मेनाप्रबोधवर्णनः
ब्रह्मोवाच
संज्ञां लब्धा ततस्सा च मेना शैलप्रिया सती ।
विललापातिसंक्षुब्धा तिरस्कारमथाकरोत्
॥१॥तत्र तावत्स्वपुत्राँश्च निनिन्द खलिता मुहुः ।
प्रथमं सा ततः पुत्री कथयामास दुर्वचः
॥२॥मेनोवाच
मुने पुरा त्वया प्रोक्तं वरिष्यति शिवा शिवम् ।
पश्चाद्धिमवतः कृत्यं पूजार्थं विनिवेशितम्
॥३॥ततो दृष्टं फलं सत्यं विपरीतमनर्थकम् ।
मुनेऽधमाहं दुर्बुद्धे सर्वथा वञ्चिता त्वया
॥४॥पुनस्तया तपस्तप्तं दुष्करं मुनिभिश्च यत् ।
तस्य लब्धं फलं ह्येतत्पश्यतां दुःखदायकम्
॥५॥किं करोमि क्व गच्छामि को मे दुःखं व्यपोहताम् ।
कुलादिकं विनष्टं मे विहितं जीवितं मम
॥६॥क्व गता ऋषयो दिव्याः श्मश्रूणि त्रोटयाम्यहम् ।
तपस्विनी च या पत्नी सा धूर्ता स्वयमागता
॥७॥केषाञ्चैवापराधेन सर्वं नष्टं ममाधुना ।
इत्युक्त्वा वीक्ष्य च सुतामुवाच वचनं कटु
॥८॥किं कृतं ते सुते दुष्टे कर्म दुःखकरं मम ।
हेम दत्त्वा त्वयानीतः काचो वै दुष्टया स्वयम्
॥९॥हित्वा तु चन्दनं भूयो लेपितः कर्दमस्त्वया ।
हंसमुड्डीय काको वै गृहीतो हस्तपञ्जरे
॥१०॥हित्वा ब्रह्मजलं दूरे पीतं कूपोदकं त्वया ।
सूर्यं हित्वा तु खद्योतो गृहीतो यत्नतस्त्वया
॥११॥तण्डुलांश्च तथा हित्वा कृतं वै तुषभक्षणम् ।
प्रक्षिप्याज्यं तथा तैलं कारण्डं भुक्तमादरात्
॥१२॥सिंहसेवां तथा मुक्त्वा शृगालस्सेवितस्त्वया ।
ब्रह्मविद्यां तथा मुक्त्वा कुगाथा च श्रुता त्वया
॥१३॥गृहे यज्ञविभूतिं हि दूरीकृत्य सुमंगलाम् ।
गृहीतश्च चिताभस्म त्वया पुत्रि ह्यमंगलम्
॥१४॥सर्वान् देववरांस्त्यक्त्वा विष्ण्वादीन्परमेश्वरान् ।
कृतं त्वया कुबुद्ध्या वै शिवार्थं तप ईदृशम्
॥१५॥धिक्त्वा च तव बुद्धिश्च धिग्रूपं चरितं तव ।
धिक् चोपदेशकर्त्तारं धिक्सख्यावपि ते तथा
॥१६॥आवां च धिक्तथा पुत्री यौ ते जन्मप्रवर्तकौ ।
धिक्ते नारद बुद्धिञ्च सप्तर्षींश्च सुबुद्धिदान्
॥१७॥धिक्कुलं धिक्क्रियादाक्ष्यं सर्वं धिग्यत्कृतं त्वया ।
गृहन्तु धुक्षितं त्वेतन्मरणं तु ममैव हि
॥१८॥पार्वतानामयं राजा नायातु निकटे मम ।
सप्तर्षयस्स्वयं नैव दर्शयन्तु मुखम्मम
॥१९॥साधितं किञ्च सर्वैस्तु मिलित्वा घातितं कुलम् ।
वन्ध्याहं न कथं जाता गर्भो न गलितः कथम्
॥२०॥अथो न वा मृता चाहं पुत्रिका न मृता कथम् ।
रक्षसाद्य कथं नो वा भक्षिता गगने पुनः
