मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पार्वतीखण्डः, अध्याय ३०

3
रुद्रसंहिता · पार्वतीखण्डः · 30

पार्वतीप्रत्यागमनमहोत्सववर्णनम्

नारद उवाच

विधे तात महाभाग धन्यस्त्वं परमार्थदृक् ।

अद्भुतेयं कथाश्रावि त्वदनुग्रहतो मया

॥१॥

गते हरे स्वशैले हि पार्वती सर्वमंगला ।

किं चकार गता कुत्र तन्मे वद महामते

॥२॥

ब्रह्मोवाच

शृणु सुप्रीतितस्तात यज्जातं तदनन्तरम् ।

हरे गते निजस्थाने तद्वदामि शिवं स्मरन्

॥३॥

पार्वत्यपि सखीयुक्ता रूपं कृत्वा तु सार्थकम् ।

जगाम स्वपितुर्गेहं महादेवेति वादिनी

॥४॥

पार्वत्यागमनं श्रुत्वा मेना च स हिमाचलः ।

दिव्यं यानं समारुह्य प्रययौ हर्षविह्वलः

॥५॥

पुरोहितश्च पौराश्च सख्यश्चैवाप्यनेकशः ।

सम्वन्धिनस्तथान्ये च सर्वे ते च समाययुः

॥६॥

भ्रातरः सकला जग्मुर्मैनाकप्रमुखास्तदा ।

जयशब्दं प्रब्रुवन्तो महाहर्षसमन्विताः

॥७॥

संस्थाप्य मंगलघटं राजवर्त्मनि राजिते ।

चन्दनागरुकस्तूरीफलशाखासमन्विते

॥८॥

सपुरोधोब्राह्मणैश्च मुनिभिर्ब्रह्मवादिभिः ।

नारीभिर्नर्तकीभिश्च गजेन्द्राद्रिसुशोभितैः

॥९॥

परितः परितो रंभास्तम्भवृन्दसमन्विते ।

पतिपुत्रवतीयोषित्समूहैर्दीपहस्तकैः ।

द्विजवृन्दैश्च संयुक्ते कुर्वद्भिर्मङ्गलध्वनिम् ।

नानाप्रकारवाद्यैश्च शंखध्वनिभिरन्विते

॥११॥

एतस्मिन्नन्तरे दुर्गा जगाम स्वपुरान्तिकम् ।

विशंती नगरं देवी ददर्श पितरौ पुनः

॥१२॥

सुप्रसन्नौ प्रधावन्तौ हर्षविह्वलमानसौ ।

दृष्ट्वा काली सुप्रहृष्टा स्वालिभिः प्रणनाम तौ

॥१३॥

तौ सम्पूर्णाशिषं दत्त्वा चक्रतुस्तौ स्ववक्षसि ।

हे वत्से त्वेवमुच्चार्य रुदन्तौ प्रेमविह्वलौ

॥१४॥

ततस्स्वकीया अप्यस्या अन्या नार्यापि संमुदा ।

भ्रातृस्त्रियोपि सुप्रीत्या दृढालिंगनमादधुः

॥१५॥

साधितं हि त्वया सम्यक्सुकार्यं कुलतारणम् ।

त्वत्सदाचरणेनापि पाविताः स्माखिला वयम्

॥१६॥

इति सर्वे सुप्रशंस्य प्रणेमुस्तां प्रहर्षिताः ।

चन्दनैः सुप्रसूनैश्च समानर्चुश्शिवां मुदा

॥१७॥

तस्मिन्नवसरे देवा विमानस्था मुदाम्बरे ।

पुष्पवृष्टिं शुभां चक्रुर्नत्वा तां तुष्टुवुः स्तवैः

॥१८॥

तदा तां च रथे स्थाप्य सर्वे शोभान्विते वरे ।

पुरं प्रवेशयामासुस्सर्वे विप्रादयो मुदा

॥१९॥

अथ विप्राः पुरोधाश्च सख्योन्याश्च स्त्रियः शिवाम् ।

गृहं प्रवेशयामासुर्बहुमानपुरस्सरम्

॥२०॥

स्त्रियो निर्मच्छनं चक्रुर्विप्रा युयुजुराशिषः ।

हिमवान्मेनका माता मुमोदाति मुनीश्वर

॥२१॥

स्वाश्रमं सफलं मेने कुपुत्रात्पुत्रिका वरा ।

हिमवान्नारदं त्वाञ्च संस्तुवन् साधुसाध्विति

॥२२॥

ब्राह्मणेभ्यश्च बंदिभ्यः पर्वतेन्द्रो धनं ददौ ।

मङ्गलं पाठयामास स द्विजेभ्यो महोत्सवम्

॥२३॥

एवं स्वकन्यया हृष्टौ पितरौ भ्रातरस्तथा ।

जामयश्च महाप्रीत्या समूषुः प्रांगणे मुने

॥२४॥

ततस्स हिमवान् तात सुप्रहृष्टाः प्रसन्नधीः ।

सम्मान्य सकलान्प्रीत्या स्नातुं गंगां जगाम ह

॥२५॥

एतस्मिन्नंतरे शंभुस्सुलीलो भक्तवत्सलः ।

सुनर्तकनटो भूत्वा मेनकासंनिधिं ययौ

॥२६॥

शृंगं वामे करे धृत्वा दक्षिणे डमरु तथा ।

