मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पार्वतीखण्डः, अध्याय २७

3
रुद्रसंहिता · पार्वतीखण्डः · 27

शृणु द्विजेन्द्र जटिल मद्वृत्तं निखिलं खलु

पार्वत्युवाच

शृणु द्विजेन्द्र जटिल मद्वृत्तं निखिलं खलु ।

सख्युक्तं मेऽद्य यत्सत्यं तत्तथैव न चान्यथा

॥१॥

मनसा वचसा साक्षात्कर्म्मणा पतिभावतः ।

सत्यं ब्रवीमि नोऽसत्यं वृतो वै शंकरो या

॥२॥

जानामि दुर्ल्लभं वस्तु कथम्प्राप्यं मया भवेत् ।

तथापि मन औत्सुक्यात्तप्यतेऽद्य तपो मया

॥३॥

ब्रह्मोवाच

इत्युक्त्वा वचनन्तस्मै स्थिता सा गिरिजा तदा ।

उवाच ब्राह्मणस्तत्र तच्छ्रुत्वा पार्वतीवचः

॥४॥

ब्राह्मण उवाच

एतावत्कालपर्य्यन्तम्ममेच्छा महती ह्यभूत् ।

किं वस्तु कांक्षती देवी कुरुते सुमहत्तपः

॥५॥

तज्ज्ञात्वा निखिलं देवि श्रुत्वा त्वन्मुखपंकजात् ।

इतो गच्छाम्यहं स्थानाद्यथेच्छसि तथा कुरु

॥६॥

न कथ्यते त्वया मह्यं मित्रत्वं निष्फलम्भवेत् ।

यथा कार्य्यं तथा भावि कथनीयं सुखेन च

॥७॥

ब्रह्मोवाच

इत्युक्त्वा वचनं तस्य यावद्गन्तुमियेष सः ।

तावच्च पार्वती देवी प्रणम्योवाच तं द्विजम्

॥८॥

पार्वत्युवाच

किं गमिष्यसि विप्रेन्द्र स्थितो भव हितं वद ।

इत्युक्ते च तया तत्र स्थित्वोवाच स दण्डधृक्

॥९॥

द्विज उवाच

यदि श्रोतुमना देवि मां स्थापयसि भक्तितः ।

वदामि तत्त्वं तत्सर्वं येन ते वयुनम्भवेत्

॥१०॥

जानाम्यहं महादेवं सर्वथा गुरुधर्म्मतः ।

प्रवदामि यथार्थं हि सावधानतया शृणु

॥११॥

वृषध्वजो महादेवो भस्मदिग्धो जटाधरः ।

व्याघ्रचर्म्मांबरधरः संवीतो गजकृत्तिना

॥१२॥

कपालधारी सर्पौघैस्सर्वगात्रेषु वेष्टितः ।

विषदिग्धोऽभक्ष्यभक्षो विरूपाक्षो विभीषणः

॥१३॥

अव्यक्तजन्मा सततं गृहभोगविवर्जितः ।

दिगंबरो दशभुजो भूत प्रेतान्वितस्सदा

॥१४॥

केन कारणेन त्वं तं भर्तारं समीहसे ।

क्व ज्ञानं ते गतं देवि तद्वदाद्य विचारतः

॥१५॥

पूर्वं श्रुतं मया चैव व्रतन्तस्य भयंकरम् ।

शृणु ते निगदाम्यद्य यदि ते श्रवणे रुचिः

॥१६॥

दक्षस्य दुहिता साध्वी सती वृषभवाहनम् ।

वव्रे पतिं पुरा दैवात्तत्संभोगः परिश्रुतः

॥१७॥

कपालिजायेति सती दक्षेण परिवर्जिता ।

यज्ञे भागप्रदानाय शंभुश्चापि विवर्जितः

॥१८॥

सा तथैवापमानेन भृशं कोपाकुला सती ।

तत्याजासून्प्रियांस्तत्र तया त्यक्तश्च शंकरः

