अनरण्यचरितवर्णनम्
वसिष्ठ उवाच
मनोर्वंशोद्भवो राजा सोऽनरण्यो नृपेश्वर ।
इन्द्रसावर्णिसंज्ञस्य चतुर्दशमितस्य हि
॥१॥अनरण्यो नृपश्रेष्ठस्स प्तद्वीपमहीपतिः ।
शम्भुभक्तो विशेषेण मङ्गलारण्यजो बली
॥२॥भृगुं पुरोधसं कृत्वा शतं यज्ञांश्चकार सः ।
न स्वीचकार शक्रत्वं दीयमानं सुरैरपि
॥३॥बभूवश्शतपुत्राश्च राज्ञस्तस्य हिमालय ।
कन्यैका सुन्दरी नाम्ना पद्मा पद्मालया समा
॥४॥यस्स्नेहः पुत्रशतके कन्यायाञ्च ततोऽधिकः ।
नृपस्य तस्य तस्यां हि बभूव नगसत्तम
॥५॥प्राणाधिकाः प्रियतमा महिष्यस्सर्वयोषितः ।
नृपस्य पत्न्यः पञ्चासन्सर्वास्सौभाग्यसंयुता
॥६॥सा कन्या यौवनस्था च बभूव स्वपितुर्गृहे ।
पत्रं प्रस्थापयामास सुवरान यनायसः
॥७॥एकदा पिप्पलादर्षिर्गर्न्तुं स्वाश्रममुत्सुकः ।
तपःस्थाने निर्जने च गन्धर्वं स ददर्श ह
॥८॥स्त्रीयुतं मग्नचित्तं च शृङ्गारे रससागरे ।
विहरन्तं महाप्रेम्णा कामशास्त्रविशारदम्
॥९॥दृष्ट्वा तं मुनिशार्दूलः सकामः संबभूव सः ।
तपत्स्वदत्तचित्तश्चाचिंतयद्दारसंग्रहम्
॥१०॥एवंवृत्तस्य तस्यैव पिप्पलादस्य सन्मुनेः ।
कियत्कालो गतस्तत्र कामोन्मथितचेतसः
॥११॥एकदा पुष्पभद्रायां स्नातुं गच्छन्मुनीश्वरः ।
ददर्श पद्मां युवतीं पद्मामिव मनोरमाम्
॥१२॥केयं कन्येति पप्रच्छ समीपस्थाञ्जनान्मुनिः ।
जना निवेदयांचक्रुर्नत्वा शापनियन्त्रिताः
॥१३॥जना ऊचुः
अनरण्यसुतेयं वै पद्मा नाम रमापरा ।
वरारोहा प्रार्थ्यमाना नृपश्रेष्ठैर्गुणालया
॥१४॥ब्रह्मोवाच
तच्छ्रुत्वा स मुनिर्वाक्यं जनानां तथ्यवादिनाम् ।
चुक्षोभातीव मनसि तल्लिप्सुर भवच्च सः
॥१५॥मुनिः स्नात्वाभीष्टदेवं सम्पूज्य विधिवच्छिवम् ।
जगाम कामी भिक्षार्थमनरण्यसभां गिरे
॥१६॥राजा शीघ्रं मुनिं दृष्ट्वा प्रणनाम भयाकुलः ।
मधुपर्कादिकं दत्त्वा पूजयामास भक्तितः
॥१७॥कामात्सर्वं गृहीत्वा च ययाचे कन्यकां मुनिः ।
मौनी बभूव नृपतिः किञ्चिनिर्वक्तुमक्षमः
॥१८॥मुनिर्ययाचे कन्यां स तां देहीति नृपेश्वर ।
अन्यथा भस्मसात्सर्वं करिष्यामि क्षणेन च
॥१९॥सर्वे बभूववुराच्छन्ना गणास्तत्तेजसा मुने ।
रुरोद राजा सगणो दृष्ट्वा विप्रं जरातुरम्
