विधिमोहवर्णनम्
ब्रह्मोवाच
अथो ममाज्ञया विप्रैस्संस्थाप्यानलमीश्वरः ।
होमं चकार तत्रैवमङ्के संस्थाप्य पार्वतीम्
॥१॥ऋग्यजुस्साममन्त्रैश्चाहुतिं वह्नौ ददौ शिवः ।
लाजाञ्जलिं ददौ कालीभ्राता मैनाकसंज्ञकः
॥२॥अथ काली शिवश्चोभौ चक्रतुर्विधिवन्मुदा ।
वह्निप्रदक्षिणां तात लोकाचारं विधाय च
॥३॥तत्राद्भुतमलञ्चक्रे चरितं गिरिजापतिः ।
तदेव शृणु देवर्षे तवस्नेहाद्ब्रवीम्यहम्
॥४॥तस्मिन्नवसरे चाहं शिवमायाविमोहितः ।
अपश्यञ्चरणे देव्या नखेन्दुञ्च मनोहरम्
॥५॥दर्शनात्तस्य च तदाऽभूवं देवमुने ह्यहम् ।
मदनेन समाविष्टोऽतीव क्षुभितमानसः
॥६॥मुहुर्मुहुरपश्यं वै तदंगं स्मरमोहितः ।
ततस्तद्दर्शनात्सद्यो वीर्यं मे प्राच्युतद्भुवि
॥७॥रेतसा क्षरता तेन लज्जितोहं पितामहः ।
मुने व्यमर्द तच्छिन्नं चरणाभ्यां हि गोपयन्
॥८॥तज्ज्ञात्वा च महादेवश्चुकोपातीव नारद ।
हन्तुमैच्छत्तदा शीघ्रं वां विधिं काममोहितम्
॥९॥हाहाकारो महानासीत्तत्र सर्वत्र नारद ।
जनाश्च कम्पिरे सर्व्वे भय मायाति विश्वभृत्
॥१०॥ततस्तंन्तुष्टुवुश्शम्भुं विष्ण्वाद्या निर्जरा मुने ।
सकोपम्प्रज्वलन्तन्तन्तेजसा हन्तुमुद्यतम्
॥११॥देवा ऊचुः
देवदेव जगद्व्यापिन्परमेश सदाशिव ।
जगदीश जगन्नाथ सम्प्रसीद जगन्मय
॥१२॥सर्वेषामपि भावानान्त्वमात्मा हेतुरीश्वरः ।
निर्विकारोऽव्ययो नित्यो निर्विकल्पोऽक्षरः परः
॥१३॥आद्यन्तावस्य यन्मध्यमिदमन्यदहम्बहिः ।
यतोऽव्ययः सनैतानि तत्सत्यम्ब्रह्म चिद्भवान्
॥१४॥तवैव चरणाम्भोजम्मुक्तिकामा दृढव्रताः ।
विसृज्योभयतस्संगं मुनयस्समुपासते
॥१५॥त्वम्ब्रह्म पूर्णममृतं विशोकं निर्गुणम्परम् ।
आनंदमात्रमव्यग्रमविकारमनात्मकम्
॥१६॥विश्वस्य हेतुरुदयस्थितिसंयमनस्य हि ।
तदपेक्षतयात्मेशोऽनपेक्षस्सर्वदा विभुः
॥१७॥एकस्त्वमेव सदसद्वयमद्वयमेव च ।
स्वर्णं कृताकृतमिव वस्तुभेदो न चैव हि
॥१८॥अज्ञानतस्त्वयि जनैर्विकल्पो विदितो यतः ।
तस्माद्भ्रमप्रतीकारो निरुपाधेर्न हि स्वतः
॥१९॥धन्या वयं महेशान तव दर्शनमात्रतः ।
दृढभक्तजनानन्दप्रदश्शम्भो दयां कुरु
॥२०॥त्वमादिस्त्वमनादिश्च प्रकृतेस्त्वं परः पुमान् ।
विश्वेश्वरो जगन्नाथो निर्विकारः परात्परः
॥२१॥योऽयं ब्रह्मास्तिऽ रजसा विश्वमूर्तिः पितामहः ।
त्वत्प्रसादात्प्रभो विष्णुस्सत्त्वेन पुरुषोत्तमः
॥२२॥कालाग्निरुद्रस्तमसा परमात्मा गुणः परः ।
सदा शिवो महेशानस्सर्वव्यापी महेश्वरः
॥२३॥व्यक्तं महच्च भूतादिस्तन्मात्राणीन्द्रियाणि च ।
त्वयैवाधिष्ठितान्येव विश्वमूर्ते महेश्वर
॥२४॥महादेव परेशान करुणाकर शंकर ।
