मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पार्वतीखण्डः, अध्याय १६

3
रुद्रसंहिता · पार्वतीखण्डः · 16

देवसांत्वनवर्णनम्

ब्रह्मोवाच

अथ ते निर्जरास्सर्वे सुप्रणम्य प्रजेश्वरम् ।

तुष्टुवुः परया भक्त्या तारकेण प्रपीडिताः

॥१॥

अहं श्रुत्वामरनुतिं यथार्थां हृदयंगमा ।

सुप्रसन्नतरो भूत्वा प्रत्यवोचं दिवौकसः

॥२॥

स्वागतं स्वाधिकारा वै निर्विघ्नाः संति वस्तुतः ।

किमर्थमागता यूयमत्र सर्वे वदंतु मे

॥३॥

इति श्रुत्वा वचो मे ते नत्वा सर्वे दिवौकसः ।

मामूचुर्नतका दीनास्तारकेण प्रपीडिताः

॥४॥

देवा ऊचुः

लोकेश तारको दैत्यो वरेण तव दर्पित ।

निरस्यास्मान्हठात्स्थानान्यग्रहीन्नो बलात्स्वयम्

॥५॥

भवतः किमु न ज्ञातं दुःखं यन्नः उपस्थितम् ।

तद्दुःखं नाशय क्षिप्रं वयं ते शरणं गताः

॥६॥

अहर्निशं बाधतेस्मान्यत्र तत्रास्थितान्स वै ।

पलायमानाः पश्यामो यत्र तत्रापि तारकम्

॥७॥

तारकान्नश्च यद्दुःखं संभूतं सकलेश्वर ।

तेन सर्वे वयं तात पीडिता विकला अति

॥८॥

अग्निर्यमोथ वरुणो निर्ऋतिर्वायुरेव च ।

अन्ये दिक्पतयश्चापि सर्वे यद्वशगामिनः

॥९॥

सर्वे मनुष्यधर्माणस्सर्वेः परिकरैर्युताः ।

सेवंते तं महादैत्यं न स्वतंत्राः कदाचन

॥१०॥

एवं तेनार्दिता देवा वशगास्तस्य सर्वदा ।

तदिच्छाकार्य्यनिरतास्सर्वे तस्यानुजीविनः

॥११॥

यावत्यो वनितास्सर्वा ये चाप्यप्सरसां गणाः ।

सर्वांस्तानग्रहीद्दैत्यस्तारकोऽसौ महाबली

॥१२॥

न यज्ञास्संप्रवर्तते न तपस्यंति तापसाः ।

दानधर्मादिकं किंचिन्न लोकेषु प्रवर्त्तते

॥१३॥

तस्य सेनापतिः क्रौंचो महापाप्यस्ति दानवः ।

स पातालतलं गत्वा बाधते त्वनिशं प्रजाः

॥१४॥

तेन नस्तारकेणेदं सकलं भुवनत्रयम् ।

हृतं हठाज्जगद्धातः पापेनाकरुणात्मना

॥१५॥

वयं च तत्र यास्यामो यत्स्थानं त्वं विनिर्दिशेः ।

स्वस्थास्तद्वारितास्तेन लोकनाथसुरारिणा

॥१६॥

त्वं नो गतिश्च शास्ता च धाता त्राता त्वमेव हि ।

वयं सर्वे तारकाख्यवह्नौ दग्धास्सुविह्वलाः

॥१७॥

तेन क्रूरा उपाय नः सर्वे हतबलाः कृताः ।

विकारे सांनिपाते वा वीर्यवंत्यौषधानि च

॥१८॥

यत्रास्माकं जयाशा हि हरिचक्रे सुदर्शने ।

उत्कुंठितमभूत्तस्य कंठे पुष्पमिवार्पितम्

॥१९॥

ब्रह्मोवाच

इत्येतद्वचनं श्रुत्वा निर्जराणामहं मुने ।

प्रत्यवोचं सुरान्सर्वांस्तत्कालसदृशं वचः

॥२०॥

ब्रह्मोवाच

ममैव वचसा दैत्यस्तारकाख्यस्समेधितः ।

न मत्तस्तस्य हननं युज्यते हि दिवौकसः

॥२१॥

ततो नैव वधो योग्यो यतो वृद्धिमुपागतः ।

विष वृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम्

॥२२॥

युष्माकं चाखिलं कार्यं कर्तुं योग्यो हि शंकरः ।

किन्तु स्वयं न शक्तो हि प्रतिकर्तुं प्रचो दितः

॥२३॥