॥२०॥महिष्यो रुरुदुस्सर्वा इतिकर्त्तव्यताक्षमाः ।
मूर्च्छामाप महाराज्ञी कन्यामाता शुचाकुला
॥२१॥बभूवुस्तनयास्सर्वे शोकाकुलि तमानसाः ।
सर्वं शोकाकुलं जातं नृपसम्बन्धि शैलप
॥२२॥एतस्मिन्नन्तरे प्राज्ञो द्विजो गुरुरनुत्तमः ।
पुरोहितश्च मतिमानागतो नृपसन्निधिम्
॥२३॥राजा प्रणम्य सम्पूज्य रुरोद च तयोः पुरः ।
सर्वं निवेदयांचक्रे पप्रच्छोचितमाशु तत्
॥२४॥अथ राज्ञो गुरुर्विप्रः पण्डितश्च पुरोहितः ।
अपि द्वौ शास्त्रनीतिज्ञौ बोधयामासतुर्नृपम्
॥२५॥शोकाकुलाश्च महिषीर्नृपबालाँश्च कन्यकाम् ।
उत्तमा नीतिमादृत्य सर्वेषां हितकारिणीम्
॥२६॥गुरुपुरोधसावूचतुः
शृणु राजन्महाप्राज्ञ वचो नौ सद्धितावहम् ।
मा शुचः सपरीवारश्शास्त्रे कुरु मतिं सतीम्
॥२७॥अद्य वाब्ददिनान्ते वा दातव्या कन्यका नृप ।
पात्राय विप्रायान्यस्मै कस्मै चिद्वा विशेषतः
॥२८॥सत्पात्रं ब्राह्मणादन्यन्न पश्यावो जगत्त्रये ।
सुतां दत्त्वा च मुनये रक्ष स्वां सर्वसम्पदम्
॥२९॥राजन्नेकनिमित्तेन सर्वसंपद्विनश्यति ।
सर्वं रक्षति तं त्यक्त्वा विना तं शरणागतम्
॥३०॥वसिष्ठ उवाच
राजा प्राज्ञवचः श्रुत्वा विलप्य च मुहुर्मुहुः ।
कन्यां सालंकृतां कृत्वा मुनीन्द्राय ददौ किल
॥३१॥कान्तां गृहीत्वा स मुनिर्विवाह्य विधिवद्गिरे ।
पद्मां पद्मोपमां तां वै मुदितस्स्वालयं ययौ
॥३२॥राजा सर्वान्परित्यज्य दत्त्वा वृद्धाय चात्मजाम् ।
ग्लानिं चित्ते समाधाय जगाम तपसे वनम्
॥३३॥तद्भार्य्यापि वनं याते प्राणनाथे तदा गिरे ।
भर्तुश्च दुहितुश्शोकात्प्राणांस्तत्याज सुन्दरी
॥३४॥पूज्याः पुत्राश्च भृत्याश्च मूर्च्छामापुर्नृपं विना ।
शुशुचुः श्वाससंयुक्तं ज्ञात्वा सर्वेपरे जनाः
॥३५॥अनरण्यो वनं गत्वा तपस्तप्त्वाति शंकरम् ।
समाराध्य ययौ भक्त्या शिवलोकमनामयम्
॥३६॥नृपस्य कीर्तिमान्नाम्ना ज्येष्ठपुत्रोथ धार्मिकः ।
पुत्रवत्पालयामास प्रजा राज्यं चकार ह
॥३७॥इति ते कथितं शैलानरण्यचरितं शुभम् ।
कन्यां दत्त्वा यथारक्षद्वंशं चाप्यखिलं धनम्
॥३८॥शैलराज त्वमप्येवं सुतां दत्त्वा शिवाय च ।
रक्ष सर्वकुलं सर्वान्वशान्कुरु सुरानपि
॥३९॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