॥२१॥छेदयामि शिरस्तेऽद्य किं करोमि कलेवरैः ।
त्यक्त्वा त्वां च कुतो यायां हाहा मे जीवितं हतम्
॥२२॥ब्रह्मोवाच
इत्युक्त्वा पतिता सा च मेना भूमौ विमूर्छिता ।
व्याकुला शोकरोषाद्यैर्न गता भर्तृसन्निधौ
॥२३॥हाहाकारो महानासीत्त स्मिन्काले मुनीश्वर ।
सर्वे समागतास्तत्र क्रमात्तत्सन्निधौ सुराः
॥२४॥पुरा देवमुने चाहमागतस्तु स्वयं तदा ।
मां दृष्ट्वा त्वं वचस्ता वै प्रावोच ऋषिसत्तम
॥२५॥नारद उवाच
यथार्थं सुंदरं रूपं ना ज्ञातं ते शिवस्य वै ।
लीलयेदं धृतं रूपं न यथार्थं शिवेन च
॥२६॥तस्मात्क्रोधं परित्यज्य स्वस्था भव पतिव्रते ।
कार्य्यं कुरु हठं त्यक्त्वा शिवां देहि शिवाय च
॥२७॥ब्रह्मोवाच
तदाकर्ण्य वचस्ते सा मेना त्वां वाक्यमब्रवीत् ।
उत्तिष्ठेतो गच्छ दूरं दुष्टाधमवरो भवान्
॥२८॥इत्युक्ते तु तया देव इन्द्राद्याः सकलाः क्रमात् ।
समागत्य च दिक्पाला वचनं चेदमब्रुवन्
॥२९॥देवा ऊचुः
हे मेने पितृकन्ये हि शृण्वस्मद्वचनम्मुदा ।
अयं वै परमः साक्षाच्छिवः परसुखावहः
॥३०॥कृपया च भवत्पुत्र्यास्तपो दृष्ट्वातिदुस्सहम् ।
दर्शनं दत्तवाञ्छम्भुर्वरं सद्भक्तवत्सलः
॥३१॥ब्रह्मोवाच
अथोवाच सुरान्मेना विलप्याति मुहुर्मुहुः ।
न देया तु मया कन्या गिरिशायोग्ररूपिणे
॥३२॥किमर्थन्तु भवन्तश्च सर्वे देवाः प्रपञ्चिताः ।
रूपमस्याः परन्नाम व्यर्थीकर्तुं समुद्यतः
॥३३॥इत्युक्ते च तया तत्र ऋषयस्सप्त एव हि ।
ऊचुस्ते वच आगत्य वसिष्ठाद्या मुनीश्वर
॥३४॥सप्तर्षयः ऊचुः
कार्य्यं साधयितुम्प्राप्ताः पितृकन्ये गिरिप्रिये ।
विरुद्धं चात्र उक्तार्थे कथम्मन्यामहे वयम्
॥३५॥ब्रह्मोवाच
अयं वै परमो लाभो दर्शनं शंकरस्य यत् ।
दानपात्रं स ते भूत्वागतस्तव च मंदिरम्
॥३६॥ब्रह्मोवाच
इत्युक्त्वा तैस्ततो मेना मुनिवाक्यं मृषाकरोत् ।
प्रत्युवाच च रुष्टा सा तानृषीञ्ज्ञानदुर्बला
॥३७॥मेनोवाच
शस्त्राद्यैर्घातयिष्येहं न हास्ये शंकरायताम् ।
दूरं गच्छत सर्वे हि नागन्तव्यं मदन्तिके
॥३८॥ब्रह्मोवाच
इत्युक्त्वा विररामाशु सा विलप्यातिविह्वला ।
हाहाकारो महानासीत्तत्र तद्वृत्ततो मुने
॥३९॥ततो हिमालयस्तत्राजगामातिसमाकुलः ।
ताञ्च बोधयितुं प्रीत्या प्राह तत्त्वञ्च दर्शयन्
॥४०॥हिमालय उवाच
शृणु मेने वचो मेऽद्य विकलाऽसि कथम्प्रिये ।
के के समागता गेहं कथं चैतान्विनिन्दसि
