मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पार्वतीखण्डः, अध्याय ४७

3
रुद्रसंहिता · पार्वतीखण्डः · 47

हिमगिरिगृहाभ्यन्तरगमनोत्सववर्णनम्

ब्रह्मोवाच

ततः शैलवरः सोपि प्रीत्या दुर्गोपवीतकम् ।

कारयामास सोत्साहं वेदमन्त्रैश्शिवस्य च

॥१॥

अथ विष्ण्वादयो देवा मुनयस्सकुतू हलम् ।

हिमाचलप्रार्थनया विवेशान्तर्गृहं गिरेः

॥२॥

श्रुत्याचारं भवाचारं विधाय च यथार्थतः ।

शिवामलंकृतां चक्रुश्शिवदत्तविभूषणैः

॥३॥

प्रथमं स्नापयित्वा तां भूषयित्वाथ सर्वशः ।

नीराजिता सखीभिश्च विप्रपत्नीभिरेव च

॥४॥

अहताम्बरयुग्मेन शोभिता वरवर्णिनी ।

विरराज महाशैलदुहिता शङ्करप्रिया

॥५॥

कंचुकी परमा दिव्या नानारत्नान्विताद्भुता ।

विधृता च तया देव्या विलसन्त्याधिकं मुने

॥६॥

सा बभार तथा हारं दिव्यरत्नसमन्वितम् ।

वलयानि महार्हाणि शुद्धचामीकराणि च

॥७॥

स्थिता तत्रैव सुभगा ध्यायन्ती मनसा शिवम् ।

शुशुभेति महाशैलकन्यका त्रिजगत्प्रसूः

॥८॥

तदोत्सवो महानासीदुभयत्र मुदा वहः ।

दानं बभूव विविधं ब्राह्मणेभ्यो विवर्णितम्

॥९॥

अन्येषां द्रव्यदानं च बभूव विविधम्महत् ।

गीतवाद्यविनोदश्च तत्रोत्सवपुरस्सरम्

॥१०॥

अथ विष्णुरहं धाता शक्राद्या अमरास्तथा ।

मुनयश्च महाप्रीत्या निखिलास्सोत्सवा मुदा

॥११॥

सुप्रणम्य शिवां भक्त्या स्मृत्वा शिवपदाम्बुजम् ।

सम्प्राप्य हिमगिर्य्याज्ञां स्वं स्वं स्थाने समाश्रिताः

॥१२॥

एतस्मिन्नन्तरे तत्र ज्योतिःशास्त्र विशारदः ।

हिमवन्तं गिरीन्द्रं तं गर्गो वाक्यमभाषत

॥१३॥

गर्ग उवाच

हिमाचल धराधीश स्वामिन् कालीपतिः प्रभो ।

पाणिग्रहार्थं शंभुं चानय त्वं निजमंदिरम्

॥१४॥

ब्रह्मोवाच

अथ तं समयं ज्ञात्वा कन्यादानोचितं गिरिः ।

निवेदितं च गर्गेण मुसुदेऽतीव चेतसि

॥१५॥

महीधरान्द्विजांश्चैव परानपि तदा गिरिः ।

प्रेषयामास सुप्रीत्या शिवानयनकाम्यया

॥१६॥

ते पर्वता द्विजाश्चैव सर्वमंगलपाणयः ।

संजग्मुस्सोत्सवाः प्रीत्या यत्र देवो महेश्वरः

॥१७॥

तदा वादित्रघोषेण ब्रह्मघोषेण भूयसा ।

महोत्साहोऽभवत्तत्र गीतनृत्यान्वितेन हि

॥१८॥

श्रुत्वा वादित्रनिर्घोषं सर्वे शंकरसेवकाः ।

उत्थितास्त्वैकपद्येन सदेवर्षिगणा मुदा

॥१९॥

परस्परं समूचुस्ते हर्षनिर्भरमानसाः ।

अत्रागच्छंति गिरयश्शिवानयनकाम्यया

॥२०॥

पाणिग्रहणकालो हि नूनं सद्यस्समागतः ।

महद्भाग्यं हि सर्वेषां संप्राप्तमहि मन्महे

॥२१॥

धन्या वयं विशेषेण विवाहं शिवयोर्ध्रुवम् ।

द्रक्ष्यामः परमप्रीत्या जगतां मंगलालयम्

॥२२॥

ब्रह्मोवाच

एवं यावदभूत्तेषां संवादस्तत्र चादरात् ।

तावत्सर्वे समायाताः पर्वतेंद्रस्य मंत्रिणः

॥२३॥

ते गत्वा प्रार्थयांचक्रुश्शिव विष्ण्वादिकानपि ।

कन्यादानोचितः कालो वर्तते गम्यतामिति

॥२४॥

ते तच्छ्रुत्वा सुरास्सर्वे मुने विष्ण्वादयोऽखिलाः ।

मुमुदुश्चेतसातीव जयेत्यूचुर्गिरिं द्रुतम्

॥२५॥

शिवोऽपि मुमुदेऽतीव कालीप्रापणलालसः ।

गुप्तं चकार तच्चिह्नं मनस्येवाद्भुताकृतिः

॥२६॥

अथ स्नानं कृतन्तेन मङ्गलद्रव्यसंयुतम् ।

शूलिना सुप्रसन्नेन लोकानुग्रहकारिणा

॥२७॥

स्नातस्सुवाससा युक्तस्सर्वैस्तैः परिवारितः ।

आरोपितो वृषस्कन्धे लोकपालैस्सुसेवितः

