मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पार्वतीखण्डः, अध्याय ३७

3
रुद्रसंहिता · पार्वतीखण्डः · 37

लग्नपत्रसंप्रेषणसामग्रीसंग्रहशैलागमनवर्णनम्

नारद उवाच

तात प्राज्ञ वदेदानीं सप्तर्षिषु गतेषु च ।

किमकार्षीद्धिमगिरिस्तन्मे कृत्वा कृपां प्रभो

॥१॥

ब्रह्मोवाच

गतेषु तेषु मुनिषु सप्तस्वपि मुनीश्वर ।

सारुन्धतीषु हिमवान् यदकार्षीद्ब्रवीमि ते

॥२॥

तत आमन्त्र्य स्वभ्रातॄन् मेर्वादीन् ससुतप्रियः ।

महामनास्स मुमुदे हिमवान् पर्वतेश्वरः

॥३॥

तदाज्ञप्तस्ततः प्रीत्या हिमवान् लग्न पत्रिकाम् ।

लेखयामास सुप्रीत्या गर्गेण स्वपुरोधसा

॥४॥

अथ प्रस्थापयामास तां शिवाय स पत्रिकाम् ।

नानाविधास्तु सामग्र्यः स्वजनैर्मुदितात्मभिः

॥५॥

ते जनास्तत्र गत्वा च कैलासे शिवसन्निधिम् ।

ददुश्शिवाय तत्पत्रं तिलकं सम्विधाय च

॥६॥

सन्मानिता विशेषेण प्रभुणा च यथोचितम् ।

सर्वे ते प्रीतिमनस आजग्मुश्शैलसन्निधिम्

॥७॥

सन्मानितान्विशेषेण महेशेनागताञ्जनान् ।

दृष्ट्वा सुहर्षिताञ्च्छैलो मुमोदातीव चेतसि

॥८॥

ततो निमन्त्रणं चक्रे स्वबन्धूनां प्रमोदितः ।

नानादेशस्थितानाञ्च निखिलानां सुखास्पदम्

॥९॥

ततस्स कारयामास स्वर्णसंग्रहमादरात् ।

नानाविधाश्च सामग्रीर्विवाहकरणोचिताः

॥१०॥

तण्डुलानां बहूञ्छैलान् पृथुकानां तथैव च ।

गुडानां शर्कराणाञ्च लवणानां तथैव च

॥११॥

क्षीराणां च घृतानाञ्च दध्नां वापीश्चकार सः ।

यवादिधान्यपिष्टानां लड्डुकानां तथैव च

॥१२॥

शष्कुलीनां स्वस्तिकानां शर्कराणां तथैव च ।

अमृतेक्षुरसानां च तत्र वापीश्चकार सः

॥१३॥

बह्वीर्हैयंगवानाञ्च ह्यासवानां तथैव च ।

नाना पक्वान्नसंघांश्च महास्वादुरसाँस्तथा

॥१४॥

नाना व्यञ्जनवस्तूनि गणदेवहितानि च ।

अमूल्यनानावस्त्राणि वह्निशौचानि यानि च

॥१५॥

मणिरत्नप्रकाराणि सुवर्णरजतानि च ।

द्रव्याण्येतानि चान्यानि संगृह्य विधिपूर्वकम्

॥१६॥

मंगलं कर्तुमारेभे गिरिर्मंगलकृद्दिने ।

संस्कारं कारयामासुः पार्वत्याः पर्वतस्त्रियः

॥१७॥

ता मंगलं मुदा चक्रुर्भूषिता भूषणैः स्वयम् ।

पुरद्विजस्त्रियो दृष्ट्वा लोकाचारं प्रचक्रिरे

॥१८॥

सोत्सवं विविधं तत्र सुमंगलपुरस्सरम् ।

हिमालयोऽपि हृष्टात्मा कृत्वाचारं सुमंगलम्

॥१९॥

सर्वभावेन सुप्रीतो बन्धुवर्गागमोत्सुकः ।

एतस्मिन्नन्तरे तस्य बान्धवाश्च निमन्त्रिताः

॥२०॥

आजग्मुस्सस्त्रियो हृष्टास्ससुतास्सपरिच्छदाः ।

तदैव शृणु देवर्षे गिर्य्यागमनमादृतः

॥२१॥

वर्णयामि समासेन शिवप्रीतिविवृद्धये ।

देवालय गिरिर्यो हि दिव्यरूपधरो महान्

॥२२॥

नानारत्नपरिभ्राजत्समाजस्सपरिच्छदः ।

नानामणिमहारत्नसारमादाय यत्नतः

॥२३॥

सुवेषालंकृतः श्रीमान् जगाम स हिमालयम् ।

मन्दरस्सर्वशोभाढ्यस्सनारीतनयो गिरिः

॥२४॥

