मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पार्वतीखण्डः, अध्याय ११

3
रुद्रसंहिता · पार्वतीखण्डः · 11

वर्द्धमाना गिरेः पुत्री सा शक्ति लोकपूजिता

ब्रह्मोवाच

वर्द्धमाना गिरेः पुत्री सा शक्ति लोकपूजिता ।

अष्टवर्षा यदा जाता हिमालयगृहे सती

॥१॥

तज्जन्म गिरिशो ज्ञात्वा सतीविरहकातरः ।

कृत्वा तामद्भुतामन्तर्मुमोदातीव नारद

॥२॥

तस्मिन्नेवान्तरे शम्भुर्लौकिकीं गतिमाश्रितः ।

समाधातुं मनस्सम्यक्तपः कर्त्तुं समैच्छत

॥३॥

कांश्चिद्गणवराञ्छान्तान्नंद्यादीनवगृह्य च ।

गङ्गावतारमगमद्धिमवत्प्रस्थमुत्तमम्

॥४॥

यत्र गंगा निपतिता पुरा ब्रह्मपुरात्स्रुता ।

सर्वाघौघविनाशाय पावनी परमा मुने

॥५॥

तपःप्रारम्भमकरोत्स्थित्वा तत्र वशी हरः ।

एकाग्रं चिंतयामास स्वमात्मानमतन्द्रितः

॥६॥

चेतो ज्ञानभवं नित्यं ज्योतीरूपं निरामयम् ।

जगन्मयं चिदानन्दं द्वैतहीनं निराश्रयम्

॥७॥

हरे ध्यानपरे तिस्मिन्प्रमथा ध्यानतत्पराः ।

अभवन्केचिदपरे नन्दिभृंग्यादयो गणाः

॥८॥

सेवां चक्रुस्तदा केचिद्गणाः शम्भोः परात्मनः ।

नैवाकूजंस्तु मौना हि द्वरपाः केचनाभवन्

॥९॥

एतस्मिन्नन्तरे तत्र जगाम हिमभूधरः ।

शङ्करस्यौषधिप्रस्थं श्रुत्वागमनमादरात् ।

प्रणनाम प्रभुं रुद्रं सगणो भूधरेश्वरः ।

समानर्च च सुप्रीतस्तुष्टाव स कृताञ्जलिः ।

हिमालय उवाच ।

देवदेव महादेव कपर्दिच्छंकर प्रभो ।

त्वयैव लोकनाथेन पालितं भुवनत्रयम्

॥१२॥

नमस्ते देवदेवेश योगिरूपधराय च ।

निर्गुणाय नमस्तुभ्यं सगुणाय विहारिणे

॥१३॥

कैलासवासिने शम्भो सर्वलोकाटनाय च ।

नमस्ते परमेशाय लीलाकाराय शूलिने

॥१४॥

परिपूर्णगुणाधानविकाररहितायते ।

नमोऽनीहाय वीहाय धीराय परमात्मने

॥१५॥

अबहिर्भोगकाराय जनवत्सलते नमः ।

त्रिगुणाधीश मायेश ब्रह्मणे परमात्मने

॥१६॥

विष्णुब्रह्मादिसेव्याय विष्णुब्रह्मस्वरूपिणे ।

विष्णुब्रह्मकदात्रे ते भक्तप्रिय नमोऽस्तु ते

॥१७॥

तपोरत तपस्थानसुतपः फलदायिने ।

तपःप्रियाय शान्ताय नमस्ते ब्रह्मरूपिणे

॥१८॥

व्यवहारकरायैव लोकाचारकराय ते ।

सगुणाय परेशाय नमोस्तु परमात्मने

॥१९॥

लीला तव महेशानावेद्या साधुसुखप्रदा ।

भक्ताधीनस्वरूपोऽसि भक्तवश्यो हि कर्मकृत्

॥२०॥

मम भाग्योदयादत्र त्वमागत इह प्रभो ।

सनाथ कृतवान्मां त्वं वर्णितो दानवत्सलः

॥२१॥

अद्य मे सफलं जन्म सफलं जीवनं मम ।

अद्य मे सफलं सर्वं यदत्र त्वं समागतः

