मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पार्वतीखण्डः, अध्याय ३२

3
रुद्रसंहिता · पार्वतीखण्डः · 32

सप्तर्ष्यागमनवर्णनम्

ब्रह्मोवाच

ब्राह्मणस्य वचः श्रुत्वा मेनोवाच हिमालयम् ।

शोकेनासाधुनयना हृदयेन विदूयता

॥१॥

मेनोवाच

शृणु शैलेन्द्र मद्वाक्यं परिणामे सुखावहम् ।

पृच्छ शैववरान्सर्वान्किमुक्तं ब्राह्मणेन ह

॥२॥

निन्दानेन कृता शम्भोर्वैष्णवेन द्विजन्मना ।

श्रुत्वा तां मे मनोऽतीव निर्विण्णं हि नगेश्वर

॥३॥

तस्मै रुद्राय शैलेश न दास्यामि सुतामहम् ।

कुरूपशीलनम्मे हि सुलक्षणयुतां निजाम्

॥४॥

न मन्यसे वचो चेन्मे मरिष्यामि न संशयः ।

त्यक्ष्यामि च गृहं सद्यो भक्षयिष्यामि वा विषम्

॥५॥

गले बद्ध्वांबिकां रज्ज्वा यास्यामि गहनं वनम् ।

महाम्बुधौ मज्जयिष्ये तस्मै दास्यामि नो सुताम्

॥६॥

इत्युक्त्वाशु तथा गत्वा मेना कोपालयं शुचा ।

त्यक्त्वा हारं रुदन्ती सा चकार शयनं भुवि

॥७॥

एतस्मिन्नन्तरे तात शम्भुना सप्त एव ते ।

संस्मृता ऋषयस्सद्यो विरहव्याकुलात्मना

॥८॥

ऋषयश्चैव ते सर्वे शम्भुना संस्मृता यदा ।

तदाऽऽजग्मुः स्वयं सद्यः कल्पवृक्षा इवापरे

॥९॥

अरुन्धती तथाऽऽयाता साक्षात्सिद्धिरिवापरा ।

तान्द्रष्ट्वा सूर्यसंकाशान्विजहौ स्वजपं हरः

॥१०॥

स्थित्वाग्रे ऋषयः श्रेष्ठं नत्वा स्तुत्वा शिवं मुने ।

मेनिरे च तदात्मानं कृतार्थं ते तपस्विनः

॥११॥

ततो विस्मयमापन्ना नम स्कृत्य स्थिताः पुनः ।

प्रोचुः प्राञ्जलयस्ते वै शिवं लोकनमस्कृतम्

॥१२॥

ऋषय ऊचुः

सर्वोत्कृष्टं महाराज सार्वभौम दिवौकसाम् ।

स्वभाग्यं वर्ण्यतेऽस्माभिः किं पुनस्सकलोत्तमम्

॥१३॥

तपस्तप्तं त्रिधा पूर्वं वेदाध्ययनमुत्तमम् ।

अग्नयश्च हुताः पूर्वं तीर्थानि विविधानि च

॥१४॥

वाङ्मनःकायजं किंचित्पुण्यं स्मरणसम्भवम् ।

तत्सर्वं संगतं चाद्य स्मरणानुग्रहात्तव

॥१५॥

यो वै भजति नित्यं त्वां कृतकृत्यो भवेन्नरः ।

किं पुण्यं वर्ण्यते तेषां येषां च स्मरणं तव

॥१६॥

सर्वोत्कृष्टा वयं जाताः स्मरणात्ते सदाशिव ।

मनोरथपथं नैव गच्छसि त्वं कथंचन

॥१७॥

वामनस्य फलं यद्वज्जन्मान्धस्य दृशौ यथा ।

वाचालत्वञ्च मूकस्य रंकस्य निधिदर्शनम्

॥१८॥

पङ्गोर्गिरिवराक्रान्तिर्वन्ध्यायः प्रसवस्तथा ।

दर्शनं भवतस्तद्वज्जातं नो दुर्लभं प्रभो

॥१९॥

अद्य प्रभृति लोकेषु मान्याः पूज्या मुनीश्वराः ।

जातास्ते दर्शनादेव स्वमुच्चैः पदमाश्रिताः

॥२०॥

अत्र किं बहुनोक्तेन सर्व था मान्यतां गताः ।

दर्शनात्तव देवेश सर्वदेवेश्वरस्य हि

॥२१॥

