गतेषु तेषु मुनिषु स्वं लोकं शंकरः स्वयम्
ब्रह्मोवाच
गतेषु तेषु मुनिषु स्वं लोकं शंकरः स्वयम् ।
परीक्षितुं तपो देव्या ऐच्छत्सूतिकरः प्रभुः
॥१॥परीक्षा छद्मना शंभुर्द्रष्टुं तां तुष्टमानसः ।
जाटिलं रूपमास्थाय स ययौ पार्वतीवनम्
॥२॥अतीव स्थविरो विप्रदेहधारी स्वतेजसा ।
प्रज्वलन्मनसा हृष्टो दंडी छत्री बभूव सः
॥३॥तत्रापश्यत्स्थितां देवीं सखीभिः परिवारिताम् ।
वेदिकोपरि शुद्धां तां शिवामिव विधोः कलाम्
॥४॥शंभु निरीक्ष्य तां देवीं ब्रह्मचारिस्वरूपवान् ।
उपकंठं ययौ प्रीत्या तदाऽसौ भक्तवत्सलः
॥५॥आगतं तं तदा दृष्ट्वा ब्राह्मणं तेजसाद्भुतम् ।
अपूजयच्छिवा देवी सर्वपूजोपहारकैः
॥६॥सुसत्कृतं संविधाभिः पूजितं परया मुदा ।
पार्वती कुशलं प्रीत्या पप्रच्छ द्विजमादरात
॥७॥पार्वत्युवाच
ब्रह्मचारिस्वरूपेण कस्त्वं हि कुत आगतः ।
इदं वनं भासयसे वद वेदविदां वर
॥८॥विप्र उवाच
अहमिच्छाभिगामी च वृद्धो विप्रतनुस्सुधीः ।
तपस्वी सुखदोऽन्येषामुपकारी न संशयः
॥९॥का त्वं कस्यासि तनया किमर्थ विजने वने ।
तपश्चरसि दुर्धर्षं मुनिभिः प्रपदैरपि
॥१०॥न बाला न च वृद्धासि तरुणी भासि शोभना ।
कथं पतिं विना तीक्ष्णं तपश्चरसि वै वने
॥११॥कि त्वं तपस्विनी भद्रे कस्यचित्सहचारिणी ।
तपस्वी स न पुष्णाति देवि त्वां च गतोऽन्यतः
॥१२॥वद कस्य कुले जाता कः पिता तव का विधा ।
महासौभाग्यरूपा त्वं वृथा तव तपोरतिः
॥१३॥किं त्वं वेदप्रसूर्लक्ष्मीः किं सुरूपा सरस्वती ।
एतासु मध्ये का वा त्वं नाहं तर्कितुमुत्सहे
॥१४॥पार्वत्युवाच
नाहं वेदप्रसूर्विप्र न लक्ष्मीश्च सरस्वती ।
अहं हिमाचलसुता सांप्रतं नाम पार्वती
॥१५॥पुरा दक्षसुता जाता सती नामान्यजन्मनि ।
योगेन त्यक्तदेहाऽहं यत्पित्रा निन्दितः पतिः
॥१६॥अत्र जन्मनि संप्राप्तश्शिवोऽपि विधिवैभवात् ।
मां त्यक्त्वा भस्मसात्कृत्य मन्मथं स जगाम ह
॥१७॥प्रयाते शंकरे तापोद्विजिताहं पितुर्गृहात् ।
आगता तपसे विप्र सुदृढा स्वर्णदीतटे
॥१८॥कृत्वा तपः कठोरं च सुचिरं प्राणवल्लभम् ।
न प्राप्याग्नौ विविक्षन्ती त्वं दृष्ट्वा संस्थिता क्षणम्
॥१९॥गच्छ त्वं प्रविशाम्यग्नौ शिवेनांगीकृता न हि ।
यत्र यत्र जनुर्लप्स्ये वरिष्यामि शिवं वरम्
॥२०॥ब्रह्मोवाच
इत्युक्त्वा पार्वती वह्नौ तत्पुरः प्रविवेश सा ।
निषिध्यमाना पुरतो ब्राह्मणेन पुनः पुनः
॥२१॥वह्निप्रवेशं कुर्वत्याः पार्वत्यास्तत्प्रभावतः ।
बभूव तत्क्षणं सद्यो वह्नि श्चंदनपंकवत्
॥२२॥क्षणं तदंतरे स्थित्वा ह्युत्पतंती दिवं द्विजः ।
