मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पार्वतीखण्डः, अध्याय २९

3
रुद्रसंहिता · पार्वतीखण्डः · 29

ब्रह्मन् विधे महाभाग किं जातं तदनन्तरम्

नारद उवाच

ब्रह्मन् विधे महाभाग किं जातं तदनन्तरम् ।

तत्सर्वं श्रोतुमिच्छामि कथय त्वं शिवायशः

॥१॥

ब्रह्मोवाच

देवर्षे श्रूयतां सम्यक्कथयामि कथां मुदा ।

तां महापापसंहर्त्रीं शिवभक्तिविवर्द्धिनीम्

॥२॥

पार्वती वचनं श्रुत्वा हरस्स परमात्मनः ।

दृष्ट्वानन्दकरं रूपं जहर्षातीव च द्विज

॥३॥

प्रत्युवाच महा साध्वी स्वोपकण्ठस्थितं विभुम् ।

अतीव सुखिता देवी प्रीत्युत्फुल्लानना शिवा

॥४॥

पार्वत्युवाच

त्वं नाथो मम देवेश त्वया किं विस्मृतम्पुरा ।

दक्षयज्ञविनाशं हि यदर्थं कृतवान्हठात्

॥५॥

स त्वं साहं समुत्पन्ना मेनयां कार्य्यसिद्धये ।

देवानां देव देदेश तारकाप्ताऽसुखात्मनाम्

॥६॥

यदि प्रसन्नो देवेश करोषि च कृपां यदि ।

पतिर्भव ममेशान मम वाक्यं कुरु प्रभो

॥७॥

पितुर्गेहे मया सम्यग्गम्यते त्वदनुजया ।

प्रसिद्धं क्रियतां तद्वै विशुद्धं परमं यशः

॥८॥

गन्तव्यं भवता नाथ हिमवत्पार्श्वतं प्रभो ।

याचस्व मां ततो भिक्षु भूत्वा लीलाविशारदः

॥९॥

तथा त्वया प्रकर्तव्यं लोके ख्यापयता यशः ।

पितुर्मे सफलं सर्वं कुरुष्वैवं गृहा*मम्

॥१०॥

ऋषिभिर्बोधितः प्रीत्या स्वबन्धुपरिवारितः ।

करिष्यति न संदेहस्तव वाक्यं पिता मम

॥११॥

दक्षकन्या पुराहं वै पित्रा दत्ता यदा तव ।

यथोक्तविधिना तत्र विवाहो न कृतस्त्वया

॥१२॥

न ग्रहाः पूजितास्तेन दक्षेण जनकेन मे ।

ग्रहाणां विषयस्तेन सच्छिद्रोयं महानभूत्

॥१३॥

तस्माद्यथोक्तविधिना कर्तुमर्हसि मे प्रभो ।

विवाहं त्वं महादेव देवानां कार्य्यसिद्धये

॥१४॥

विवाहस्य यथा रीतिः कर्तव्या सा तथा धुवम् ।

जानातु हिमवान् सम्यक् कृतं पुत्र्या शुभं तपः

॥१५॥

ब्रह्मोवाच

इत्येवं वचनं श्रुत्वा सुप्रसन्नस्सदाशिवः ।

प्रोवाच वचनं प्रीत्या गिरिजां प्रहसन्निव

॥१६॥

शिव उवाच

शृणु देवि महेशानि परमं वचनं मम ।

यथोचितं सुमाङ्गल्यमविकारि तथा कुरु

॥१७॥

ब्रह्मादिकानि भूतानि त्वनित्यानि वरानने ।

दृष्टं यत्सर्वमेतच्च नश्वरं विद्धि भामिनि

॥१८॥

एकोनेकत्वमापन्नो निर्गुणो हि गुणान्वितः ।

ज्योत्स्नया यो विभाति परज्योत्स्नान्वितोऽभवत्

॥१९॥

स्वतन्त्रः परतन्त्रश्च त्वया देवि कृतो ह्यहम् ।

सर्वकर्त्री च प्रकृतिर्महामाया त्वमेव हि

॥२०॥

मायामयं कृतमिदं च जगत्समग्रं सर्वात्मना हि विधृतं परया स्वबुद्ध्या ।

