परिहासवर्णनम्
ब्रह्मोवाच
ततश्चाहं मुनिगणैश्शेषकृत्यं शिवाज्ञया ।
अकार्षं नारद प्रीत्या शिवाशिवविवाहतः
॥१॥तयोश्शिरोऽभिषेकश्च बभूवादरतस्ततः ।
ध्रुवस्यदर्शनं विप्राः कारयामासुरादरात
॥२॥हृदयालम्भनं कर्म बभूव तदनन्तरम् ।
स्वस्तिपाठश्च विप्रेन्द्र महोत्सवपुरस्सरः
॥३॥शिवाशिरसि सिन्दूरं ददौ शम्भुर्द्विजाज्ञया ।
तदानीं गिरिजाभिख्याद्भुतावर्ण्या बभूव ह
॥४॥ततो विप्राज्ञया तौ द्वावेकासनसमास्थितौ ।
लेभाते परमां शोभां भक्तचित्त मुदावहाम्
॥५॥ततः स्वस्थानमागत्य संस्रवप्राशनं मुदा ।
चक्रतुस्तौ निदेशान्मेऽद्भुतलीलाकरौ मुने
॥६॥इत्थं निवृत्ते विधिवद्याज्ञे वैवाहिके शिवः ।
ब्रह्मणे पूर्णपात्रं मे ददौ लोककृते प्रभुः
॥७॥गोदानं विधिवच्छम्भुराचार्याय ददौ ततः ।
महादानानि च प्रीत्या यानि मङ्गलदानि वै
॥८॥ततश्शतसुवर्णं च विप्रेभ्यस्स ददौ पृथक् ।
बहुभ्यो रत्नकोटीश्च नानाद्रव्याण्यनेकशः
॥९॥तदानीममरास्सर्वे परे जीवाश्चराचराः ।
मुमुदुश्चेतसातीव जयध्वनिः
॥१०॥मङ्गलध्वनिगानश्च बभूव बहु सर्वतः ।
वाद्यध्वनिरभूद्रम्यो सर्वानन्दप्रवर्द्धनः
॥११॥हरिर्मयाथ देवाश्च मुनयश्चापरेऽखिलाः ।
गिरिमामन्त्र्य सुप्रीत्या स्वस्थानम्प्रययुर्द्रुतम्
॥१२॥तदानीं शैलनगरे स्त्रियश्च मुदिता वरम् ।
शिवाशिवौ समानीय ययुः कुह वरालयम्
॥१३॥लौकिकाचारमाजह्रुस्ताः स्त्रियस्तत्र चादृताः ।
महोत्साहो बभूवाथ सर्वतः प्रमुदावहः
॥१४॥अथ तास्तौ समानीय दम्पती जनशंकरौ ।
वासालयम्महादिव्यं भवाचारं व्यधुर्मुदा
॥१५॥अथो समीपमागत्य शैलेन्द्रनगरस्त्रियः ।
निर्वृत्य मङ्गलं कर्म प्रापयन्दम्पती गृहम्
॥१६॥कृत्वा जयध्वनिं चक्रुर्ग्रन्थिनिर्मोचनादिकम् ।
सस्मितास्सकटाक्षाश्च पुलकाञ्चितविग्रहाः
॥१७॥वासगेहं सम्प्रविश्य मुमुहुः कामिनीवराः ।
प्रसंशन्त्यस्स्वभाग्यानि पश्यन्तः परमेश्वरम्
॥१८॥महासुरूपवेषश्च सर्व लावण्यसंयुतम् ।
नवीनयौवनस्थञ्च कामिनीचित्तमोहनम्
॥१९॥ईषद्धास्यप्रसन्नास्यं सकटाक्षं सुसुन्दरम् ।
सुसूक्ष्मवासो बिभ्राणं नानारत्न विभूषितम्
॥२०॥तदानीन्दिव्यनार्यश्च षोडशारं समाययुः ।
तौ दम्पती च संद्रष्टुं महादरपुरस्सरम्
॥२१॥सरस्वती च लक्ष्मीश्च सावित्री जाह्नवी तथा ।
अदितिश्च शची चैव लोपामुद्राप्यरुन्धती
॥२२॥अहल्या तुलसी स्वाहा रोहिणी च वसुन्धरा ।
शतरूपा च संज्ञा च रतिरेतास्सुरस्त्रियः
॥२३॥देवकन्या नागकन्या मुनिकन्या मनोहराः ।
तत्र या याः स्थितास्तासां सङ्ख्यां कर्तुं च कः क्षमः
॥२४॥ताभी रत्नासने दत्ते तत्रोवास शिवो मुदा ।
तमूचुः क्रमतो देव्यस्सुहास मधुरं वचः
॥२५॥सरस्वत्युवाच