॥४१॥शंकरं त्वं च जानासि रूपं दृष्ट्वासि विह्वला ।
विकटं तस्य शंभोस्तु नानारूपाभिधस्य हि
॥४२॥स शंकरो मया ज्ञातस्सर्वेषां प्रतिपालकः ।
पूज्यानां पूज्य एवासौ कर्तानुग्रहनिग्रहान्
॥४३॥हठं न कुरु मुञ्च त्वं दुःखं प्राणप्रियेऽनघे ।
उत्तिष्ठारं तथा कार्यं कर्तुमर्हसि सुव्रते
॥४४॥यद्वै द्वारगतश्शंभुः पुरा विकटरूपधृक् ।
नानालीलाञ्च कृतवाञ्चेतयामि च तामिमाम्
॥४५॥तन्माहात्म्यं परं दृष्ट्वा कन्यां दातुं त्वया मया ।
अंगीकृतं तदा देवि तत्प्रमाणं कुरु प्रिये
॥४६॥ब्रह्मोवाच
इत्युक्त्वा सोऽद्रिनाथो हि विरराम ततो मुने ।
तदाकर्ण्य शिवामाता मेनोवाच हिमालयम्
॥४७॥मेनोवाच
मद्वचः श्रूयतां नाथ तथा कर्तुं त्वमर्हसि ।
गृहीत्वा तनुजां चैनां बद्ध्वा कण्ठे तु पार्वतीम्
॥४८॥अधः पातय निःशंकं दास्ये तां न हराय हि ।
तथैनामथवा नाथ गत्वा वै सागरे सुताम्
॥४९॥निमज्जय दयां त्यक्त्वा ततोऽद्रीश सुखी भव ।
यदि दास्यसि पुत्री त्वं रुद्राय विकटात्मने ।
तर्हि त्यक्ष्याम्यहं स्वामिन्निश्चयेन कलेवरम्
॥५०॥ब्रह्मोवाच
इत्युक्ते च तदा तत्र वचने मेनया हठान् ।
उवाच वचनं रम्यं पार्वती स्वयमागता
॥५१॥पार्वत्युवाच
मातस्ते विपरीता हि बुद्धिर्जाताऽशुभावहा ।
धर्मावलम्बनात्त्वं हि कथन्धर्मं जहासि वै
॥५२॥अयं रुद्रोऽपरस्साक्षात्सर्वप्रभव ईश्वरः ।
शम्भुस्सुरूपस्सुखदस्सर्वश्रुतिषु वर्णितः
॥५३॥महेशश्शंकरश्चायं सर्वदेवप्रभुस्स्वराट् ।
नानारूपाभिधो मातर्हरिब्रह्मादिसेवितः
॥५४॥अधिष्ठानं च सर्वेषां कर्ता हर्ता च स प्रभुः ।
निर्विकारी त्रिदेवेशो ह्यविनाशी सनातनः
॥५५॥यदर्थे देवतास्सर्वा आयाता किंकरीकृताः ।
द्वारि ते सोत्सवाश्चाद्य किमतोऽन्यत्परं सुखम्
॥५६॥उत्तिष्ठातः प्रयत्नेन जीवितं सफलं कुरु ।
देहि मां त्वं शिवायास्मै स्वाश्रमं कुरु सार्थकम्
॥५७॥देहि मां परमेशाय शंकराय जनन्यहो ।
स्वीकुरु त्वमिमं मातर्विनयम्मे ब्रवीमि ते
॥५८॥चेन्न दास्यसि तस्मै मां न वृणेऽन्यमहं वरम् ।
भागं लभेत्कथं सैंहं शृगालः परवंचकः
॥५९॥मनसा वचसा मातः कर्मणा च हरस्त्वयम् ।
मया वृतो वृतश्चैव यदिच्छसि तथा कुरु
॥६०॥ब्रह्मोवाच
इत्याकर्ण्य शिवावाक्यं मेना शैलेश्वरप्रिया ।
सुविलप्य महाक्रुद्धा गृहीत्वा तत्कलेवरम्
॥६१॥मुष्टिभिः कूर्परैश्चैव दन्तान्धर्षयती च सा ।
ताडयामास तां पुत्रीं विह्वलातिरुषान्विता
