मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पार्वतीखण्डः, अध्याय ५२

3
रुद्रसंहिता · पार्वतीखण्डः · 52

वरवर्गभोजनशिवशयनवर्णनम्

ब्रह्मोवाच

अथ शैलवरस्तात हिमवान्भाग्यसत्तमः ।

प्राङ्गणं रचयामास भोजनार्थं विचक्षणः

॥१॥

मार्जनं लेपनं सम्यक्कारयामास तस्य सः ।

स सुगन्धैरलञ्चक्रे नानावस्तुभिरादरात्

॥२॥

अथ शैलस्सुरान्सर्वानन्यानपि च सेश्वरान् ।

भोजनायाह्वयामास पुत्रैश्शैलैः परैरपि

॥३॥

शैलाह्वानमथाकर्ण्य स प्रभुस्साच्युतो मुने ।

सर्वैस्सुरादिभिस्तत्र भोजनाय ययौ मुदा

॥४॥

गिरिः प्रभुं च सर्वांस्तान्सुसत्कृत्य यथाविधि ।

मुदोपवेशयामास सत्पीठेषु गृहान्तरे

॥५॥

नानासुभोज्यवस्तूनि परिविष्य च तत्पुनः ।

साञ्चलिर्भोजनायाज्ञां चक्रे विज्ञप्तिमानतः

॥६॥

अथ सम्मानितास्तत्र देवा विष्णुपुरोगमाः ।

सदाशिवं पुरस्कृत्य बुभुजुस्सकलाश्च ते

॥७॥

तदा सर्वे हि मिलिता ऐकपद्येन सर्वशः ।

पंक्तिभूताश्च बुभुजु र्विहसन्तः पृथक्पृथक्

॥८॥

नन्दिभृंगिवीरभद्रवीरभद्रगणाः पृथक् ।

बुभुजुस्ते महाभागाः कुतूहलसमन्विताः

॥९॥

देवास्सेन्द्रा लोकपाला नानाशोभासमन्विताः ।

बुभुजुस्ते महाभागा नानाहास्यरसैस्सह

॥१०॥

सर्वे च मुनयो विप्रा भृग्वाद्या ऋषयस्तथा ।

बुभुजु प्रीतितस्सर्वे पृथक् पंक्तिगतास्तदा

॥११॥

तथा चण्डीगणास्सर्वे बुभुजुः कृतभाजनाः ।

कुतूहलं प्रकुर्वन्तो नानाहास्यकरा मुदा

॥१२॥

एवन्ते भुक्तवन्तश्चाचम्य सर्वे मुदान्विताः ।

विश्रामार्थं गताः प्रीत्या विष्ण्वाद्यास्स्वस्वमाश्रमम्

॥१३॥

मेनाज्ञया स्त्रियस्साध्व्य श्शिवं सम्प्रार्थ्य भक्तितः ।

गेहे निवासयामासुर्वासाख्ये परमोत्सवे

॥१४॥

रत्नसिंहासने शम्भुर्मेनादत्ते मनोहरे ।

सन्निधाय मुदा युक्तो ददृशे वासमन्दिरम्

॥१५॥

रत्नप्रदीपशतकैर्ज्वलद्भिर्ज्वलितं श्रिया ।

रत्नपात्रघटाकीर्णं मुक्तामणिविराजितम्

॥१६॥

रत्नदर्प्पणशोभाढ्यं मण्डितं श्वेतचामरैः ।

मुक्तामणिसुमालाभिर्वेष्टितं परमर्द्धिमत्

॥१७॥

अनूपमम्महादिव्यं विचित्रं सुमनोहरम् ।

चित्ताह्लादकरं नानारचनारचितस्थलम्

॥१८॥

शिवदत्तवरस्यैव प्रभावमतुलम्परम् ।

दर्शयन्तं समुल्लासि शिवलोकाभिधानकम्

॥१९॥

नानासुगन्धसद्द्रव्यैर्वासितं सुप्रकाशकम् ।

चन्दनागुरुसंयुक्तं पुष्पशय्यासमन्वितम्

॥२०॥

