तारकासुरतपोराज्यवर्णनम्
ब्रह्मोवाच
अथ सा गर्भमाधत्त वरांगी तत्पुरादरात् ।
स ववर्द्धाभ्यंतरे हि बहुवर्षैः सुतेजसा
॥१॥ततः सा समये पूर्णे वरांगी सुषुवे सुतम् ।
महाकायं महावीर्यं प्रज्वलंतं दिशो दश
॥२॥तदैव च महोत्पाता बभूवुर्दुःखहेतवः ।
जायमाने सुते तस्मिन्वरांग्यात्सुखदुःखदे
॥३॥दिवि भुव्यंतरिक्षे च सर्वलोकभयंकराः ।
अनर्थसूचकास्तात त्रिविधास्तान्ब्रवीम्यहम्
॥४॥सोल्काश्चाशनयः पेतुर्महाशब्दा भयंकराः ।
उदयं चक्रुरुत्कृष्टाः केतवो दुःखदायकाः
॥५॥चचाल वसुधा साद्रिर्जज्वलुस्सकला दिशः ।
चुक्षुभुस्सरितस्सर्वाः सागराश्च विशेषतः
॥६॥हूत्करानीरयन्धीरान्खरस्पर्शो मरुद्ववौ ।
उन्मूलयन्महावृक्षान्वात्यानीकोरजोध्वजः
॥७॥सराह्वोस्सूर्य्यविध्वोस्तु मुहुः परिधयोऽभवन् ।
महाभयस्य विप्रेन्द्र सूचकास्सुखहारकः
॥८॥महीध्रविवरेभ्यश्च निर्घाता भयसूचकाः ।
रथनिर्ह्रादतुल्याश्च जज्ञिरेऽवसरे ततः
॥९॥सृगालोलूकटंकारैर्वमन्त्यो मुखतोऽनलम् ।
अंतर्ग्रामेषु विकटं प्रणेदुरशिवाश्शिवाः
॥१०॥यतस्ततो ग्रामसिंहा उन्नमय्य शिरोधराम् ।
संगीतवद्रोदनवद्व्यमुचन्विविधान्रवान्
॥११॥खार्काररभसा मत्ताः सुरैर्घ्नंतो रसांखराः ।
वरूथशस्तदा तात पर्यधावन्नितस्ततः
॥१२॥खगा उदपतन्नीडाद्रासभत्रस्तमानसः ।
क्रोशंतो व्यग्रचित्ताश्च स्थितमापुर्न कुत्रचित्
॥१३॥शकृन्मूत्रमकार्षुश्च गोष्ठेऽरण्ये भयाकुलः ।
बभ्रमुः स्थितिमापुर्नो पशवस्ताडिता इव
॥१४॥गावोऽत्रसन्नसृग्दोहा वाष्पनेत्रा भयाकुलाः ।
तोयदा अभवंस्तत्र भयदाः पूयवर्षिणः
॥१५॥व्यरुदन्प्रतिमास्तत्र देवानामुत्पतिष्णवः ।
विनाऽनिलं द्रुमाः पेतुर्ग्रहयुद्धं बभूव खे
॥१६॥इत्यादिका बहूत्पाता जज्ञिरे मुनिसत्तम ।
अज्ञानिनो जनास्तत्र मेनिरे विश्वसंप्लवम्
॥१७॥अथ प्रजापतिर्नामाकरोत्तस्यासुरस्य वै ।
तारकेति विचार्यैव कश्यपो हि महौजसः
॥१८॥महावीरस्य सहसा व्यज्यमानात्मपौरुषः ।
ववृधेत्यश्मसारेण कायेनाद्रिपतिर्यथा
॥१९॥अथो स तारको दैत्यो महाबलपराक्रमः ।
तपः कर्तुं जनन्याश्चाज्ञां ययाचे महामनाः
॥२०॥प्राप्ताज्ञः स महामायी मायिनामपि मोहकः ।
सर्वदेवजयं कर्तुं तपोर्थं मन आदधे
॥२१॥मधोर्वनमुपागम्य गुर्वाज्ञाप्रतिपालकः ।
विधिमुद्दिश्य विधिवत्तपस्तेपे सुदारुणम्
॥२२॥ऊर्द्ध्वबाहुश्चैकपादो रविं पश्यन्स चक्षुषा ।
शतवर्षं तपश्चक्रे दृढचित्तो दृढव्रतः
॥२३॥अंगुष्ठेन भुवं स्पृष्ट्वा शत वर्षं च तादृशः ।
तेपे तपो दृढात्मा स तारकोऽसुरराट्प्रभुः
॥२४॥शतवर्षं जलं प्राश्नञ्च्छतवर्षं च वायुभुक् ।
शतवर्ष जले तिष्ठञ्च्छतं च स्थंडिलेऽतपत्
॥२५॥शतवर्षं तथा चाग्नौ शतवर्षमधोमुखः ।
शतवर्षं तु हस्तस्य तलेन च भुवं स्थित
॥२६॥शतवर्षं तु वृक्षस्य शाखामालब्य वै मुने ।
पादाभ्यां शुचिधूमं हि पिबंश्चाधोमुखस्तथा
॥२७॥एवं कष्टतरं तेपे सुतपस्स तु दैत्यराट् ।
काममुद्दिश्य विधिवच्छृण्वतामपि दुस्सहम्
॥२८॥तत्रैवं तपतस्तस्य महत्तेजो विनिस्सृतम् ।
शिरसस्सर्वंसंसर्पि महोपद्रवकृन्मुने