॥६२॥ये तत्र ऋषयस्तात त्वदाद्याश्चापरे मुने ।
तद्धस्तात्ताम्परिच्छिद्य नित्युर्दूरतरं ततः
॥६३॥तान्वै तथा विधान्दृष्ट्वा भर्त्सयित्वा पुनः पुनः ।
उवाच श्रावयन्ती सा दुर्वचो निखिलान्पुनः
॥६४॥मेनोवाच
किं मेना हि करिष्येऽहं दुष्टां ग्रहवतीं शिवाम् ।
दास्याम्यस्यै गरन्तीव्रं कूपे क्षेप्स्यामि वा ध्रुवम्
॥६५॥छेत्स्यामि कालीमथवा शस्त्रास्त्रैर्भूरिखण्डशः ।
निमज्जयिष्ये वा सिन्धौ स्वसुताम्पार्वतीं खलु
॥६६॥अथवा स्वशरीरं हि त्यक्ष्याम्याश्वन्यथा ध्रुवम् ।
न दास्ये शम्भवे कन्यां दुर्गां विकटरूपिणे
॥६७॥वरोऽयं कीदृशो भीमोऽनया लब्धश्च दुष्टया ।
कारितश्चोपहासो मे गिरेश्चापि कुलस्य हि
॥६८॥न माता न पिता भ्राता न बन्धुर्गोत्रजोऽपि हि ।
नो सुरूपं न चातुर्य्यं न गुहं वास्य किंचन
॥६९॥न वस्त्रं नाप्यलङ्कारास्सहायाः केऽपि तस्य न ।
वाहनं न शुभं ह्यस्य न वयो न धनन्तथा
॥७०॥न पावित्र्यं न विद्या च कीदृशः काय आर्तिदः ।
किं विलोक्य मया पुत्री देयास्मै स्यात्सुमंगला
॥७१॥ब्रह्मोवाच
इत्यादि सुविलप्याथ बहुशो मेनका तदा ।
रुरोदोच्चैर्मुने सा हि दुःखशोकपरिप्लुता
॥७२॥अथाहन्द्रुतमागत्याकथयम्मेनकां च ताम् ।
शिवतत्त्वं च परमं कुज्ञानहरमुत्तमम्
॥७३॥ब्रह्मोवाच
श्रोतव्यम्प्रीतितो मेने मदीयं वचनं शुभम् ।
यस्य श्रवणतः प्रीत्या कुबुद्धिस्ते विनश्यति
॥७४॥शङ्करो जगतः कर्ता भर्ता हर्ता तथैव च ।
न त्वं जानासि तद्रूपं कथन्दुःखं समीहसे
॥७५॥अनेकरूपनामा च नाना लीलाकरः प्रभुः ।
सर्वस्वामी स्वतन्त्रश्च मायाधीशोऽविकल्पकः
॥७६॥इति विज्ञाय मेने त्वं शिवान्देहि शिवाय वै ।
कुहठन्त्यज कुज्ञानं सर्वकार्यविनाशनम्
॥७७॥ब्रह्मोवाच
इत्युक्ता सा मया मेना विलपन्ती मुहुर्मुहुः ।
लज्जां किंचिच्छनैस्त्यक्त्वा मुने मां वाक्यमब्रवीत्
॥७८॥मेनोवाच
किमर्थन्तु भवान्ब्रह्मन्रूपमस्य महावरम् ।
व्यर्थीकरोति किमियं हन्यतां न स्वयं शिवा
॥७९॥न वक्तव्यं च भवता शिवाय प्रतिदीयताम् ।
न दास्येऽहं शिवायैनां स्वसुताम्प्राणवल्लभाम्
॥८०॥ब्रह्मोवाच
इत्युक्ते तु तदा सिद्धाः सनकाद्या महामुने ।
समागत्य महाप्रीत्या वचनं हीदमब्रुवन्
॥८१॥सिद्धा ऊचुः
अयम्वै परमस्साक्षाच्छिवः परसुखावहः ।
कृपया च भवत्पुत्र्यै दर्शनन्दत्तवान्प्रभुः
॥८२॥ब्रह्मोवाच