पूर्णानां किञ्च कर्तव्यमस्ति चेत्परमा कृपा ।

सदृशं सेवकानां तु देयं कार्यं त्वया शुभम्

॥२२॥

ब्रह्मोवाच

इत्येवं वचनं श्रुत्वा तेषां शम्भुर्महेश्वरः ।

लौकिकाचारमाश्रित्य रम्यं वाक्यमुपाददे

॥२३॥

शिव उवाच

ऋषयश्च सदा पूज्या भवन्तश्च विशेषतः ।

युष्माकं कारणाद्विप्राः स्मरणं च मया कृतम्

॥२४॥

ममावस्था भवद्भिश्च ज्ञायते ह्युपकारिका ।

साधनीया विशेषेण लोकानां सिद्धिहेतवे

॥२५॥

देवानां दुःखमुत्पन्नं ता रकात्सुदुरात्मनः ।

ब्रह्मणा च वरौ दत्तः किं करोमि दुरासदः

॥२६॥

मूर्तयोऽष्टौ च याः प्रोक्ता मदीयाः परमर्षयः ।

तास्सर्वा उपकाराय न तु स्वार्थाय तत्स्फुटम्

॥२७॥

तथा च कर्तुकामोहं विवाहं शिवया सह ।

तया वै सुतपस्तप्तं दुष्करं परमर्षिभिः

॥२८॥

तस्यै परं फलं देयमभीष्टं तद्धितावहम् ।

एतादृशः पणो मे हि भक्तानन्दप्रदः स्फुटम्

॥२९॥

पार्वतीवचनाद्भिक्षुरूपो यातो गिरेर्गृहम् ।

अहं पावितवान्कालीं यतो लीलाविशारदः

॥३०॥

मां ज्ञात्वा तौ परं ब्रह्म दम्पती परभक्तितः ।

दातुकामावभूतां च स्वसुतां वेदरीतितः

॥३१॥

देवप्रेरणयाहं वै कृतवानस्मि निन्दनम् ।

तदा स्वस्य च तद्भक्तिं विहन्तुं वैष्ण्णवात्मना

॥३२॥

तच्छ्रुत्वा तौ सुनिर्विण्णो तद्धीनौ संबभूवतुः ।

स्वकन्यां नेच्छतो दातुं मह्यं हि मुनयोऽधुना

॥३३॥

तस्माद्भवन्तो गच्छन्तु हिमाचलगृहं ध्रुवम् ।

तत्र गत्वा गिरिवरं तत्पत्नीञ्च प्रबोधय

॥३४॥

कथनीयं प्रयत्नेन वचनं वेदसम्मितम् ।

सर्वथा करणीयन्तद्यथा स्यात्कार्य्यमुत्तमम्

॥३५॥

उद्वाहं कर्तुमिच्छामि तत्पुत्र्या सह सत्तमाः ।

स्वीकृतस्त द्विवाहो मे वरो दत्तश्च तादृशः

॥३६॥

अत्र किं बहुनोक्तेन बोधनीयो हिमालयः ।

तथा मेना च बोद्धव्या देवानां स्याद्धितं यथा

॥३७॥

भवद्भिः कल्पितो यो वै विधिस्स्यादधिकस्ततः ।

भवताञ्चैव कार्य्यं तु भवन्तः कार्य्यभागिनः

॥३८॥

ब्रह्मोवाच

इत्येवं वचनं श्रुत्वा मुनयस्तेऽमलाशयाः ।

आनन्दं लेभिरे सर्वे प्रभुणानुग्रहीकृताः

॥३९॥

वयं धन्या अभूवँश्च कृतकृत्याश्च सर्वथा ।

वंद्या याताश्च सर्वेषां पूजनीया विशेषतः

॥४०॥

ब्रह्मणा विष्णुना यो वै वन्द्यस्सर्वार्थसाधकः ।

सोस्मान्प्रेषयते प्रेष्यान्कार्ये लोकसुखावहे

॥४१॥

अयं वै जगतां स्वामी पिता सा जननी मता ।

अयं युक्तश्च सम्बन्धो वर्द्धतां चन्द्रवत्सदा

॥४२॥

ब्रह्मोवाच

इत्युक्त्वा ह्यृषयो दिव्या नमस्कृत्य शिवं तदा ।

गता आकाशमार्गेण यत्रास्ति हिमवत्पुरम्

॥४३॥

दृष्ट्वा तां च पुरं दिव्या मृषयस्तेऽतिविस्मिताः ।

वर्णयन्तश्च स्वं पुण्यमब्रुवन्वै परस्परम्

