यां शिवप्राप्तौ मुनीश्वर ।

चिरकालो व्यतीयाय प्रादुर्भूतो हरो न हि

॥१॥

हिमालयस्तदागत्य पार्वतीं कृतनिश्चयाम् ।

सभार्यस्ससुतामात्य उवाच परमेश्वरीम्

॥२॥

हिमालय उवाच

मा खिद्यतां महाभागे तपसानेन पार्वती ।

रुद्रो न दृश्यते बाले विरक्तो नात्र संशयः

॥३॥

त्वं तन्वी सुकुमारांगी तपसा च विमोहिता ।

भविष्यसि न संदेहस्सत्यं सत्यं वदामि ते

॥४॥

तस्मादुत्तिष्ठ चैहि त्वं स्वगृहं वरवर्णिनि ।

किं तेन तव रुद्रेण येन दग्धः पुरा स्मरः

॥५॥

अतो हि निर्विकार त्वात्त्वामादातुं वरां हराः ।

नागमिष्यति देवेशि तं कथं प्रार्थयिष्यसि

॥६॥

गगनस्थो यथा चंद्रो ग्रहीतुं न हि शक्यते ।

तथैव दुर्गमं शंभुं जानीहि त्वमिहानघे

॥७॥

ब्रह्मोवाच

तथैव मेनया चोक्ता तथा सह्याद्रिणा सती ।

मेरुणा मंदरेणैव मैनाकेन तथैव सा

॥८॥

एवमन्यैः क्षितिभैश्च क्रौंचादिभिरनातुरा ।

तथैव गिरिजा प्रोक्ता नानावादविधायिभिः

॥९॥

ब्रह्मोवाच

एवं प्रोक्ता यदा तन्वी सा सर्वैस्तपसि स्थिता ।

उवाच प्रहसंत्येव हिमवंतं शुचिस्मिता

॥१०॥

पार्वत्युवाच

पुरा प्रोक्तं मया तात मातः किं विस्मृतं त्वया ।

अधुनापि प्रतिज्ञां च शृणुध्वं मम बांधवाः

॥११॥

विरक्तोसौ महादेवो येन दग्धा रुषा स्मरः ।

तं तोषयामि तपसा शंकरं भक्तवत्सलम्

॥१२॥

सर्वे भवंतो गच्छंतु स्वं स्वं धाम प्रहर्षिताः ।

भविष्यत्येव तुष्टोऽसौ नात्र कार्य्या विचारणा ।

दग्धो हि मदनो येन येन दग्धं गिरेर्वनम् ।

तमानयिष्ये चात्रैव तपसा केव लेन हि

॥१४॥

तपोबलेन महता सुसेव्यो हि सदाशिवः ।

जानीध्वं हि महाभागास्सत्यं सत्यं वदामि वः

॥१५॥

आभाष्य चैवं गिरिजा च मेनकां मैनाकबंधुं पितरं हिमालयम् ।

तूष्णीं बभूवाशु सुभाषिणी शिवा समंदरं पर्वतराजबालिका

॥१६॥

जग्मुस्तथोक्ताः शिवया हि पर्वता यथागतेनापि विचक्षणास्ते ।

प्रशंसमाना गिरिजा मुहुर्मुहुस्सुविस्मिता हेमनगेश्वराद्याः

॥१७॥

गतेषु तेषु सूर्येषु सखीभिः परिवारिता ।

तपस्तेपे तदधिकं परमार्थसुनिश्चया ।

तपसा महता तेन तप्तमासीच्चराचरम् ।

त्रैलोक्यं हि मुनिश्रेष्ठ सदेवासुरमानुषम्

॥१९॥

तदा सुरासुराः सर्वे यक्षकिन्नरचारणाः ।

सिद्धास्साध्याश्च मुनयो विद्याधरमहोरगाः

॥२०॥

सप्रजापतयश्चैव गुह्यकाश्च तथापरे ।

कष्टात् कष्टतरं प्राप्ताः कारणं न विदुः स्म तत्

॥२१॥

सर्वे मिलित्वा शक्राद्या गुरुमामंत्र्य विह्वलाः ।

सुमेरौ तप्तसर्वांगा विधिं मां शरणं ययुः

॥२२॥

तत्र गत्वा प्रणम्याशु विह्वला नष्टसुत्विषः ।

ऊचुस्सर्वे च संस्तूय ह्यैकपद्येन मां हि ते

॥२३॥

देवा ऊचुः

त्वया सृष्टमिदं सर्वं जगदेतच्चराचरम् ।

संतप्तमति कस्माद्वै न ज्ञातं कारणं विभो

॥२४॥

तद्ब्रूहि कारणं ब्रह्मन् ज्ञातुमर्हसि नः प्रभो ।

दग्धभूततनून्देवान् त्वत्तो नान्योऽस्ति रक्षक

॥२५॥

ब्रह्मोवाच

इत्याकर्ण्य वचस्तेषामहं स्मृत्वा शिवं हृदा ।

विचार्य मनसा सर्वं गिरिजायास्तपः फलम्

॥२६॥

दग्धं विश्वमिति ज्ञात्वा तैः सर्वैरिह सादरात् ।

