पूर्वगतिवर्णनम्
नारद उवाच
विधे प्राज्ञ वदेदानीं मेनोत्पत्तिं समादरात् ।
अपि शापं समाचक्ष्व कुरु संदेहभंजनम्
॥१॥ब्रह्मोवाच
शृणु नारद सुप्रीत्या मेनोत्पत्तिं विवेकतः ।
मुनिभिः सह वक्ष्येहं सुतवर्य्य महाबुध
॥२॥दक्षनामा मम सुतो यः पुरा कथितो मुने ।
तस्य जाताः सुताः षष्टिप्रमितास्सृष्टिकारणाः
॥३॥तासां विवाहमकरोत्स वरैः कश्यपादिभिः ।
विदितं ते समस्तं तत्प्रस्तुतं शृणु नारद
॥४॥तासां मध्ये स्वधानाम्नीं पितृभ्यो दत्तवान्सुताम् ।
तिस्रोभवन्सुतास्तस्यास्सुभगा धर्ममूर्तयः
॥५॥तासां नामानि शृणु मे पावनानि मुनीश्वर ।
सदा विघ्नहराण्येव महामंगलदानि च
॥६॥मेनानाम्नी सुता ज्येष्ठा मध्या धन्या कलावती ।
अन्त्या एतास्सुतास्सर्वाः पितॄणाम्मानसोद्भवाः
॥७॥अयोनिजाः स्वधायाश्च लोकतस्तत्सुता मताः ।
आसाम्प्रोच्य सुनामानि सर्वान्कामाञ्जनो लभेत्
॥८॥जगद्वंद्याः सदा लोकमातरः परमोददाः ।
योगिन्यः परमा ज्ञाननिधानास्तास्त्रिलोकगाः
॥९॥एकस्मिन्समये तिस्रो भगिन्यस्ता मुनीश्वर ।
श्वेतद्वीपं विष्णुलोकं जग्मुर्दर्शनहेतवे
॥१०॥कृत्वा प्रणामं विष्णोश्च संस्तुतिं भक्तिसंयुताः ।
तस्थुस्तदाज्ञया तत्र सुसमाजो महानभूत्
॥११॥तदैव सनकाद्यास्तु सिद्धा ब्रह्मसुता मुने ।
गतास्तत्र हरिं नत्वा स्तुत्वा तस्थुस्तदाज्ञया
॥१२॥सनकाद्यान्मुनीन्दृष्ट्वोत्तस्थुस्ते सकला द्रुतम् ।
तत्रस्थान्संस्थितान्नत्वा देवाद्याँल्लोकवन्दितान्
॥१३॥तिस्रो भगिन्यस्तांस्तत्र नोत्तस्थुर्मोहिता मुने ।
मायया दैवविवशाश्शङ्करस्य परात्मनः
॥१४॥मोहिनी सर्व लोकानां शिवमाया गरीयसी ।
तदधीनं जगत्सर्वं शिवेच्छा सा प्रकीर्त्यते
॥१५॥प्रारब्धं प्रोच्यते सैव तन्नामानि ह्यनेकशः ।
शिवेच्छया भवत्येव नात्र कार्या विचारणा
॥१६॥भूत्वा तद्वशगास्ता वै न चक्रुरपि तन्नतिम् ।
विस्मितास्सम्प्रदृश्यैव संस्थितास्तत्र केवलम्
॥१७॥तादृशीं तद्गतिं दृष्ट्वा सनकाद्या मुनीश्वराः ।
ज्ञानिनोऽपि परं चक्रुः क्रोधं दुर्विषहं च ते
॥१८॥शिवेच्छामोहितस्तत्र सक्रोधस्ता उवाच ह ।
सनत्कुमारो योगीशश्शापन्दण्डकरं ददन्
॥१९॥सनत्कुमार उवाच
यूयं तिस्रो भगिन्यश्च मूढाः सद्वयुनोज्झिताः ।
अज्ञातश्रुतितत्त्वा हि पितृकन्या अपि ध्रुवम्
॥२०॥अभ्युत्थानं कृतं नो यन्नमस्कारोपि गर्वतः ।
मोहिता नरभावत्वात्स्वर्गाद्दूरा भवन्तु हि
॥२१॥नरस्त्रियः सम्भवन्तु तिस्रोऽपि ज्ञानमोहिताः ।