॥२२॥

ज्ञात्वा मां दासमव्यग्रमाज्ञान्देहि महेश्वर ।

त्वत्सेवां च महाप्रीत्या कुर्यामहमनन्यधीः

॥२३॥

ब्रह्मोवाच

इत्याकर्ण्य वचस्तस्य गिरीशस्य महेश्वरः ।

किंचिदुन्मील्य नेत्रे च ददर्श सगणं गिरिम्

॥२४॥

सगणं तन्तथा दृष्ट्वा गिरिराजं वृषध्वजः ।

उवाच ध्यानयोगस्थः स्मयन्निव जगत्पतिः

॥२५॥

महेश्वर उवाच

तव पृष्ठे तपस्तप्तुं रहस्यमहमागतः ।

यथा न कोपि निकटं समायातु तथा कुरु

॥२६॥

त्वं महात्मा तपोधामा मुनीनां च सदाश्रयः ।

देवानां राक्षसानां च परेषां च महात्मनाम्

॥२७॥

सदा वासो द्विजादीनां गंगापूतश्च नित्यदा ।

परोपकारी सर्वेषां गिरीणामधिपः प्रभुः

॥२८॥

अहं तपश्चराम्यत्र गंगावतरणे स्थले ।

आश्रितस्तव सुप्रीतो गिरिराज यतात्मवान्

॥२९॥

निर्विघ्नं मे तपश्चात्र हेतुना येन शैलप ।

सर्वथा हि गिरिश्रेष्ठ सुयत्नं कुरु साम्प्रतम्

॥३०॥

ममेदमेव परमं सेवनं पर्वतोत्तम ।

स्वगृहं गच्छ सत्प्रीत्या तत्संपादय यत्नतः

॥३१॥

ब्रह्मोवाच

इत्युक्त्वा जगतां नाथस्तूष्णीमास स सूतिकृत् ।

गिरिराजस्तदा शम्भुं प्रणयादिदमब्रवीत्

॥३२॥

हिमालय उवाच

पूजितोऽसि जगन्नाथ मया त्वम्परमेश्वर ।

स्वागतेनाद्य विषये स्थितं त्वाम्प्रार्थयामि किम्

॥३३॥

महता तपसा त्वं हि देवैर्यत्नपराश्रितैः ।

न प्राप्यसे महेशान स त्वं स्वयमुपस्थितः

॥३४॥

मत्तोप्यन्यतमो नास्ति न मत्तोऽन्योऽस्ति पुण्यवान् ।

भवानिति च मत्पृष्ठे तपसे समुपस्थितः

॥३५॥

देवेन्द्रादधिकम्मन्ये स्वात्मानम्परमेश्वर ।

सगणेन त्वयागत्य कृतोऽनुग्रहभागहम्

॥३६॥

निर्विघ्नं कुरु देवेश स्वतन्त्रः परमन्तपः ।

करिष्येऽहन्तथा सेवां दासोऽहन्ते सदा प्रभो

॥३७॥

ब्रह्मोवाच

इत्युक्त्वा गिरिराजोऽसौ स्वं वेश्म द्रुतमागतः ।

वृत्तांत्तं तं समाचख्यौ प्रियायै च समादरात्

॥३८॥

नीयमानान्परीवारान्स्वगणानपि नारद ।

समाहूयाखिलाञ्छैलपतिः प्रोवाच तत्त्वतः

॥३९॥

हिमालय उवाच

अद्य प्रभृति नो यातु कोपि गंगावतारणम् ।

मच्छासनेन मत्प्रस्थं सत्यमेतद्ब्रवीम्यहम् ।

गमिष्यति जनः कश्चित्तत्र चेत्तं महाखलम् ।

दण्डयिष्ये विशेषेण सत्यमेतन्मयोदितम्

॥४१॥

इति तान्स नियम्याशु स्वगणान्निखिलान्मुने ।

सुयत्नं कृतवाञ्छैलस्तं शृणु त्वं वदामि ते

॥४२॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायान्तृतीये पार्वतीखण्डे शिवशैलसमागमवर्णनं नामैकादशोऽध्यायः ॥ ११ ॥