अथोवाच तु तान्मेना विलप्य च मुहुर्मुहुः ।
न देया तु मया सम्यग्गिरिशायोग्ररूपिणे
॥८३॥किमर्थन्तु भवन्तश्च सर्वे सिद्धाः प्रपञ्चिनः ।
रूपमस्याः परं नाम व्यर्थीकर्त्तुं समुद्यताः
॥८४॥इत्युक्ते च तया तत्र मुनेऽहं चकितोऽभवम् ।
सर्वे विस्मयमापन्ना देवसिद्धर्षिमानवाः
॥८५॥एतस्मिन्समये तस्या हठं श्रुत्वा दृढं महत् ।
द्रुतं शिवप्रियो विष्णुस्समागत्याऽब्रवीदिदम्
॥८६॥विष्णुरुवाच
पितॄणां च प्रिया पुत्री मानसी गुणसंयुता ।
पत्नी हिमवतस्साक्षाद्ब्रह्मणः कुलमुत्तमम्
॥८७॥सहायास्तादृशा लोके धन्या ह्यसि वदामि किम् ।
धर्मस्याधारभूतासि कथं धर्मं जहासि हि
॥८८॥देवैश्च ऋषिभिश्चैव ब्रह्मणा वा मया तथा ।
विरुद्धं कथ्यते किं नु त्वयैव सुविचार्यताम्
॥८९॥शिवत्वं न च जानासि निर्गुणस्य गुणस्स हि ।
विरूपस्स सुरूपो हि सर्वसेव्यस्सतां गतिः
॥९०॥तेनैव निर्मिता देवी मूलप्रकृतिरीश्वरी ।
तत्पार्श्वे च तदा तेन निर्मितः पुरुषोत्तमः
॥९१॥ताभ्यां चाहं तथा ब्रह्मा ततश्च गुणरूपतः ।
अवतीर्य स्वयं रुद्रो लोकानां हितकारकः
॥९२॥ततो वेदास्तथा देवा यत्किंचिद्दृश्यते जगत् ।
स्थावरं जंगमं चैव तत्सर्वं शकरादभूत्
॥९३॥तद्रूपम्वर्णितं केन ज्ञायते केन वा पुनः ।
मया च ब्रह्मणा यस्य ह्यतो लब्धश्च नैव हि
॥९४॥आब्रह्मस्तम्बपर्यंतं यत्किञ्चिद्दृश्यते जगत् ।
तत्सर्वं च शिवं विद्धि नात्र कार्या विचारणा
॥९५॥स एवेदृक्सुरूपेणावतीर्णो निजलीलया ।
शिवातपः प्रभावाद्धि तव द्वारि समागतः
॥९६॥तस्मात्त्वं हिमवत्पत्नि दुःखं मुञ्च शिवम्भज ।
भविष्यति महानन्दः क्लेशो यास्यति संक्षयम्
॥९७॥ब्रह्मोवाच
एवम्प्रबोधितायास्तु मेनकाया अभून्मुने ।
तस्यास्तु कोमलं किंचिन्मनो विष्णुप्रबोधितम्
॥९८॥परं हठं न तत्याज कन्यान्दातुं हराय न ।
स्वीचकार तदा मेना शिवमायाविमोहि ता
॥९९॥उवाच च हरिं मेना किञ्चिद्बुद्ध्वा गिरिप्रिया ।
श्रुत्वा विष्णुवचो रम्यं गिरिजाजननी हि सा
॥१००॥यदि रम्यतनुस्स स्यात्तदा देया मया सुता ।
नान्यथा कोटिशो यत्नैर्वच्मि सत्यन्दृढं वचः
॥१०१॥ब्रह्मोवाच
इत्युक्त्वा वचनं मेना तूष्णीमास दृढव्रता ।
शिवेच्छाप्रेरिता धन्या तथा याखिलमोहिनी
॥१०२॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वती खण्डे मेनाप्रबोधवर्णनो नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