॥४४॥

ऋषय ऊचुः

पुण्यवन्तो वयं धन्या दृष्ट्वैतद्धिमव त्पुरम् ।

यस्मादेवंविधे कार्य्ये शिवेनैव नियोजिताः

॥४५॥

अलकायाश्च स्वर्गाच्च भोगवत्यास्तथा पुनः ।

विशेषेणामरावत्या दृश्य ते पुरमुत्तमम्

॥४६॥

सुगृहाणि सुरम्याणि स्फटिकैर्विविधैर्वरैः ।

मणिभिर्वा विचित्राणि रचितान्यङ्गणानि च

॥४७॥

सूर्यकान्ताश्च मणयश्चन्द्रकान्तास्तथैव च ।

गृहे गृहे विचित्राश्च वृक्षात्स्वर्गसमुद्भवाः

॥४८॥

तोरणानां तथा लक्ष्मीर्दृश्यते च गृहेगृहे ।

विविधानि विचित्राणि शुकहंसैर्विमानकैः

॥४९॥

वितानानि विचित्राणि चैलवत्तोरणैस्सह ।

जलाशयान्यनेकानि दीर्घिका विविधाः स्थिताः

॥५०॥

उद्यानानि विचित्राणि प्रसन्नैः पूजितान्यथ ।

नराश्च देवतास्सर्वे स्त्रियश्चाप्सरसस्तथा

॥५१॥

कर्मभूमौ याज्ञिकाश्च पौराणास्स्वर्गकाम्यया ।

कुर्वन्ति ते वृथा सर्वे विहाय हिमवत्पुरम्

॥५२॥

यावन्न दृष्टमेतच्च तावत्स्वर्गपरा नराः ।

दृष्ट्रमेतद्यदा विप्राः किं स्वर्गेण प्रयोजनम्

॥५३॥

ब्रह्मोवाच

इत्येवमृषिवर्य्यास्ते वर्णयन्तः पुरश्च तत् ।

गता हैमालयं सर्वे गृहं सर्वसमृद्धिमत्

॥५४॥

तान्द्रष्ट्वा सूर्यसंकाशान् हिमवान्विस्मितोऽब्रवीत् ।

दूरादाकाशमार्गस्थान्मुनीन्सप्त सुतेजसः

॥५५॥

हिमवानुवाच

सप्तैते सूर्य्यसंकाशाः समायांति मदन्तिके ।

पूजा कार्य्या प्रयत्नेन मुनीनां च मयाधुना

॥५६॥

वयं धन्या गृहस्थाश्च सर्वेषां सुखदायिनः ।

येषां गृहे समायान्ति महात्मानो यदीदृशाः

॥५७॥

ब्रह्मोवाच

एतस्मिन्नन्तरे चैवाकाशादेत्य भुवि स्थितान् ।

सन्मुखे हिमवान्दृष्ट्वा ययौ मानपुरस्सरम्

॥५८॥

कृतांजलिर्नतस्कन्धः सप्तर्षीन्सुप्रणम्य सः ।

पूजां चकार तेषां वै बहुमानपुरस्सरम्

॥५९॥

हितास्सप्तर्षयस्ते च हिमवन्तन्नगेश्वरम् ।

गृहीत्वोचुः प्रसन्नास्या वचनं मङ्गलालयम्

॥६०॥

यथाग्रतश्च तान्कृत्वा धन्या मम गृहाश्रमः ।

इत्युक्त्वासनमानीय ददौ भक्तिपुरस्सरम्

॥६१॥

आसनेषूपविष्टेषु तदाज्ञप्तस्स्वयं स्थितः ।

उवाच हिमवाँस्तत्र मुनीञ्ज्योतिर्मयास्तदा

॥६२॥

हिमालय उवाच

धन्यो हि कृतकृत्योहं सफलं जीवित मम ।

लोकेषु दर्शनीयोहं बहुतीर्थसमो मतः

॥६३॥

यस्माद्भवन्तो मद्गेहमागता विष्णुरूपिणः ।

पूर्णानां भवतां कार्य्यं कृपणानां गृहेषु किम्

॥६४॥

तथापि किञ्चित्कार्यं च सदृशं सेवकस्य मे ।

कथनीयं सुदयया सफलं स्याज्जनुर्मम

॥६५॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायान्तृतीये पार्वतीखण्डे सप्तर्ष्यागमनवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