॥१९॥

त्वं स्त्रीरत्नं तव पिता राजा निखिल भूभृताम् ।

तथाविधं पतिं कस्मादुग्रेण तपसेहसे

॥२०॥

दत्त्वा सुवर्णमुद्रां च ग्रहीतुं काचमिच्छसि ।

हित्वा च चंदनं शुभ्रं कर्दमं लेप्तुमिच्छसि

॥२१॥

सूर्य्यतेजः परित्यज्य खद्योतद्युतिमिच्छसि ।

चीनांशुकं विहायैव चर्म्मांबरमिहेच्छसि

॥२२॥

गृहवासम्परित्यज्य वनवासं समीहसे ।

लोहमिच्छसि देवेश त्यक्त्वा शेवधिमुत्तमम्

॥२३॥

इन्द्रादिलोकपालांश्च हित्वा शिवमनु व्रता ।

नैतत्सूक्तं हि लोकेषु विरुद्धं दृश्यतेऽधुना

॥२४॥

क्व त्वं कमलपत्राक्षी क्वासौ वै त्रिविलोचनः ।

शशांकवदना त्वं च पंचवक्त्रः शिवस्स्मृतः

॥२५॥

वेणी शिरसि ते दिव्या सर्पिणीव विभासिता ।

जटाजूटं शिवस्येव प्रसिद्धम्परिचक्षते

॥२६॥

चंदनं च त्वदीयांगे चिताभस्म शिवस्य च ।

क्व दुकूलं त्वदीयं वै शांकरं क्व गजाजिनम्

॥२७॥

भूषणानि दिव्यानि क्व सर्पाश्शंकरस्य च ।

क्व चरा देवतास्सर्वाः क्व च भूतबलिप्रियः

॥२८॥

क्व वा मृदंगवादश्च क्व च तड्डमरुस्तथा ।

क्व च भेरीकलापश्च क्व च शृंगरवोऽशुभः

॥२९॥

क्व च ढक्कामयः शब्दो गलनादः क्व चाशुभः ।

भवत्याश्च शिवस्यैव न युक्तं रूपमुत्तमम्

॥३०॥

यदि द्रव्यं भवेत्तस्य कथं स्यात्स दिगम्बरः ।

वाहनं च बलीवर्दस्सामग्री कापि तस्य न

॥३१॥

वरेषु ये गुणाः प्रोक्ता नारीणां सुखदायकाः ।

तन्मध्ये हि विरूपाक्षे एकोपि न गुणः स्मृतः

॥३२॥

तवापि कामो दयितो दग्धस्तेन हरेण च ।

अनादरस्तदा दृष्टो हित्वा त्वामन्यतो गतः

॥३३॥

जातिर्न दृश्यते तस्य विद्याज्ञानं तथैव च ।

सहायाश्च पिशाचा हि विषं कण्ठे हि दृश्यते

॥३४॥

एकाकी च सदा नित्यं विरागी च विशेषतः ।

तस्मात्त्वं हि हरे नैव मनो योक्तुं तु चार्हसि

॥३५॥

क्व च हारस्त्वदीयो वै क्व च तन्मुण्डमालिका ।

अंगरागः क्व ते दिव्यः चिताभस्म क्व तत्तनौ

॥३६॥

सर्वं विरुद्धं रूपादि तव देवि हरस्य च ।

मह्यं न रोचते ह्येतद्यदिच्छसि तथा कुरु

॥३७॥

असद्वस्तु च यत्किंचित् तत्सर्वं स्वयमीहसे ।

निर्वर्तय मनस्तस्मान्नोचेदिच्छसि तत्कुरु

॥३८॥

ब्रह्मोवाच

इत्येवं वचनं श्रुत्वा तस्य विप्रस्य पार्वती ।

उवाच क्रुद्धमनसा शिवनिन्दापरं द्विजम्

॥३९॥

इतिश्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे ब्रह्मचारिप्रतारणवाक्यवर्णनं नाम सप्तविंशोऽध्यायः ॥ २७ ॥