सवार्त्मभिस्सुकृतिभिः परमात्मभावैस्संसिक्तमात्मनि गणः परिवेष्टितश्च

॥२१॥

के ग्रहाः के ऋतुगणाः के वान्येपि त्वया ग्रहाः ।

किमुक्तं चाधुना देवि शिवार्थं वरवर्णिनि

॥२२॥

गुणकार्य्यप्रभेदेनावाभ्यां प्रादुर्भवः कृतः ।

भक्तहेतोर्जगत्यस्मिन्भक्तवत्सलभावतः

॥२३॥

त्वं हि वै प्रकृतिस्सूक्ष्मा रजस्सत्त्वतमोमयी ।

व्यापारदक्षा सततं सगुणा निर्गुणापि च

॥२४॥

सर्वेषामिह भूतानामहमात्मा सुमध्यमे ।

निर्विकारी निरीहश्च भक्तेच्छोपात्तविग्रहः

॥२५॥

हिमालयं न गच्छेयं जनकं तव शैलजे ।

ततस्त्वां भिक्षुको भूत्वा न याचेयं कथंचन

॥२६॥

महागुणैर्गरिष्ठोपि महात्मापि गिरीन्द्रजे ।

देहीतिवचनात्सद्यः पुरुषो याति लाघवम्

॥२७॥

इत्थं ज्ञात्वा तु कल्याणि किमस्माकं वदस्यथ ।

कार्य्यं त्वदाज्ञया भद्रे यथेच्छसि तथा कुरु

॥२८॥

ब्रह्मोवाच

तेनोक्तापि महादेवी सा साध्वी कमलेक्षणा ।

जगाद शंकरं भक्त्या सुप्रणम्य पुनः पुनः

॥२९॥

पार्वत्युवाच

त्वमात्मा प्रकृतिश्चाहं नात्र कार्य्या विचारणा ।

स्वतन्त्रौ भक्तवशगौ निर्गुणौ सगुणावपि

॥३०॥

प्रयत्नेन त्वया शम्भो कार्यं वाक्यं मम प्रभो ।

याचस्व मां हिमगिरेस्सौभाग्यं देहि शङ्कर

॥३१॥

कृपां कुरु महेशान तव भक्तास्मि नित्यशः ।

तव पत्नी सदा नाथ ह्यहं जन्मनि जन्मनि

॥३२॥

त्वं ब्रह्म परमात्मा हि निर्गुणः प्रकृतेः परः ।

निर्विकारी निरीहश्च स्वतन्त्रः परमेश्वरः

॥३३॥

तथापि सगुणोपीह भक्तोद्धारपरायणः ।

विहारी स्वात्मनिरतो नानालीलाविशारदः

॥३४॥

सर्वथा त्वामहं जाने महादेव महेश्वर ।

किमुक्तेन च सर्वज्ञ बहुना हि दयां कुरु

॥३५॥

विस्तारय यशो लोके कृत्वा लीलां महाद्भुताम् ।

यत्सुगीय जना नाथांजसोत्तीर्णा भवाम्बुधेः

॥३६॥

ब्रह्मोवाच

इत्येवमुक्त्वा गिरिजा सुप्रणम्य पुनः पुनः ।

विरराम महेशानं नतस्कन्धा कृतांजलिः

॥३७॥

इत्येवमुक्तस्स तया महात्मा महेश्वरो लोकविडम्बनाय ।

तथेति मत्त्वा प्रहसन्बभूव मुदान्वितः कर्तुमनास्तदेव

॥३८॥

ततो ह्यन्तर्हितश्शम्भुर्बभूव सुप्रहर्षितः ।

कैलासं प्रययौ काल्या विरहाकृष्टमानसः

॥३९॥

तत्र गत्वा महेशानो नन्द्यादिभ्यस्स ऊचिवान् ।

वृत्तान्तं सकलं तम्वै परमानन्दनिर्भरः

॥४०॥

तेऽपि श्रुत्वा गणास्सर्वे भैरवाद्याश्च सर्वशः ।

बभूवुस्सुखिनोत्यन्तं विदधुः परमोत्सवम्

॥४१॥

सुमंगलं तत्र द्विज बभूवातीव नारद ।

सर्वेषां दुःखनाशोभूद्रुद्रः प्रापापि संमुदम्

॥४२॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाशिवसम्वादवर्णनं नामैकोनत्रिंशोऽध्यायः ॥ २९ ॥