नानाचित्रविचित्राढ्यं निर्मितं विश्वकर्म्मणा ।

रत्नेन्द्रसाररचितैराचितं हारकैर्वरैः

॥२१॥

कुत्रचित्सुरनिर्माणं वैकुण्ठं सुमनोहरम् ।

कुत्रचिच्च ब्रह्मलोकं लोकपालपुरं क्वचित्

॥२२॥

कैलासं कुत्रचिद्रम्यं कुत्रचिच्छक्रमन्दिरम् ।

कुत्रचिच्छिवलोकं च सर्वोपरि विराजितम्

॥२३॥

एतादृशगृहं सर्वदृष्टाश्चर्य्यं महेश्वरः ।

प्रशंसन् हिमशैलेशं परितुष्टो बभूव ह

॥२४॥

तत्रातिरमणीये च रत्नपर्य्यंक उत्तमे ।

अशयिष्ट मुदा युक्तो लीलया परमेश्वरः

॥२५॥

हिमाचलश्च स्वभ्रातॄन्भोजयामास कृत्स्नशः ।

सर्वानन्यांश्च सुप्रीत्या शेषकृत्यं चकार ह

॥२६॥

एवं कुर्वति शैलेशे स्वपति प्रेष्ठ ईश्वरे ।

व्यतीता रजनी सर्वा प्रातःकालो बभूव ह

॥२७॥

अथ प्रभातकाले च धृत्युत्साहपरायणाः ।

नानाप्रकारवाद्यानि वादयाञ्चक्रिरे जनाः

॥२८॥

सर्वे सुरास्समुत्तस्थुर्विष्ण्वाद्यास्सुमुदान्विताः ।

स्वेष्टं संस्मृत्य देवेशं सज्जिभूतास्ससंभ्रमाः

॥२९॥

स्ववाहनानि सज्जानि कैलासङ्गन्तुमुत्सुकाः ।

कृत्वा सम्प्रेषयामासुर्धर्मं शिवसमीपतः

॥३०॥

वासगेहमथागत्य धर्मो नारायणाज्ञया ।

उवाच शंकरं योगी योगीशं समयोचितम्

॥३१॥

धर्म उवाच

उत्तिष्ठोत्तिष्ठ भद्रन्ते भव नः प्रमथाधिप ।

जनावासं समागच्छ कृतार्थं कुरु तत्र तान्

॥३२॥

ब्रह्मोवाच

इति धर्मवचः श्रुत्वा विजहास महेश्वरः ।

ददर्श कृपया दृष्ट्या तल्पमुज्झाञ्चकार ह

॥३३॥

उवाच विहसन् धर्म त्वमग्रे गच्छ तत्र ह ।

अहमप्यागमिष्यामि द्रुतमेव न संशयः

॥३४॥

ब्रह्मोवाच

इत्युक्तश्शंकरेणाथ जनावासं जगाम सः ।

स्वयङ्गन्तुमना आसीत्तत्र शम्भुरपि प्रभुः ।

तज्ज्ञात्वा स्त्रीगणस्सोसौ तत्रागच्छन्महोत्सवः ।

चक्रे मंगलगानं हि पश्यन्शम्भुपदद्वयम्

॥३५॥

अथ शंम्भुर्भवाचारी प्रातःकृत्यं विधाय च ।

मेनामान्त्र्य कुध्रं च जनावासं जगाम सः

॥३७॥

महोत्सवस्तदा चासीद्वेदध्वनिरभून्मुने ।

वाद्यानि वादयामासुर्जनाश्चातुर्विधानि च

॥३८॥

शम्भुरागत्य स्वस्थानं ववन्दे च मुनींस्तदा ।

हरिं च मां भवाचारात् वन्दितोऽभूत्सुरादिभिः

॥३९॥

जयशब्दो बभूवाथ नमश्शब्दस्तथैव च ।

वेदध्वनिश्च शुभदो महाकोलाहलोऽभवत्

॥४०॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे वरवर्गभोजनशिवशयनवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः ॥ ५२ ॥