हरये तत्कथयितुं क्षीराब्धिमगमं द्रुतम्

॥२७॥

तत्र गत्वा हरिं दृष्ट्वा विलसंतं सुखासने ।

सुप्रणम्य सुसंस्तूय प्रावोचं सांजलिः सुरैः

॥२८॥

त्राहि त्राहि महाविष्णो तप्तान्नश्शरणागतान् ।

तपसोग्रेण पार्वत्यास्तपत्याः परमेण हि ।

इत्याकर्ण्य वचस्तेषामस्मदादि दिवौकसाम् ।

शेषासने समाविष्टोऽस्मानुवाच रमेश्वरः

॥३०॥

विष्णुरुवाच

ज्ञातं सर्वं निदानं मे पार्वती तपसोद्य वै ।

युष्माभिस्सहितस्त्वद्य व्रजामि परमेश्वरम्

॥३१॥

महादेवं प्रार्थयामो गिरिजाप्रापणाय तम् ।

पाणिग्रहार्थमधुना लोकानां स्वस्तयेऽमराः

॥३२॥

वरं दातुं शिवायै हि देवदेव पिनाकधृक् ।

यथा चेष्यति तत्रैव करिष्यामोऽधुना हि तत् ।

तस्माद्वयं गमिष्यामो यत्र रुद्रो महाप्रभुः ।

तपसोग्रेण संयुक्तोऽद्यास्ते परममंगलः

॥३४॥

ब्रह्मोवाच

विष्णोस्तद्वचनं श्रुत्वा सर्व ऊचुस्सुरादयः ।

महाभीता हठात् क्रुद्धाद्दग्धुकामात् लयंकरात्

॥३५॥

देवा ऊचुः

महाभयंकरं क्रुद्धं कालानलसमप्रभम् ।

न यास्यामो वयं सर्वे विरूपाक्षं महाप्रभम्

॥३६॥

यथा दग्धः पुरा तेन मदनो दुरतिक्रमः ।

तथैव क्रोधयुक्तो नः स धक्ष्यति न संशयः

॥३७॥

ब्रह्मोवाच

तदाकर्ण्य वचस्तेषां शक्रादीनां रमेश्वरः ।

सांत्वयंस्तान्सुरान्सर्वान्प्रोवाच स हरिर्मुने

॥३८॥

हरिरुवाच

हे सुरा मद्वचः प्रीत्या शृणुतादरतोऽखिलाः ।

न वो धक्ष्यति स स्वामी देवानां भयनाशनः

॥३९॥

तस्माद्भवद्भिर्गंतव्यं मया सार्द्धं विचक्षणैः ।

शंभुं शुभकरं मत्वा शरणं तस्य सुप्रभो

॥४०॥

शिवं पुराणं पुरुषमधीशं वरेण्यरूपं हि परं पुराणम् ।

तपोजुषाणां परमात्मरूपं परात्परं तं शरणं व्रजामः

॥४१॥

ब्रह्मोवाच

एवमुक्तास्तदा देवा विष्णुना प्रभवि ष्णुना ।

जग्मुस्सर्वे तेन सह द्रष्टुकामाः पिनाकिनम्

॥४२॥

प्रथमं शैलपुत्र्यास्तत्तपो द्रष्टुं तदाश्रमम् ।

जग्मुर्मार्गवशात्सर्वे विष्ण्वाद्यस्सकुतूहलाः

॥४३॥

पार्वत्यास्तु तपो दृष्ट्वा तेजसा व्यापृतास्तदा ।

प्रणेमुस्तां जगद्धात्रीं तेजोरूपां तपः स्थिताम्

॥४४॥

प्रशंसंतस्तपस्तस्यास्साक्षात्सिद्धितनोस्सुराः ।

जग्मुस्तत्र तदा ते च यत्रास्ते वृषभध्वजः

॥४५॥

तत्र गत्वा च ते देवास्त्वां मुने प्रैषयंस्तदा ।

पश्यतो दूरतस्तस्थुः कामभस्मकृतोहरात्

॥४६॥

नारद त्वं शिवस्थानं तदा गत्वाऽभयस्सदा ।

शिवभक्तो विशेषेण प्रसन्नं दृष्टवान् प्रभुम्

॥४७॥

पुनरागत्य यत्नेन देवानाहूय तांस्ततः ।

निनाय शंकरस्थानं तदा विष्ण्वादिकान्मुने

॥४८॥

अथ विष्ण्वादयस्सर्वे तत्र गत्वा शिवं प्रभुम् ।

ददृशुस्सुखमासीनं प्रसन्नं भक्तवत्सलम्

॥४९॥

योगपट्टस्थितं शंभुं गणैश्च परिवारितम् ।

तपोरूपं दधानं च परमेश्वररूपिणम्

॥५०॥

ततो विष्णुर्मयान्ये च सुरसिद्धमुनीश्वराः ।

प्रणम्य तुष्टुवुस्सूक्तैर्वेदोपनिषदन्वितैः

॥५१॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तुतीये पार्वतीखंडे पार्वतीसांत्वनशिवदेवदर्शनवर्णनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