तारकाख्यस्तु पापेन स्वयमेष्यति संक्षयम् ।

यथा यूयं संविदध्वमुपदेशकरस्त्वहम्

॥२४॥

न मया तारको वध्यो हरिणापि हरेण च ।

नान्येनापि सुरैर्वापि मद्वरात्सत्यमुच्यते

॥२५॥

शिववीर्य्यसमुत्पन्नो यदि स्यात्तनयस्सुराः ।

स एव तारकाख्यस्य हंता दैत्यस्य नापरः

॥२६॥

यमुपायमहं वच्मि तं कुरुध्वं सुरोत्तमाः ।

महादेवप्रसादेन सिद्धिमेष्यति स धुवम्

॥२७॥

सती दाक्षा यिणी पूर्वं त्यक्तदेहा तु याभवत् ।

सोत्पन्ना मेनकागर्भात्सा कथा विदिता हि वः

॥२८॥

तस्या अवश्यं गिरिशः करिष्यति कर ग्रहम् ।

तत्कुरुध्वमुपायं च तथापि त्रिदिवौकसः

॥२९॥

तथा विदध्वं सुतरां तस्यां तु परियत्नतः ।

पार्वत्यां मेनकाजायां रेतः प्रतिनिपातने

॥३०॥

तमूर्द्ध्वरेतसं शंभुं सैव प्रच्युतरेतसम् ।

कर्तुं समर्था नान्यास्ति तथा काप्यबला बलात्

॥३१॥

सा सुता गिरिराजस्य सांप्रतं प्रौढयौवना ।

तपस्यते हिमगिरौ नित्यं संसेवते हरम्

॥३२॥

वाक्याद्धिमवतः कालीं स्वपितुर्हठतश्शिवा ।

सखीभ्यां सेवते सार्द्धं ध्यानस्थं परमेश्वरम्

॥३३॥

तामग्रतोऽर्च्चमानां वै त्रैलोक्ये वरवर्णिनीम् ।

ध्यानसक्तो महेशो हि मनसापि न हीयते

॥३४॥

भार्य्यां समीहेत यथा स कालीं चन्द्रशेखरः ।

तथा विधध्वं त्रिदशा न चिरादेव यत्नतः

॥३५॥

स्थानं गत्वाथ दैत्यस्य तमहं तारकं ततः ।

निवारयिष्ये कुहठात्स्वस्थानं गच्छतामराः

॥३६॥

इत्युक्त्वाहं सुरान्शीघ्रं तारकाख्यासुरस्य वै ।

उपसंगम्य सुप्रीत्या समाभाष्येदमब्रवम्

॥३७॥

ब्रह्मोवाच

तेजोसारमिदं स्वर्गं राज्यं त्वं परिपासि नः ।

यदर्थं सुतपस्तप्तं वाञ्छसि त्वं ततोऽधिकम्

॥३८॥

वरश्चाप्यवरो दत्तो न मया स्वर्गराज्यता ।

तस्मात्स्वर्गं परित्यज्य क्षितौ राज्यं समाचर

॥३९॥

देवयोग्यानि तत्रैव कार्य्याणि निखिलान्यपि ।

भविष्यत्यरसुरश्रेष्ठ नात्र कार्य्या विचारणा

॥४०॥

इत्युक्त्वाहं च संबोध्यासुरं तं सकलेश्वरः ।

स्मृत्वा शिवं च सशिवं तत्रांतर्धानमागतः ।

तारकोऽपि परित्यज्य स्वर्गं क्षितिमथाभ्यगात् ।

शोणिताख्य पुरे स्थित्वा सर्वराज्यं चकार सः

॥४२॥

देवास्सर्वेऽपि तच्छुत्वा मद्वाक्यं सुप्रणम्य माम् ।

शक्रस्थानं ययुः प्रीत्या शक्रेण सुस माहिताः

॥४३॥

तत्र गत्वा मिलित्वा च विचार्य्य च परस्परम् ।

ते सर्वे मरुतः प्रीत्या मघवंतं वचोऽब्रुवन्

॥४४॥

देवा ऊचुः

शम्भोर्य्यथा शिवायां वै रुचिजायेत कामतः ।

मघवंस्ते प्रकर्तव्यं ब्रह्मोक्तं सर्वमेव तत्

॥४५॥

ब्रह्मोवाच

इत्येवं सर्ववृत्तांतं विनिवेद्य सुरेश्वरम् ।

जग्मुस्ते सर्वतो देवाः स्वं स्वं स्थानं मुदान्विताः

॥४६॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्ड देवसांत्वनवर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