मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पार्वतीखण्डः, अध्याय ३५

3
रुद्रसंहिता · पार्वतीखण्डः · 35

पद्मापिप्पलादचरितवर्णनम्

नारद उवाच

अनरण्यस्य चरितं सुतादानसमन्वितम् ।

श्रुत्वा गिरिवरस्तात किं चकार च तद्वद

॥१॥

ब्रह्मोवाच

अनरण्यस्य चरितं कन्यादानसमन्वितम् ।

श्रुत्वा पप्रच्छ शैलेशो वसिष्ठं साञ्जलिः पुनः

॥२॥

शैलेश उवाच

वसिष्ठ मुनिशार्दूल ब्रह्मपुत्र कृपानिधे ।

अनरण्यचरित्रन्ते कथितं परमाद्भुतम्

॥३॥

अनरण्यसुता यस्मात् पिप्पलादं मुनिं पतिम् ।

सम्प्राप्य किमकार्षीत्सा तच्चरित्रं मुदावहम्

॥४॥

वसि० ।

पिप्पलादो मुनिवरो वयसा जर्जरोधिकः ।

गत्वा निजाश्रमं नार्याऽनरण्यसुतया तया

॥५॥

उवास तत्र सुप्रीत्या तपस्वी नातिलम्पटः ।

तत्रारण्ये गिरिवर स नित्यं निजधर्मकृत्

॥६॥

अथानरण्यकन्या सा सिषेवे भक्तितो मुनिम् ।

कर्मणा मनसा वाचा लक्ष्मीनारायणं यथा

॥७॥

एकदा स्वर्णदीं स्नातुं गच्छन्तीं सुस्मितां च ताम् ।

ददर्श पथि धर्मश्च मायया वृषरूपधृक्

॥८॥

चारुरत्नरथस्थश्च नानालं कारभूषितः ।

नवीनयौवनश्श्रीमान्कामदेवसभप्रभः

॥९॥

दृष्ट्वा तां सुन्दरीं पद्मामुवाच स वृषो विभुः ।

विज्ञातुं भावमन्तःस्थं तस्याश्च मुनियोषितः

॥१०॥

धर्म उवाच

अयि सुन्दरि लक्ष्मीर्वै राजयोग्ये मनोहरे ।

अतीव यौवनस्थे च कामिनि स्थिरयौवने

॥११॥

जरातुरस्य वृद्धस्य पिप्पलादस्य वै मुनेः ।

सत्यं वदामि तन्वंगि समीपे नैव राजसे

॥१२॥

विप्रं तपस्सु निरतं निर्घृणं मरणोन्मुखम् ।

त्वक्त्वा मां पश्य राजेन्द्रं रतिशूरं स्मरातुरम्

॥१३॥

प्राप्नोति सुन्दरी पुण्यात्सौन्दर्य्यं पूर्वजन्मनः ।

सफलं तद्भवेत्सर्वं रसिकालिंगनेन च

॥१४॥

सहस्रसुन्दरीकान्तं कामशास्त्रविशारदम् ।

किंकरं कुरु मां कान्ते सम्परित्यज्य तं पतिम्

॥१५॥

निर्जने कानने रम्ये शैले शैले नदीतटे ।

विहरस्व मया सार्द्धं जन्मेदं सफलं कुरु

॥१६॥

वसिष्ठ उवाच

इत्येवमुक्तवन्तं सा स्वरथादवरुह्य च ।

ग्रहीतुमुत्सुकं हस्ते तमुवाच पतिव्रता

॥१७॥

पद्मो वाच

गच्छ दूरं गच्छ दूरं पापिष्ठस्त्वं नराधिप ।

मां चेत्पश्यसि कामेन सद्यो नष्टो भविष्यसि

॥१८॥

पिप्पलादं मुनि श्रेष्ठं तपसा पूतविग्रहम् ।

त्यक्त्वा कथं भजेयं त्वां स्त्रीजितं रतिलम्पटम्

॥१९॥

स्त्रीजितस्पर्शमात्रेण सर्वं पुण्यं प्रणश्यति ।

स्त्रीजितः परपापी च तद्दर्शनमघावहम्

॥२०॥