सूपायनानि संगृह्य जगाम विविधानि च ।

अस्ताचलोपि दिव्यात्मा सोपायन उदारधीः

॥२५॥

बहुशोभासमायुक्त आजगाम मुदान्वितः ।

उदयाचल आदाय सद्रत्नानि मणीनपि

॥२६॥

अत्युत्कृष्टपरीवार आजगाम महासुखी ।

मलयो गिरिराजो हि सपरीवार आदृतः

॥२७॥

सुदिव्यरचनायुक्त आययौ बहुसद्बलः ।

सद्यो दर्दुरनामा च मुदितस्सकलत्रकः

॥२८॥

बहुशोभान्वितस्तातः ययौ हिमगिरेर्गृहम् ।

निषदोपि प्रहृष्टात्मा सपरिच्छद आययौ

॥२९॥

ससुतस्त्रीगणः प्रीत्या ययौ हिमगिरेर्गृहम् ।

आजगाम महाभाग्यो भूधरो गन्धमादनः

॥३०॥

करवीरस्तथैवापि महाविभव संयुतः ।

महेन्द्रः पर्वतश्रेष्ठ आजगाम हिमालयम् ।

सगणस्ससुतस्त्रीको बहुशोभासमन्वितः ।

पारियात्रो हि हृष्टात्मा मणि रत्नाकरस्सयुत्

॥३२॥

सगणस्सपरीवार आययौ हिमभूधरम् ।

क्रौञ्चः पर्वतराजो हि महाबलपरिच्छदः ।

आजगाम गिरिश्रेष्ठस्स मुपायन आदृतः

॥३३॥

पुरुषोत्तमशैलोपि सपरिच्छद आदृतः ।

महोपायनमादायाजगाम हिमभूधरम्

॥३४॥

नीलः सलीलस्स सुतस्सस्त्रीको द्रव्यसंयुतः ।

आजगाम हिमागस्य गृहमानन्दसंयुतः

॥३५॥

त्रिकूटश्चित्रकूटोपि वेंकटः श्रीगिरिस्तथा ।

गोकामुखी नारदश्च हिमगेहमुपागमत्

॥३६॥

विन्ध्यश्च पर्वतश्रेष्ठो नानासम्पत्समन्वितः ।

आजगाम प्रहृष्टात्मा सदारतनयश्शुभः

॥३७॥

कालंजरो महाशैलो बहुहर्षसमन्वितः ।

बहुभस्सगणः प्रीत्याजगामहिमभूधरम्

॥३८॥

कैलासस्तु महाशैलो महाहर्षसमन्वितः ।

आजगाम कृपां कृत्वा सर्वोपरि लसत्प्रभुः

॥३९॥

अन्येपि भूभृतो ये हि द्वीपेष्वन्येष्वपि द्विज ।

इहापि येऽचलास्सर्वे आययुस्ते हिमालयम्

॥४०॥

निमन्त्रिता नगास्तत्र तेन पूर्वं मुदा मुने ।

आययुर्निखिलाः प्रीत्या विवाहश्शिवयोरिति

॥४१॥

तदा सर्वे समायाताश्शोणभद्रादयः खलु ।

बहुशोभा महाप्रीत्या विवाहश्शिवयोरिति

॥४२॥

नद्यस्सर्वास्समायाता नानालंकारसंयुताः ।

दिव्य रूपधराः प्रीत्या विवाहश्शिवयोरिति

॥४३॥

गोदावरी च यमुना ब्रह्मस्त्रीर्वेणिका तथा ।

आययौ हिमशैलम्वै विवाहश्शिवयोरिति

॥४४॥

गंगा तु सुमहाप्रीत्या नानालंकारसंयुता ।

दिव्यरूपा ययौ प्रीत्या विवाहश्शिवयोरिति

॥४५॥

नर्मदा तु महामोदा रुद्रकन्या सरिद्वरा ।

महाप्रीत्या जगामाशु विवाहश्शिवयोरिति

॥४६॥

आगतैस्तैस्ततः सर्वैस्सर्वतो हिमभूधरम् ।

संकुलासीत्पुरी दिव्या सर्वशोभासमन्विता

॥४७॥

महोत्सवा लसत्केतुध्वजातोरणकाधिका ।

वितानविनिवृत्तार्का तथा नानालसत्प्रभा

॥४८॥

हिमालयोपि सुप्रीत्यादरेण विविधेन च ।

तेषां चकार सन्मानं तासां चैव यथायथम्

॥४९॥

सर्वान्निवासयामास सुस्थानेषु पृथक् पृथक् ।

सामग्रीभिरनेकाभिस्तोषयामास कृत्स्नशः

॥५०॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पावतीखण्डे लग्नपत्रसंप्रेषणसामग्रीसंग्रहशैलागमनवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