प्रसीद देवदेवेश प्रसीद पुरुषोत्तम
॥२५॥वासांसि सागरास्सप्त दिशश्चैव महाभुजाः ।
द्यौर्मूर्द्धा ते विभोर्नाभिः खं वायुर्नासिका ततः
॥२६॥चक्षूंष्यग्नी रविस्सोमः केशा मेघास्तव प्रभो ।
नक्षत्रतारकाद्याश्च ग्रहाश्चैव विभूषणम्
॥२७॥कथं स्तोष्यामि देवेश त्वां विभो परमेश्वर ।
वाचामगोचरोऽसि त्वं मनसा चापि शंकर
॥२८॥पञ्चास्याय च रुद्राय पञ्चाशत्कोटिमूर्तये ।
त्र्यधिपाय वरिष्ठाय विद्यातत्त्वाय ते नमः
॥२९॥अनिदेंश्याय नित्याय विद्युज्ज्वालाय रूपिणे ।
अग्निवर्णाय देवाय शंकराय नमोनमः
॥३०॥विद्युत्कोटिप्रतीकाशमष्टकोणं सुशोभनम् ।
रूपमास्थाय लोकेऽस्मिन्संस्थिताय नमो नमः
॥३१॥ब्रह्मोवाच
इत्याकर्ण्य वचस्तेषां प्रसन्नः परमेश्वरः ।
ब्रह्मणो मे ददौ शीघ्रमभयं भक्तवत्सलः
॥३२॥अथ सर्वे सुरास्तत्र विष्ण्वाद्या मुनयस्तथा ।
अभवन्सुस्मितास्तात चक्रुश्च परमोत्सवम्
॥३३॥मम तद्रेतसा तात मर्दितेन मुहुर्मुहुः ।
अभवन्कणकास्तत्र भूरिशः परमोज्ज्वलाः
॥३४॥ऋषयो बहवो जाता वालखिल्यास्सहस्रशः ।
कणकैस्तैश्च वीर्यस्य प्रज्वलद्भिः स्वतेजसा
॥३५॥अथ ते ह्यृषयस्सर्वे उपतस्थुस्तदा मुने ।
ममान्तिकं परप्रीत्या तात तातेति चाब्रुवन्
॥३६॥ईश्वरेच्छाप्रयुक्तेन प्रोक्तास्ते नारदेन हि ।
वालखिल्यास्तु ते तत्र कोपयुक्तेन चेतसा
॥३७॥नारद उवाच
गच्छध्वं संगता यूयं पर्वतं गन्धमादनम् ।
न स्थातव्यम्भवद्भिश्च न हि वोऽत्र प्रयोजनम्
॥३८॥तत्र तप्त्वा तपश्चाति भवितारो मुनीश्वराः ।
सूर्य्यशिष्याश्शिवस्यैवाज्ञया मे कथितन्त्विदम्
॥३९॥ब्रह्मोवाच
इत्युक्तास्ते तदा सर्वे बालखिल्याश्च पर्वतम् ।
सत्वरम्प्रययुर्नत्वा शंकरं गन्धमादनम्
॥४०॥विष्ण्वादिभिस्तदाभूवं श्वासितोहं मुनीश्वर ।
निर्भयः परमेशानप्रेरितैस्तैर्महात्मभिः
॥४१॥अस्तवञ्चापि सर्वेशं शंकरम्भक्तवत्सलम् ।
सर्वकार्यकरं ज्ञात्वा दुष्टगर्वापहारकम्
॥४२॥देवदेव महादेव करुणासागर प्रभो ।
त्वमेव कर्ता सर्वस्य भर्ता हर्त्ता च सर्वथा ।
त्वदिच्छया हि सकलं स्थितं हि सचराचरम् ।
तन्त्यां यथा बलीवर्दा मया ज्ञातं विशेषतः
॥४४॥इत्येवमुक्त्वा सोहं वै प्रणामं च कृताञ्जलिः ।
अन्येऽपि तुष्टुवुस्सर्वे विष्ण्वाद्यास्तं महेश्वरम्
॥४५॥अथाकर्ण्य नुतिं शुद्धां मम दीनतया तदा ।
विष्ण्वादीनाञ्च सर्वेषां प्रसन्नोऽभून्महेश्वरः
॥४६॥ददौ सोतिवरं मह्यमभयं प्रीतमानसः ।
सर्वे सुखमतीवापुरत्यमोदमहं मुने
॥४७॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे विधिमोहवर्णनं नाम नवचत्वारिंशोऽध्यायः ॥ ४९ ॥