सत्क्रियो ह्यशुचिर्नित्यं स पुमान् यः स्त्रिया जितः ।

निन्दन्ति पितरो देवा मान वास्सकलाश्च तम्

॥२१॥

तस्य किं ज्ञान सुतपो जपहोमप्रपूजनैः ।

विद्यया दानतः किम्वा स्त्रीभिर्यस्य मनो हृतम्

॥२२॥

मातरं मां स्त्रियो भावं कृत्वा येन ब्रवीषि ह ।

भविष्यति क्षयस्तेन कालेन मम शापतः

॥२३॥

वसिष्ठ उवाच

श्रुत्वा धर्मस्सतीशापं नृप मूर्तिं विहाय च ।

धृत्वा स्वमूर्तिं देवेशः कम्पमान उवाच सः

॥२४॥

धर्म उवाच

मातर्जानीहि मां धर्मं ज्ञानिनाञ्च गुरो र्गुरुम् ।

परस्त्रीमातृबुद्धिश्च कुव्वर्न्तं सततं सति

॥२५॥

अहं तवान्तरं ज्ञातुमागतस्तव सन्निधिम् ।

तवाहञ्च मनो जाने तथापि विधिनोदितः

॥२६॥

कृतं मे दमनं साध्वि न विरुद्धं यथोचितम् ।

शास्तिः समुत्पथस्थानामीश्वरेण विनिर्मिता

॥२७॥

स्वयं प्रदाता सर्वेभ्यः सुखदुःखवरान्क्षमः ।

सम्पदं विपदं यो हि नमस्तस्मै शिवाय हि

॥२८॥

शत्रुं मित्रं सम्विधातुं प्रीतिञ्च कलहं क्षमः ।

स्रष्टुं नष्टुं च यस्सृष्टिं नमस्तस्मै शिवाय हि

॥२९॥

येन शुक्लीकृतं क्षीरं जले शैत्यं कृतम्पुरा ।

दाहीकृतो हुता शश्च नमस्तस्मै शिवाय हि

॥३०॥

प्रकृतिर्निर्मिता येन तप्त्वाति महदादितः ।

ब्रह्मविष्णुमहेशाद्या नमस्तस्मै शिवाय हि

॥३१॥

ब्रह्मोवाचः ।

इत्युक्त्वा पुरतस्तस्यास्तस्थौ धर्मो जगद्गुरुः ।

किञ्चिन्नोवाच चकितस्तत्पातिव्रत्य तोषितः

॥३२॥

पद्मापि नृपकन्या सा पिप्पलादप्रिसा तदा ।

साध्वी तं धर्ममाज्ञाय विस्मितोवाच पर्वत

॥३३॥

पद्मोवाच

त्वमेव धर्म सर्वेषां साक्षी निखिलकर्मणाम् ।

कथं मनो मे विज्ञातुं विडम्बयसि मां विभो

॥३४॥

यत्तत्सर्वं कृतं ब्रह्मन् नापराधो बभूव मे ।

त्वञ्च शप्तो मयाऽज्ञानात्स्त्रीस्वभा वाद्वृथा वृष

॥३५॥

का व्यवस्था भवेत्तस्य चिन्तयामीति साम्प्रतम् ।

चित्ते स्फुरतु सा बुद्धिर्यया शं सँल्लभामि वै

॥३६॥

आकाशोसौ दिशस्सर्वा यदि नश्यन्तु वायवः ।

तथापि साध्वीशापस्तु न नश्यति कदाचन

॥३७॥

सत्ये पूर्णश्चतुष्पादः पौर्ण मास्यां यथा शशी ।

विराजसे देवराज सर्वकालं दिवानिशम्

॥३८॥

त्वञ्च नष्टो भवसि चेत्सृष्टिनाशो भवेत्तदा ।

इति कर्तव्यतामूढा वृथापि च वदाम्यहम्

॥३९॥

पादक्षयश्च भविता त्रेतायां च सुरोत्तम ।

पादोपरे द्वापरे च तृतीयोऽपि कलौ विभो

॥४०॥

कलिशेषेऽखिलाश्छिन्ना भविष्यन्ति तवांघ्रयः ।

पुनस्सत्ये समायाते परिपूर्णो भविष्यसि

॥४१॥

सत्ये सर्वव्यापकस्त्वं तदन्येषु च कु त्रचित् ।

