मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पार्वतीखण्डः, अध्याय ९

3
रुद्रसंहिता · पार्वतीखण्डः · 9

संक्षेपशिवचरितवर्णनम्

नारद उवाच

विधे तात त्वया शैववर प्राज्ञाद्भुता कथा ।

वर्णिता करुणां कृत्वा प्रीतिर्मे वर्द्धिताधिकम्

॥१॥

विधे गते स्वकं धाम मयि वै दिव्यदर्शगे ।

ततः किमभवत्तात कृपया तद्वदाधुना

॥२॥

ब्रह्मोवाच

गते त्वयि मुने स्वर्गे कियत्काले गते सति ।

मेना प्राप्येकदा शैलनिकटं प्रणनाम सा

॥३॥

स्थित्वा सविनयम्प्राह स्वनाथं गिरिकामिनी ।

तत्र शैलाधिनाथं सा प्राणप्रियसुता सती

॥४॥

मेनोवाच

मुनिवाक्यं न बुद्धं मे सम्यङ् नारीस्वभावतः ।

विवाहं कुरु कन्यायास्सुन्दरेण वरेण ह

॥५॥

सर्वथा हि भवेत्तत्रोद्वाहोऽपूर्वसुखावहः ।

वरश्च गिरिजायास्तु सुलक्षणकुलोद्भवः

॥६॥

प्राणप्रिया सुता मे हि सुखिता स्याद्यथा प्रिय ।

सद्वरं प्राप्य सुप्रीता तथा कुरु नमोऽस्तु ते

॥७॥

ब्रह्मोवाच

इत्युक्ताश्रुमुखी मेना पत्यंघ्र्योः पतिता तदा ।

तामुत्थाप्य गिरिः प्राह यथावत्प्रज्ञसत्तमः

॥८॥

हिमालय उवाच

शृणु त्वं मेनके देवि यथार्थं वच्मि तत्त्वतः ।

भ्रमं त्यज मुनेर्वाक्यं वितथं न कदाचन

॥९॥

यदि स्नेहः सुतायास्ते सुतां शिक्षय सादरम् ।

तपः कुर्याच्छंकरस्य सा भक्त्या स्थिरचेतसा

॥१०॥

चेत्प्रसन्नः शिवः काल्याः पाणिं गृह्णाति मेनके ।

सर्वं भूयाच्छुभं नश्येन्नारदोक्तममंगलम्

॥११॥

अमंगलानि सर्वाणि मंगलानि सदाशिवे ।

तस्मात्सुतां शिवप्राप्त्यै तपसे शिक्षय द्रुतम्

॥१२॥

ब्रह्मोवाच

इत्याकर्ण्य गिरेर्वाक्यं मेना प्रीततराऽभवत् ।

सुतोपकंठमगमदुपदेष्टुं तदोरुचिम्

॥१३॥

सुताङ्गं सुकुमारं हि दृष्ट्वातीवाथ मेनका ।

विव्यथे नेत्रयुग्मे चाश्रुपूर्णेऽभवतां द्रुतम्

॥१४॥

सुतां समुपदेष्टुं तन्न शशाक गिरिप्रिया ।

बुबुधे पार्वती तद्वै जननीङ्गितमाशु सा

॥१५॥

अथ सा कालिका देवी सर्वज्ञा परमेश्वरी ।

उवाच जननीं सद्यः समाश्वास्य पुनः पुनः

॥१६॥

पार्वत्युवाच

मातश्शृणु महाप्राज्ञेऽद्यतने ऽजमुहूर्तके ।

रात्रौ दृष्टो मया स्वप्नस्तं वदामि कृपां कुरु

॥१७॥

विप्रश्चैव तपस्वी मां सदयः प्रीतिपूर्वकम् ।

उपादिदेश सुतपः कर्तुं मातश्शिवस्य वै

॥१८॥

ब्रह्मोवाच

तच्छ्रुत्वा मेनका शीघ्रं पतिमाहूय तत्र च ।

तत्स्वप्नं कथयामास सुता दृष्टमशेषतः

॥१९॥

सुतास्वप्नमथाकर्ण्य मेनकातो गिरीश्वरः ।

उवाच परमप्रीतः प्रियां सम्बोधयन्गिरा

॥२०॥

गिरीश्वर उवाच

हे प्रियेऽपररात्रान्ते स्वप्नो दृष्टो मयापि हि ।

तं शृणु त्वं महाप्रीत्या वच्म्यहं तं समादरात्

॥२१॥

एकस्तपस्वी परमो नारदोक्तवरां गधृक् ।

पुरोपकंठं सुप्रीत्या तपः कर्तुं समागतः

॥२२॥

गृहीत्वा स्वसुतां तत्रागमं प्रीततरोप्यहम् ।

मया ज्ञातस्स वै शम्भुर्नारदो क्तवरः प्रभुः

॥२३॥

सेवार्थं तस्य तनयामुपदिश्य तपस्विनः ।

तं वै प्रार्थितवांस्तस्यां न तदांगीचकार सः

॥२४॥

अभूद्विवादस्तुमहान्सांख्यवेदान्तसंमतः ।

ततस्तदाज्ञया तत्र संस्थितासीत्सुता मम

॥२५॥

निधाय हृदि तं कामं सिषेवे भक्तितश्च सा ।

इति दृष्टं मया स्वप्नं प्रोक्तवांस्ते वरानने

॥२६॥

ततो मेने कियत्कालं परीक्ष्यं तत्फलं प्रिये ।

योग्यमस्तीदमेवेह बुध्यस्व त्वं मम ध्रुवम्

॥२७॥

ब्रह्मोवाच

इत्युक्त्वा गिरिराजश्च मेनका वै मुनीश्वर ।

सन्तस्थतुः परीक्षन्तीं तत्फलं शुद्धचेतसौ

॥२८॥

इत्थम्व्यतीतेऽल्पदिने परमेशः सतां गतिः ।

सतीविरहसुव्यग्रो भ्रमन्सर्वत्र सूतिकृत्

॥२९॥

तत्राजगाम सुप्रीत्या कियद्गुणयुतः प्रभुः ।

तपः कर्तुं सतीप्रेमविरहाकुलमानसः

॥३०॥

तपश्चकार स्वं तत्र पार्वती सेवने रता ।

सखीभ्यां सहिता नित्यं प्रसन्नार्थमभूत्तदा

॥३१॥

विद्धोऽऽपि मार्गणैश्शम्भुर्विकृतिं नाप स प्रभुः ।

प्रेषितेन सुरैस्स्वात्ममोहनार्थं स्मरेण वै

॥३२॥

दग्ध्वा स्मरं च तत्रैव स्ववह्निनयनेन सः ।

स्मृत्वा मम वचः क्रुद्धो मह्यमन्तर्दधे ततः

॥३३॥

ततः कालेन कियता विनाश्य गिरिजामदम् ।

प्रसादितस्सुतपसा प्रसन्नोऽभून्महेश्वरः

॥३४॥

लौकिकाचारमाश्रित्य रुद्रो विष्णुप्रसादितः ।

कालीं विवाहयामास ततोऽभूद्बहुमंगलम्

॥३५॥

इत्येतत्कथितं तात समासाच्चरितं विभोः ।

शंकरस्य परं दिव्यं किं भूयः श्रोतुमि च्छसि

॥३६॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे स्वप्नवर्ण्णनपू० संक्षेपशिवचरितवर्णनं नाम नवमोऽध्यायः ॥ ९ ॥