स्वकर्मणः प्रभणावे लभध्वं फलमीदृशम्
॥२२॥ब्रह्मोवाच
इत्याकर्ण्य च साध्व्यस्तास्तिस्रोऽपि चकिता भृशम् ।
पतित्वा पादयोस्तस्य समूचूर्नतमस्तकाः
॥२३॥पितृतनया ऊचुः
मुनिवर्य्य दयासिन्धो प्रसन्नो भव चाधुना ।
त्वत्प्रणामं वयं मूढाः कुर्महे स्म न भावतः
॥२४॥प्राप्तं च तत्फलं विप्र न ते दोषो महामुने ।
अनुग्रहं कुरुष्वात्र लभेम स्वर्गतिम्पुनः
॥२५॥ब्रह्मोवाच
श्रुत्वा तद्वचनं तात प्रोवाच स मुनिस्तदा ।
शापोद्धारं प्रसन्नात्मा प्रेरितः शिवमायया
॥२६॥सनत्कुमार उवाच
पितॄणां तनयास्तिस्रः शृणुत प्रीतमानसाः ।
वचनं मम शोकघ्नं सुखदं सर्वदैव वः
॥२७॥विष्णोरंशस्य शैलस्य हिमाधारस्य कामिनी ।
ज्येष्ठा भवतु तत्कन्या भविष्यत्येव पार्वती
॥२८॥धन्या प्रिया द्वितीया तु योगिनी जनकस्य च ।
तस्याः कन्या महालक्ष्मीर्नाम्ना सीता भविष्यति
॥२९॥वृषभानस्य वैश्यस्य कनिष्ठा च कलावती ।
भविष्यति प्रिया राधा तत्सुता द्वापरान्ततः
॥३०॥मेनका योगिनी पत्या पार्वत्याश्च वरेण च ।
तेन देहेन कैलासं गमिष्यति परम्पदम्
॥३१॥धन्या च सीतया सीरध्वजो जनकवंशजः ।
जीवन्मुक्तो महायोगी वैकुण्ठं च गमिष्यति
॥३२॥कलावती वृषभानस्य कौतुकात्कन्यया सह ।
जीवन्मुक्ता च गोलोकं गमिष्यति न संशयः
॥३३॥विना विपत्तिं महिमा केषां कुत्र भविष्यति ।
सुकर्मिणां गते दुःखे प्रभवेद्दुर्लभं सुखम्
॥३४॥यूयं पितॄणां तनयास्सर्वास्स्वर्गविलासिकाः ।
कर्मक्षयश्च युष्माकमभवद्विष्णुदर्शनात्
॥३५॥इत्युक्त्वा पुनरप्याह गतक्रोधो मुनीश्वरः ।
शिवं संस्मृत्य मनसा ज्ञानदं भुक्तिमुक्तिदम्
॥३६॥अपरं शृणुत प्रीत्या मद्वचस्सुखदं सदा ।
धन्या यूयं शिवप्रीता मान्याः पूज्या ह्यभीक्ष्णशः
॥३७॥मेनायास्तनया देवी पार्वती जगदम्बिका ।
भविष्यति प्रिया शम्भोस्तपः कृत्वा सुदुस्सहम्
॥३८॥धन्या सुता स्मृता सीता रामपत्नी भविष्यति ।
लौकिकाचारमाश्रित्य रामेण विहरिष्यति
॥३९॥कलावतीसुता राधा साक्षाद्गोलोकवासिनी ।
गुप्तस्नेहनिबद्धा सा कृष्णपत्नी भविष्यति
॥४०॥ब्रह्मोवाच
इत्थमाभाष्य स मुनिर्भ्रातृभिस्सह संस्तुतः ।
सनत्कुमारो भगवाँस्तत्रैवान्तर्हितोऽभवत्
॥४१॥तिस्रो भगिन्यस्तास्तात पितॄणां मानसीः सुताः ।
गतपापास्सुखं प्राप्य स्वधाम प्रययुर्द्रुतम्
॥४२॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे पूर्वगतिवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