मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पार्वतीखण्डः, अध्याय १७

3
रुद्रसंहिता · पार्वतीखण्डः · 17

कामसंवादवर्णनम्

ब्रह्मोवाच

गतेषु तेषु देवेषु शक्रः सस्मार वै स्मरम् ।

पीडितस्तारकेनातिदेत्येन च दुरात्मना

॥१॥

आगतस्तत्क्षणात्कामस्सवसंतो रतिप्रियः ।

सावलेपो युतो रत्या त्रैलोक्य विजयी प्रभुः

॥२॥

प्रणामं च ततः कृत्वा स्थित्वा तत्पुरतस्स्मरः ।

महोन्नतमनास्तात सांजलिश्शक्रमब्रवीत्

॥३॥

काम उवाच

किं कार्य्यं ते समुत्पन्नं स्मृतोऽहं केन हेतुना ।

तत्त्वं कथय देवेश तत्कर्तुं समुपागतः

॥४॥

ब्रह्मोवाच

तच्छ्रुत्वा वचनं तस्य कंदर्पस्य सुरेश्वरः ।

उवाच वचनं प्रीत्या युक्तं युक्तमिति स्तुवन्

॥५॥

शक्र उवाच

तव साधु समारम्भो यन्मे कार्य्यमुपस्थितम् ।

तत्कतुर्मुद्यतोऽसि त्वं धन्योऽसि मकरध्वज

॥६॥

प्रस्तुतं शृणु मद्वाक्यं कथयामि तवाग्रतः ।

मदीयं चैव यत्कार्यं त्वदीयं तन्न चान्यथा

॥७॥

मित्राणि मम संत्येव बहूनि सुमहांति च ।

परं तु स्मर सन्मित्रं त्वत्तुल्यं न हि कुत्रचित्

॥८॥

जयार्थं मे द्वयं तात निर्मितं वजमुत्तमम् ।

वज्रं च निष्फलं स्याद्वै त्वं तु नैव कदाचन

॥९॥

यतो हितं प्रजायेत ततः को नु प्रियः परः ।

तस्मान्मित्रवरस्त्वं हि मत्कार्य्यं कर्तुमर्हसि

॥१०॥

मम दुःखं समुत्पन्नमसाध्य चापि कालजम् ।

केनापि नैव तच्छक्यं दूरीकर्तुं त्वया विना

॥११॥

दातुः परीक्षा दुर्भिक्षे रणे शूरस्य जायते ।

आपत्काले तु मित्रस्याशक्तौ स्त्रीणां कुलस्य हि

॥१२॥

विनये संकटे प्राप्तेऽवितथस्य परोक्षतः ।

सुस्नेहस्य तथा तात नान्यथा सत्यमीरितम्

॥१३॥

प्राप्तायां वै ममापत्ताववार्यायां परेण हि ।

परीक्षा च त्वदीयाऽद्य मित्रवर्य भविष्यति

॥१४॥

न केवलं मदीयं च कार्य्यमस्ति सुखावहम् ।

किं तु सर्वसुरादीनां कार्य्यमेतन्न संशयः

॥१५॥

ब्रह्मोवाच

इत्येतन्मघवद्वाक्यं श्रुत्वा तु मकरध्वजाः ।

उवाच प्रेमगभीरं वाक्यं सुस्मितपूर्वकम्

॥१६॥

काम उवाच

किमर्थमित्थं वदसि नोत्तरं वच्म्यहं तव ।

उपकृत्कृत्रिमं लोके दृश्यते कथ्यते न च

॥१७॥

सङ्कटे बहु यो ब्रूते स किं कार्य्यं करिष्यति ।

तथापि च महाराज कथयामि शृणु प्रभो

॥१८॥

पदं ते कर्षितुं यो वै तपस्तपति दारुणम् ।

पातयिष्याम्यहं तं च शत्रुं ते मित्र सर्वथा

॥१९॥

क्षणेन भ्रंशयिष्यामि कटाक्षेण वरस्त्रियाः ।

देवर्षिदानवादींश्च नराणां गणना न मे

॥२०॥

वज्रं तिष्ठतु दूरे वै शस्त्राण्यन्यान्यनेकशः ।

किं ते कार्यं करिष्यंति मयि मित्र उपस्थिते

॥२१॥