॥२८॥

पुरस्कृत्य प्रभुं सर्वे जग्मुर्हिमगिरेर्गृहम् ।

वाद्यानि वादयन्तश्च कृतवन्तः कुतूहलम्

॥२९॥

हिमागप्रेषिता विप्रास्तथा ते पर्वतोत्तमाः ।

शम्भोरग्रचरा ह्यासन्कुतूहलसमन्विताः

॥३०॥

बभौ छत्रेण महता ध्रियमाणो हि मूर्द्धनि ।

चामरैर्वीज्यमानोऽसौ सविता नो महेश्वरः

॥३१॥

अहं विष्णुस्तथा चेन्द्रो लोकपाला स्तथैव च ।

अग्रगाः स्मातिशोभन्ते श्रिया परमया श्रिताः

॥३२॥

ततश्शङ्खाश्च भेर्य्यश्च पटहानकगोमुखाः ।

पुनः पुनरवाद्यन्त वादित्राणि महोत्सवे

॥३३॥

तथैव गायकास्सर्वे जगुः परममङ्गलम् ।

नर्तक्यो ननृतुस्सर्वा नानातालसमन्विताः

॥३४॥

एभिस्समेतो जगदेकबन्धुर्ययौ तदानीं परमेशवर्चसा ।

सुसेव्यमानस्सकलैस्सुरेश्वरैर्विकीर्यमाणः कुसुमैश्च हर्षितैः

॥३५॥

सम्पूजितस्तदा शम्भुः प्रविष्टो यज्ञमण्डपम् ।

संस्तूयमानो बह्वीभिः स्तुतिभिः परमेश्वरः

॥३६॥

वृषादुत्तारयामासुर्महेशम्पर्वतोत्तमाः ।

निन्युर्गृहान्तरम्प्रीत्या महोत्सवपुरस्सरम्

॥३७॥

हिमालयोऽपि सम्प्राप्तं सदेवगणमीश्वरम् ।

प्रणम्य विधिवद्भक्त्या नीराजनमथाकरोत्

॥३८॥

सर्वान्सुरान्मुनीनन्यान्प्रणम्य समहोत्सवः ।

सम्मानमकरोत्तेषां प्रशंसन्स्वविधिम्मुदा

॥३९॥

सोऽगस्साच्युतमीशानं सुपाद्यार्घ्यपुरस्सरम् ।

सदेवमुख्यवर्गं च निनाय स्वालयान्तरम्

॥४०॥

प्राङ्गणे स्थापयामास रत्नसिंहासनेषु तान् ।

सर्वान्विष्णु च मामीशं विशिष्टांश्च विशेषतः

॥४१॥

सखीभिर्मेनया प्रीत्या ब्राह्मणस्त्रीभिरेव च ।

अन्याभिश्च पुरन्धीभिश्चक्रे नीराजनम्मुदा

॥४२॥

पुरोधसा कृत्यविदा शंकराय महात्मने ।

मधुपर्कादिकं यद्यत्कृत्यं तत्तत्कृतं मुदा

॥४३॥

मया स नोदितस्तत्र पुरोधाः कृतवाँस्तदा ।

सुमंगलं च यत्कर्म प्रस्तावसदृशम्मुने

॥४४॥

अन्तर्वेद्यां महाप्रीत्या सम्प्रविश्य हिमाद्रिणा ।

यत्र सा पार्वती कन्या सर्वाभरणभूषिता

॥४५॥

वेदिकोपरि तन्वंगी संस्थिता सुविराजिता ।

तत्र नीतो मद्दादेवो विष्णुना च मया सह

॥४६॥

लग्नन्निरीक्षमाणास्ते वाचस्पतिपुरोगमाः ।

कन्यादानोचितन्तत्र बभूवुः परमोत्सवाः

॥४७॥

तत्रोपविष्टो गर्गश्च यत्रास्ति घटिकालयम् ।

यावच्छेषा घटी तावत्कृतम्प्रणवभाषणम्

॥४८॥

पुण्याहम्प्रवदन्गर्गस्समाध्रेऽञ्जलिम्मुदा ।

पार्व्वत्यक्षतपूर्णं च ववृषे च शिवोपरि

॥४९॥

तया सम्पूजितो रुद्रो दध्यक्षतकुशाम्बुभिः ।

परमोदाढ्यया तत्र पार्वत्या रुचिरास्यया

॥५०॥

विलोकयन्ती तं शम्भुं यस्यार्थे परमन्तपः ।

कृतम्पुरा महाप्रीत्या विरराज शिवाति सा

॥५१॥

मया मुने तदोक्तस्तु गर्गादिमुनिभिश्च सः ।

समानर्च शिवां शम्भुर्लौकिकाचारसंरतः

॥५२॥

एवं परस्परं तौ वै पार्व्वतीपरमेश्वरौ ।

अर्चयन्तौ तदानीञ्च शुशुभाते जगन्मयौ

॥५३॥

त्रैलोक्यलक्ष्म्या संवीतौ निरीक्षन्तौ परस्परम् ।

तदा नीराजितौ लक्ष्म्यादिभिस्स्त्रीभिर्विशेषतः

॥५४॥

तथा परा वै द्विजयोषितश्च नीराजयामासुरथो पुरस्त्रियः ।

शिवाञ्च शम्भुञ्च विलोकयन्त्योऽवापुर्म्मुदन्तास्सकला महोत्सवम्

॥५५॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिव हिमगिरिगृहाभ्यन्तरगमनोत्सववर्णनं नाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