शिवहिमाचलसम्वादवर्णनम्
ब्रह्मोवाच
अथ शैलपतिर्हृष्टः सत्पुष्पफलसंचयम् ।
समादाय स्वतनयासहितोऽगाद्धरांतिकम्
॥१॥स गत्वा त्रिजगन्नाथं प्रणम्य ध्यानतत्परम् ।
अर्थयामास तनयां कालीं तस्मै हृदाद्भुताम्
॥२॥फलपुष्पादिकं सर्वं तत्तदग्रे निधाय सः ।
अग्रे कृत्वा सुतां शम्भुमिदमाह च शैलराट्
॥३॥हिमगिरिरुवाच
भगवंस्तनया मे त्वां सेवितुं चन्द्रशेखरम् ।
समुत्सुका समानीता त्वदाराधनकांक्षया
॥४॥सखीभ्यां सह नित्यं त्वां सेवतामेव शंकरम् ।
अनुजानीहि तां नाथ मयि ते यद्यनुग्रहः
॥५॥ब्रह्मोवाच
अथ तां शंकरोऽपश्यत्प्रथमारूढयौवनाम् ।
फुल्लेन्दीवरपत्राभा पूर्णचन्द्रनिभाननाम्
॥६॥समस्तलीलासंस्थानशुभवेषविजृम्भिकाम् ।
कम्बुग्रीवां विशालाक्षीं चारुकर्णयुगोज्ज्वलाम्
॥७॥मृणालायतपर्य्यन्तबाहुयुग्ममनोहराम् ।
राजीवकुड्मलप्रख्यौ घनपीनौदृढौस्तनौ
॥८॥बिभ्रतीं क्षीणमध्यां च त्रिवलीमध्यराजिताम् ।
स्थलपद्मप्रतीकाशपादयुग्मविराजिताम्
॥९॥ध्यानपंजरनिर्बद्धमुनिमानसमप्यलम् ।
दर्शनाद्भ्रंशने शक्तां योषिद्गणशिरोमणिम्
॥१०॥दृष्ट्वा तां तादृशीं तात ध्यानिनां च मनोहराम् ।
विग्रहे तन्त्रमन्त्राणां वर्द्धिनीं कामरूपिणीम्
॥११॥न्यमीलयदृशौ शीघ्रं दध्यौ स्वं रूपमुत्तमम् ।
परतत्त्वं महायोगी त्रिगुणात्परमव्ययम्
॥१२॥दृष्ट्वा तदानीं सकलेश्वरं विभुं तपोजुषाणं विनिमीलितेक्षणम् ।
कपर्दिनं चन्द्रकलाविभूषणं वेदान्तवेद्यं परमासने स्थितम्
॥१३॥ववन्द शीर्ष्णा च पुनर्हिमाचलः स संशयं प्रापददीनसत्त्वः ।
उवाच वाक्यं जगदेकबन्धुं गिरीश्वरो वाक्यविदां वरिष्ठः
॥१४॥हिमाचल उवाच
देवदेव महादेव करुणाकर शंकर ।
पश्य मां शरणम्प्राप्तमुन्मील्य नयने विभो
॥१५॥शिव शर्व महेशान जगदानन्दकृत्प्रभो ।
त्वां नतोऽहं महादेव सर्वापद्विनिवर्तकम्
॥१६॥न त्वां जानंति देवेश वेदाश्शास्त्राणि कृत्स्नशः ।
अतीतो महिमाध्वानं तव वाङ्मनसोः सदा
॥१७॥अतद्व्यावृत्तितस्त्वां वै चकितं चकितं सदा ।
अभिधत्ते श्रुतिः सर्वा परेषां का कथा मता
॥१८॥जानंति बहवो भक्तास्त्वत्कृपां प्राप्य भक्तितः ।
शरणागत भक्तानां न कुत्रापि भ्रमादिकम्
॥१९॥विज्ञप्तिं शृणु मत्प्रीत्या स्वदासस्य ममाधुना ।
तव देवाज्ञया तात दीनत्वाद्वर्णयामि हि
॥२०॥सभाग्योहं महादेव प्रसादात्तव शंकर ।
मत्वा स्वदासं मां नाथ कृपां कुरु नमोऽस्तु ते
॥२१॥प्रत्यहं चागमिष्यामि दर्शनार्थं तव प्रभो ।
अनया सुतया स्वामिन्निदेशं दातुमर्हसि
॥२२॥ब्रह्मोवाच
इत्याकर्ण्य वचस्तस्योन्मील्य नेत्रे महेश्वरः ।
त्यक्तध्यानः परामृश्य देवदेवोऽब्रवीद्वचः
॥२३॥महेश्वर उवाच
आगंतव्यं त्वया नित्यं दर्शनार्थं ममाचल ।
कुमारीं सदने स्थाप्य नान्यथा मम दर्शनम्
॥२४॥ब्रह्मोवाच
महेशवचनं श्रुत्वा शिवातातस्तथाविधम् ।
अचलः प्रत्युवाचेदं गिरिशं नतकमधरः
॥२५॥हिमाचल उवाच
कस्मान्मयानया सार्द्धं नागंतव्यं तदुच्यताम् ।
सेवने किमयोग्येयं नाहं वेद्म्यत्र कारणम्
॥२६॥ब्रह्मोवाच
ततोऽब्रवीद्गिरिं शंभुः प्रहसन्वृषभध्वजः ।
लोकाचारं विशेषेण दर्शयन्हि कुयोगिनाम्
॥२७॥शंभुरुवाच
इयं कुमारी सुश्रोणी तन्वी चन्द्रानना शुभा ।
नानेतव्या मत्समीपे वारयामि पुनः पुनः
॥२८॥मायारूपा स्मृता नारी विद्वद्भिर्वेदपारगैः ।
युवती तु विशेषेण विघ्नकर्त्री तपस्विनाम्
॥२९॥अहं तपस्वी योगी च निर्लिप्तो मायया सदा ।
प्रयोजनं न युक्त्या वै स्त्रिया किं मेस्ति भूधर
॥३०॥एवं पुनर्न वक्तव्यं तपस्विवरसंश्रित ।
वेदधर्मप्रवीणस्त्वं यतो ज्ञानिवरो बुधः
॥३१॥भवत्यचल तत्संगाद्विषयोत्पत्तिराशु वै ।
विनश्यति च वैराग्यं ततो भ्रश्यति सत्तपः
॥३२॥अतस्तपस्विना शैल न कार्या स्त्रीषु संगतिः ।
महाविषयमूलं सा ज्ञानवैराग्यनाशिनी
॥३३॥ब्रह्मोवाच
इत्याद्युक्त्वा बहुतरं महायोगी महेश्वरः ।
विरराम गिरीशं तं महायोगिवरः प्रभुः
॥३४॥एतच्छ्रुत्वा वचनं तस्य शंभोर्निरामयं निःस्पृहं निष्ठुरं च ।
कालीतातश्चकितोऽभूत्सुरर्षे तद्वत्किंचिद्व्याकुलश्चास तूष्णीम्
॥३५॥तपस्विनोक्तं वचनं निशम्य तथा गिरीशं चकितं विचार्य्य ।
अतः प्रणम्यैव शिवं भवानी जगाद वाक्यं विशदन्तदानीम्
॥३६॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवहिमाचलसम्वादवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