ब्रह्माणं वा हरिं वापि भ्रष्टं कुर्य्यां न संशयः ।

अन्येषां गणना नास्ति पातयेयं हरं त्वपि

॥२२॥

पंचैव मृदवो बाणास्ते च पुष्पमया मम ।

चापस्त्रिधा पुष्पमयश्शिंजिनी भ्रमरार्ज्जिता ।

बलं सुदयिता मे हि वसंतः सचिवस्स्मृतः

॥२३॥

अहं पञ्चबलोदेवा मित्रं मम सुधानिधिः

॥२४॥

सेनाधिपश्च शृंगारो हावभावाश्च सैनिकाः ।

सर्वे मे मृदवः शक्र अहं चापि तथाविधः

॥२५॥

यद्येन पूर्यते कार्य्यं धीमांस्तत्तेन योजयेत् ।

मम योग्यं तु यत्कार्य्यं सर्वं तन्मे नियोजय

॥२६॥

ब्रह्मोवाच

इत्येवं तु वचस्तस्य श्रुत्वा शक्रस्सुहर्षितः ।

उवाच प्रणमन्वाचा कामं कांतासुखावहम्

॥२७॥

शक्र उवाच

यत्कार्य्यं मनसोद्दिष्टं मया तात मनोभव ।

कर्त्तुं तत्त्वं समर्थोऽसि नान्यस्मात्तस्यसम्भवः

॥२८॥

शृणु काम प्रवक्ष्यामि यथार्थं मित्रसत्तम ।

यदर्थे च स्पृहा जाता तव चाद्य मनोभव

॥२९॥

तारकाख्यो महादैत्यो ब्रह्मणो वरमद्भुतम् ।

अभूदजेयस्संप्राप्य सर्वेषामपि दुःखदः

॥३०॥

तेन संपीड्यते लोको नष्टा धर्मा ह्यनेकशः ।

दुःखिता निर्जरास्सर्वे ऋषयश्च तथाखिलाः

॥३१॥

देवैश्च सकलैस्तेन कृतं युद्धं यथाबलम् ।

सर्वेषां चायुधान्यत्र विफलान्यभवन्पुरा

॥३२॥

भग्नः पाशो जलेशस्य हरिं चक्रं सुदर्शनम् ।

तत्कुण्ठितमभूत्तस्य कण्ठे क्षिप्तं च विष्णुना

॥३३॥

एतस्य मरणं प्रोक्तं प्रजेशेन दुरात्मनः ।

शम्भोर्वीर्योद्भवाद्बालान्महायोगीश्वरस्य हि

॥३४॥

एतत्कार्य्यं त्वया साधु कर्तव्यं सुप्रयत्नतः ।

ततस्स्यान्मित्रवर्य्याति देवानां नः परं सुखम्

॥३५॥

ममापि विहितं तस्मात्सर्वलोकसुखावहम् ।

मित्रधर्मं हृदि स्मृत्वा कर्तुमर्हसि सांप्रतम्

॥३६॥

शंभुस्स गिरिराजे हि तपः परममास्थितः ।

स प्रभुर्नापि कामेन स्वतंत्रः परमेश्वरः

॥३७॥

तत्समीपे च देवाथ पार्वती स्वसखीयुता ।

सेवमाना तिष्ठतीति पित्राज्ञप्ता मया श्रुतम्

॥३८॥

यथा तस्यां रुचिस्तस्य शिवस्य नियतात्मनः ।

जायते नितरां मार तथा कार्यं त्वया ध्रुवम्

॥३९॥

इति कृत्वा कृती स्यास्त्वं सर्वं दुःखं विनंक्ष्यति ।

लोके स्थायी प्रतापस्ते भविष्यति न चान्यथा

॥४०॥

ब्रह्मोवाच

इत्युक्तस्य तु कामो हि प्रफुल्लमुखपंकज ।

प्रेम्णोवाचेति देवेशं करिष्यामि न संशयः

॥४१॥

इत्युक्त्वा वचनं तस्मै तथेत्योमिति तद्वचः ।

अग्रहीत्तरसा कामः शिवमायाविमोहितः

॥४२॥

यत्र योगीश्वरस्साक्षात्तप्यते परमं तपः ।

जगाम तत्र सुप्रीतस्सदारस्सवसंतकः

॥४३॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शक्र कामसंवादवर्णनं नाम सप्तदशोऽध्यायः ॥ १७ ॥