प्राप्ता सती महादेवाधुना प्राणाधिका मुदा ।
दृष्ट्वा प्रियास्यञ्चन्द्राभं सन्तापन्त्यज कामुक
॥२६॥कालं गमय कालेश सतीसंश्लेषपूर्वकम् ।
विश्लेषस्ते न भविता सर्वकालं ममाश्रिता
॥२७॥लक्ष्मीरुवाच
लज्जां विहाय देवेश सतीं कृत्वा स्ववक्षसि ।
तिष्ठ ताम्प्रति का लज्जा प्राणा यान्ति यया विना
॥२८॥सावित्र्युवाच
भोजयित्वा सती शम्भो शीघ्रं त्वं भुंक्ष्व मा खिद ।
तदाचम्य सकर्पूरन्तांबूलं देहि सादरम्
॥२९॥जाह्नव्युवाच
स्वर्णकांतिकरां धृत्वा केशान्मार्जय योषितः ।
कामिन्यास्स्वामिसौभाग्यसुखं नातः परं भवेत्
॥३०॥अदितिरुवाच
भोजनान्ते शिवः शम्भुं मुखं शुद्ध्यर्थमादरात् ।
जलं देहि महाप्रीत्या दम्पतिप्रेम दुर्लभम्
॥३१॥शच्युवाच
कृत्वा विलापं यद्धेतोः शिवां कृत्वा च वक्षसि ।
यो बभ्रामानिशं मोहात् का लज्जा ते प्रियाम्प्रति
॥३२॥लोपामुद्रोवाच
व्यवहारोऽस्ति च स्त्रीणां भुक्त्वा वासगृहे शिव ।
दत्त्वा शिवायै ताम्बूलं शयनं कर्तुमर्हसि
॥३३॥अरुन्धत्युवाच
मया दत्तां सतीमेनां तुभ्यन्दातुमनीप्सिताम् ।
विविधं बोधयित्वेमां सुरतिं कर्तुमर्हसि
॥३४॥अहल्योवाच
वृद्धावस्थाम्परित्यज्य ह्यतीव तरुणो भव ।
येन मेनानुमन्येत त्वां सुतार्पितमानसा
॥३५॥तुलस्युवाच
सती त्वया परित्यक्ता कामो दग्धः पुरा कृतः ।
कथन्तदा वसिष्ठश्च प्रभो प्रस्थापितोऽधुना
॥३६॥स्वाहोवाच
स्थिरो भव महादेव स्त्रीणां वचसि साम्प्रतम् ।
विवाहे व्यवहारोऽस्ति पुरन्ध्रीणां प्रगल्भता
॥३७॥रोहिण्युवाच
कामम्पूरय पार्वत्याः कामशास्त्रविशारद ।
कुरु पारं स्वयं कामी कामिनीकामसागरम्
॥३८॥वसुन्धरोवाच
जानासि भावं भावज्ञ कामार्तानां च योषिताम् ।
न च स्वं स्वामिनं शम्भो ईश्वरं पाति सन्ततम्।
३९ शतरूपोवाच ।
भोगं दिव्यं विना भुक्त्वा न हि तुष्येत्क्षुधातुरः ।
येन तुष्टिर्भवेच्छंभो तत्कर्तुमुचितं स्त्रियाः
॥४०॥संज्ञोवाच
तूर्णं प्रस्थापय प्रीत्या पार्वत्या सह शङ्करम् ।
रत्नप्रदीपन्ताम्बूलं तल्पं निर्माय निर्जने
॥४१॥ब्रह्मोवाच
स्त्रीणान्तद्वचनं श्रुत्वा ता उवाच शिवः स्वयम् ।
निर्विकारश्च भगवान्योगीन्द्राणां गुरोर्गुरुः
॥४२॥शंकर उवाच
देव्यो न ब्रूत वचनमेवंभूतं ममान्तिकम् ।
जगतां मातरः साध्व्यः पुत्रे चपलता कथम्
॥४३॥ब्रह्मोवाच
शङ्करस्य वचः श्रुत्वा लज्जितास्सुरयोषितः ।
बभूवुः सम्भ्रमात्तूष्णीं चित्रपुत्तलिका यथा
॥४४॥भुक्त्वा मिष्टान्नमाचम्य महेशो हृष्टमानसः ।
सकर्पूरं च तांबूलं बुभुजे भार्य या सह
॥४५॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीय पार्वतीखण्डे परिहासवर्णनंनाम पञ्चाशत्तमोऽध्यायः ॥ ५० ॥