पुनः पप्रच्छ सहसा विहसन्सुतनुं शिवः
॥२३॥द्विज उवाच
अहो तपस्ते किं भद्रे न बुद्धं किंचिदेव हि ।
न दग्धो वह्निना देहो न च प्राप्तं मनीषितम्
॥२४॥अतस्सत्यं निकामं वै वद देवि मनोरथम् ।
ममाग्रे विप्रवर्यस्य सर्वानंदप्रदस्य हि
॥२५॥यथाविधि त्वया देवि कीर्त्यतां सर्वथात्मना ।
तस्मान्मैत्री च संजाता कार्य्यं गोप्यं त्वया न हि
॥२६॥किमिच्छसि वरं देवि प्रष्टुमिच्छाम्यतः परम् ।
त्वय्येव तदसौ देवि फलं सर्वं प्रदृश्यते
॥२७॥परार्थे च तपश्चेद्वै तिष्ठेत्तु तप एव तत् ।
रत्नं हस्ते समादाय हित्वा काचस्तु संचितः
॥२८॥ईदृशं तव सौंदर्यं कथं व्यर्थीकृतं त्वया ।
हित्वा वस्त्राण्यनेकानि चर्मादि च धृतं त्वया
॥२९॥तत्सर्वं कारणं ब्रूहि तपसस्त्वस्य सत्यतः ।
तच्छ्रुत्वा विप्रवर्योऽहं यथा हर्षमावाप्नुयाम्
॥३०॥ब्रह्मोवाच
इति पृष्टा तदा तेन सखीं प्रैरयताम्बिका ।
तन्मुखेनैव तत्सर्वं कथयामास सुव्रता
॥३१॥तया च प्रेरिता तत्र पार्वत्या विजयाभिधा ।
प्राणप्रिया सुव्रतज्ञा सखी जटिलमब्रवीत्
॥३२॥सख्युवाच
शृणु साधो प्रवक्ष्यामि पार्वतीचरितं परम् ।
हेतुं च तपसस्सर्वं यदि त्वं श्रोतुमिच्छसि
॥३३॥सखा मे गिरिराजस्य सुतेयं हिमभूभृतः ।
ख्याता वै पार्वती नाम्ना सा कालीति च मेनका
॥३४॥ऊढेयं न च केनापि न वाञ्छति शिवात्परम् ।
त्रीणि वर्षसहस्राणि तपश्चरणसाधिनी
॥३५॥तदर्थं मेऽनया सख्या प्रारब्धं तप ईदृशम् ।
तदत्र कारणं वक्ष्ये शृणु साधो द्विजोत्तम
॥३६॥हित्वेन्द्रप्रमुखान्देवान् हरिं ब्रह्माणमेव च ।
पतिं पिनाकपाणिं वै प्राप्नुमिच्छति पार्वती
॥३७॥इयं सखी मदीया वै वृक्षानारोप यत्पुरा ।
तेषु सर्वेषु संजातं फलपुष्पादिकं द्विज
॥३८॥रूपसार्थाय जनककुलालंकरणाय च ।
समुद्दिश्य महेशानं कामस्यानुग्रहाय च
॥३९॥मत्सखी नारदोपदेशात्तपस्तपति दारुणम् ।
मनोरथः कुतस्तस्या न फलिष्यति तापस
॥४०॥यत्ते पृष्टं द्विजश्रेष्ठ मत्सख्या मनसीप्सितम् ।
मया ख्यातं च तत्प्रीत्या किमन्यच्छ्रोतुमिच्छसि
॥४१॥ब्रह्मोवाच
इत्येवं वचनं श्रुत्वा विजयाया यथार्थतः ।
मुने स जटिलो रुद्रो विहसन्वाक्यमब्रवीत्
॥४२॥जटिल उवाच
सख्येदं कथितं तत्र परिहासोनुमीयते ।
यथार्थं चेत्तदा देवी स्वमुखेनाभिभाषताम्
॥४३॥ब्रह्मोवाच
इत्युक्ते च तदा तेन जटिलेन द्विजन्मना ।
उवाच पार्वती देवी स्वमुखेनैव तं द्विजम्
॥४४॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाजटिलसंवादो नाम षड्विंशोध्यायः ॥ २६ ॥