॥२९॥तेनैव देवलोकास्ते दग्धप्राया बभूविरे ।
अभितो दुःखमापन्नास्सर्वे देवर्षयो मुने
॥३०॥इंद्रश्च भयमापेदे ऽधिकं देवेश्वरस्तदा ।
तपस्यत्यद्य कश्चिद्वै मत्पदं धर्षयिष्यति
॥३१॥अकांडे चैव ब्रह्माण्डं संहरिष्यत्ययं प्रभु ।
इति संशयमापन्ना निश्चयं नोपलेभिरे
॥३२॥ततस्सर्वे सुसंमन्त्र्य मिथस्ते निर्जरर्षयः ।
मल्लोकमगमन्भीता दीना मां समुपस्थिताः
॥३३॥मां प्रणम्य सुसंस्तूय सर्वे ते क्लिष्टचेतसः ।
कृतस्वंजलयो मह्यं वृत्तं सर्वं न्यवेदयन्
॥३४॥अहं सर्वं सुनिश्चित्य कारणं तस्य सद्धिया ।
वरं दातुं गतस्तत्र यत्र तप्यति सोऽसुरः
॥३५॥अवोचं वचनं तं वै वरं ब्रूहीत्यहं मुने ।
तपस्तप्तं त्वया तीव्रं नादेयं विद्यते तव
॥३६॥इत्येवं मद्वचः श्रुत्वा तारकस्स महासुरः ।
मां प्रणम्य सुसंस्तूय वरं वव्रेऽतिदारुणम्
॥३७॥तारक उवाच
त्वयि प्रसन्ने वरदे किमसाध्यं भवेन्मम ।
अतो याचे वरं त्वत्तः शृणु तन्मे पितामह
॥३८॥यदि प्रसन्नो देवेश यदि देयो वरो मम ।
देयं वरद्वयं मह्यं कृपां कृत्वा ममोपरि
॥३९॥त्वया च निर्मिते लोके सकलेऽस्मिन्महाप्रभो ।
मत्तुल्यो बलवान्नूनं न भवेत्कोऽपि वै पुमान्
॥४०॥शिववीर्यसमुत्पन्नः पुत्रस्सेनापतिर्यदा ।
भूत्वा शस्त्रं क्षिपेन्मह्यं तदा मे मरणं भवेत्
॥४१॥इत्युक्तोऽथ तदा तेन दैत्येनाहं मुनीश्वर ।
वरं च तादृशं दत्त्वा स्वलोकमगमं द्रुतम्
॥४२॥दैत्योऽपि स वरं लब्ध्वा मनसेप्सितमुत्तमम् ।
सुप्रसन्नोतरो भूत्वा शोणिताख्यपुरं गतः
॥४३॥अभिषिक्तस्तदा राज्ये त्रैलोक्यस्यासुरैस्सह ।
शुक्रेण दैत्यगुरुणाज्ञया मे स महासुरः
॥४४॥ततस्तु स महादैत्योऽभवस्त्रैलोक्यनायकः ।
स्वाज्ञां प्रवर्तयामास पीडयन्सचराचरम्
॥४५॥राज्यं चकार विधिवस्त्रिलोकस्य स तारकः ।
प्रजाश्च पालयामास पीडयन्निर्जरादिकान्
॥४६॥ततस्स तारको दैत्यस्तेषां रत्नान्युपाददे ।
इंद्रादिलोकपालानां स्वतो दत्तानि तद्भयात्
॥४७॥इंद्रेणैरावतस्तस्य भयात्तस्मै समर्पितः ।
कुबेरेण तदा दत्ता निधयो नवसंख्यका
॥४८॥वरुणेन हयाः शुभ्रा ऋषिभिः कामकृत्तथा ।
सूर्येणोच्चैश्श्रवा दिव्यो भयात्तस्मै समर्पितः
॥४९॥यत्र यत्र शुभं वस्तु दृष्टं तेनासुरेण हि ।
तत्तद्गृहीतं तरसा निस्सारस्त्रिभवोऽभवत्
॥५०॥समुद्राश्च तथा रत्नान्यदुस्तस्मै भयान्मुने ।
अकृष्टपच्यासीत्पृथ्वी प्रजाः कामदुघाः खिलाः
॥५१॥सूर्यश्च तपते तद्वत्तद्दुःखं न यथा भवेत् ।
चंद्रस्तु प्रभया दृश्यो वायुस्सर्वानुकूलवान्
॥५२॥देवानां चैव यद्द्रव्यं पितॄणां च परस्य च ।
तत्सर्वं समुपादत्तमसुरेण दुरात्मना
॥५३॥वशीकृत्य स लोकांस्त्रीन्स्वयमिंद्रो बभूव ह ।
अद्वितीयः प्रभुश्चासीद्राज्यं चक्रेऽद्भुतं वशी
॥५४॥निस्सार्य सकलान्देवान्दैत्यानस्थापयत्ततः ।
स्वयं नियोजयामास देवयोनिस्स्वकर्मणि
॥५५॥अथ तद्बाधिता देवास्सर्वे शक्रपुरोगमाः ।
मुने मां शरणं जग्मुरनाथा अतिविह्वलाः
॥५६॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे तारकासुरतपोराज्यवर्णनंनाम पंचदशोऽध्यायः ॥ १५ ॥