पृष्ठे कंथां रक्तवासा नृत्यगानविशारदः

॥२७॥

ततस्सुनटरूपोसौ मेनकाया गणे मुदा ।

चक्रे सुनृत्यं विविधं गानं चातिमनोहरम्

॥२८॥

शृंगं च डमरुं तत्र वादयामास सुध्वनिम् ।

महतीं विविधां तत्र स चकार मनोहराम्

॥२९॥

तां द्रष्टुं नागरास्सर्वे पुरुषाश्च स्त्रियस्तथा ।

आजग्मुस्सहसा तत्र बाला वृद्धा अपि ध्रुवम्

॥३०॥

श्रुत्वा सुगीतं तद्दृष्ट्वा सुनृत्यं च मनोहरम् ।

सहसा मुमुहुस्सर्वे मेनापि च तदा मुने

॥३१॥

मूर्च्छां संप्राप्य सा दुर्गा सुदृष्ट्वा हृदि शंकरम् ।

त्रिशूलादिकचिह्नानि बिभ्रतं चातिसुन्दरम्

॥३२॥

विभूतिविभूषितं रम्यमस्थिमालासमन्वितम् ।

त्रिलोचनोज्ज्वलद्वक्त्रं नागायज्ञोपवीतकम्

॥३३॥

वरं वृण्वित्युक्तवन्तं गौरवर्णं महेश्वरम् ।

दीनबन्धु दयासिन्धुं सर्वथा सुमनोहरम्

॥३४॥

हृदयस्थं हरं दृष्ट्वेदृशं सा प्रणनाम तम् ।

वरं वव्रे मानसं हि पतिर्मे त्वं भवेति च

॥३५॥

वरं दत्त्वा शिवं चाथ तादृशं प्रीतितो हृदा ।

अन्तर्धाय पुनस्तत्र सुननर्त्त स भिक्षुकः

॥३६॥

ततो मेना सुरत्नानि स्वर्णपात्रस्थितानि च ।

तस्मै दातुं ययौ प्रीत्या तद्भूति प्रीतमानसः

॥३७॥

तानि न स्वीचकारासौ भिक्षां याचे शिवां च ताम् ।

पुनस्सुनृत्यं गानश्च कौतुकात्कर्तुमुद्यतः

॥३८॥

मेना तद्वचनं श्रुत्वा चुकोपाति सुविस्मिता ।

भिक्षुकं भर्त्सयामास बहिष्कर्तुमियेष सा

॥३९॥

एतस्मिन्नन्तरे तत्र गंगातो गिरिराययौ ।

ददर्श पुरतो भिक्षुं प्रांगणस्थं नराकृतिम्

॥४०॥

श्रुत्वा मेनामुखाद्वृत्तं तत्सर्वं सुचुकोप सः ।

आज्ञां चकारानुचरान्बहिष्कर्तुञ्च तं नटम्

॥४१॥

महाग्निमिव दुःस्पर्शं प्रज्वलन्तं सुतेजसम् ।

न शशाक बहिष्कर्तुं कोपि तं मुनिसत्तम

॥४२॥

ततस्स भिक्षुकस्तात नानालीलाविशारदः ।

दर्शयामास शैलाय स्वप्रभावमनन्तकम्

॥४३॥

शैलो ददर्श तं तत्र विष्णुरूपधरं द्रुतम् ।

किरीटिनं कुण्डलिनं पीतवस्त्रं चतुर्भुजम्

॥४४॥

यद्यत्पुष्पादिकं दत्तं पूजाकाले गदाभृते ।

गात्रे शिरसि तत्सर्वं भिक्षुकस्य ददर्श ह

॥४५॥

ततो ददर्श जगतां स्रष्टारं स चतुर्मुखम् ।

रक्तवर्णं पठन्तञ्च श्रुतिसूक्तं गिरीश्वरः

॥४६॥

ततस्सूर्य्यस्वरूपञ्च जगच्चक्षुस्स्वरूपकम् ।

ददर्श गिरिराजस्स क्षणं कौतुककारिणाम्

॥४७॥

ततो ददर्श तं तात रुद्ररूपं महाद्भुतम् ।

पार्वती सहितं रम्यं विहसन्तं सुतेजसम्

॥४८॥

ततस्तेजस्स्वरूपञ्च निराकारं निरंजनम् ।

निरुपाधिं निरीहञ्च महाद्भुतमरूपकम्

॥४९॥

एवं बहूनि रूपाणि तस्य तत्र ददर्श सः ।

सुविस्मितो बभूवाशु परमानन्दसंयुतः

॥५०॥

अथासौ भिक्षुवर्य्यो हि तस्मात्तस्याश्च सूतिकृत् ।

भिक्षां ययाचे दुर्गान्तां नान्यज्जग्राह किञ्चन

॥५१॥

न स्वीचकार शैलैन्द्रो मोहितश्शिवमायया ।

भिक्षुः किंचिन्न जग्राह तत्रैवान्तर्दधे ततः

॥५२॥

तदा बभूव सुज्ञानं मेनाशैलेशयोरिति ।

आवां शिवो वञ्चयित्वा स्वस्थानं गतवान्प्रभुः

॥५३॥

तयोर्विचिन्त्य तत्रैव शिवे भक्तिरभूत्परा ।

महामोक्षकरी दिव्या सर्वानन्दप्रदायिनी

॥५४॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे पार्वतीप्रत्यागमनमहोत्सववर्णनं नाम त्रिंशोऽध्यायः ॥ ३० ॥