युगव्यवस्थया स त्वं भविष्यसि तथा तथा

॥४२॥

इत्येवं वचनं सत्यं ममास्तु सुखदं तव ।

याम्यहं पतिसेवायै गच्छ त्वं स्वगृहं विभो

॥४३॥

ब्रह्मोवाच

इत्याकर्ण्य वचस्तस्यास्सन्तुष्टोभूद्वृषस्स वै ।

तदेवंवादिनीं साध्वीमुवाच विधिनन्दन

॥४४॥

धर्म उवाच

धन्यासि पतिभक्तासि स्वस्ति तेस्तु पतिव्रते ।

वरं गृहाण त्वत्स्वामी त्वत्परित्राणकारणात्

॥४५॥

युवा भवतु ते भर्ता रतिशूरश्च धार्मिकः ।

रूपवान् गुणवान्वाग्मी संततस्थिरयौवनः

॥४६॥

चिरञ्जीवी स भवतु मार्कण्डेयात्प रश्शुभे ।

कुबेराद्धनवाँश्चैव शक्रादैश्वर्य्यवानपि

॥४७॥

शिवभक्तो हरिसमस्सिद्धस्तु कपिलात्परः ।

बुद्ध्या बृहस्पतिसमस्समत्वेन विधेस्समः

॥४८॥

स्वामिसौभाग्यसंयुक्ता भव त्वं जीवनावधि ।

तथा च सुभगे देवि त्वं भव स्थिरयौवना

॥४९॥

माता त्वं दशपुत्राणां गुणिनां चिरजीविनाम् ।

स्वभर्तुरधिकानां च भविष्यसि न संशयः

॥५०॥

गृहा भवन्तु ते साध्वि सर्वसम्पत्सम न्विताः ।

प्रकाशमन्तस्सततं कुबेरभवनाधिकाः

॥५१॥

वसिष्ठ उवाच

इत्येवमुक्ता सन्तस्थौ धर्मस्स गिरिसत्तम ।

सा तं प्रदक्षिणीकृत्य प्रणम्य स्वगृहं ययौ

॥५२॥

धर्मस्तथाशिषो दत्वा जगाम निजमन्दिरम् ।

प्रशशंस च तां प्रात्या पद्मां संसदि संसदि

॥५३॥

सा रेमे स्वामिना सार्द्धं यूना रहसि सन्ततम् ।

पश्चाद्बभूवुऽस्सत्पुत्रास्तद्भर्तुरधिका गुणैः

॥५४॥

बभूव सकला सम्पद्दम्पत्योः सुखवर्द्धिनी ।

सर्वानन्दवृद्धिकरी परत्रेह च शर्मणे

॥५५॥

शैलेन्द्र कथितं सर्वमितिहासं पुरातनम् ।

दम्पत्योश्च तयोः प्रीत्या श्रुतं ते परमादरात्

॥५६॥

बुद्ध्वा तत्त्वं सुतां देहि पार्वतीमीश्वराय च ।

कुरुषं त्यज शैलेन्द्र मेनया स्वस्त्रिया सह

॥५७॥

सप्ताहे समतीते तु दुर्लभेति शुभे क्षणे ।

लग्नाधिपे च लग्नस्थे चन्द्रेस्वत्नयान्विते

॥५८॥

मुदिते रोहिणीयुक्ते विशुद्धे चन्द्रतारके ।

मार्गमासे चन्द्रवारे सर्वदोषविवर्जिते

॥५९॥

सर्वसद्ग्रहसंसृष्टऽसद्ग्रहदृष्टिवर्जिते ।

सदपत्यप्रदे जीवे पतिसौभाग्यदायिनि

॥६०॥

जगदम्बां जगत्पित्रे मूलप्रकृतिमीश्वरीम् ।

कन्यां प्रदाय गिरिजां कृती त्वं भव पर्वत

॥६१॥

ब्रह्मोवाच

इत्युक्त्वा मुनिशार्दूलो वसिष्ठो ज्ञानिसत्तमः ।

विरराम शिवं स्मृत्वा नानालीलाकरं प्रभुम्

॥६२॥

इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पद्मापिप्पलादचरितवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