मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पार्वतीखण्डः, अध्याय २२

3
रुद्रसंहिता · पार्वतीखण्डः · 22

पार्वतीतपोव०

ब्रह्मोवाच

त्वयि देवमुने याते पार्वती हृष्टमानसा ।

तपस्साध्यं हरं मेने तपोर्थं मन आदधे

॥१॥

ततः सख्यौ समादाय जयां च विजयां तथा ।

मातरं पितरं चैव सखीभ्यां पर्यपृच्छत

॥२॥

प्रथमं पितरं गत्वा हिमवन्तं नगेश्वरम् ।

पर्यपृच्छत्सुप्रणम्य विनयेन समन्विता

॥३॥

सख्यावूचतुः

हिमवञ्च्छ्रूयतां पुत्री वचनं कथ्यतेऽधुना ।

सा स्वयं चैव देहस्य रूपस्यापि तथा पुनः

॥४॥

भवतो हि कुलस्यास्य साफल्यं कर्तुमिच्छति ।

तपसा साधनीयोऽसौ नान्यथा दृश्यतां व्रजेत्

॥५॥

तस्माच्च पर्वतश्रेष्ठ देह्याज्ञां भवताधुना ।

तपः करोतु गिरिजा वनं गत्वेति सादरम्

॥६॥

ब्रह्मोवाच

इत्येवं च तदा पृष्टस्सखीभ्यां मुनिसत्तम ।

पार्वत्या सुविचार्याथ गिरिराजोऽब्रवीदिदम्

॥७॥

हिमालय उवाच

मह्यं च रोचतेऽत्यर्थं मेनायै रुच्यतां पुनः ।

यथेदं भवितव्यं च किमतः परमुत्तमम्

॥८॥

साफल्यं तु मदीयस्य कुलस्य च न संशयः ।

मात्रे तु रुच्यते चेद्वै ततः शुभतरं नु किम्

॥९॥

ब्रह्मोवाच

इत्येवं वचनं पित्रा प्रोक्तं श्रुत्वा तु ते तदा ।

जग्मतुर्मातरं सख्यौ तदाज्ञप्ते तया सह

॥१०॥

गत्वा तु मातरं तस्याः पार्वत्यास्ते च नारद ।

सुप्रणम्य करो बध्वोचतुर्वचनमादरात्

॥११॥

सख्यावूचतुः

मातस्त्वं वचनं पुत्र्याः शृणु देवि नमोऽस्तु ते ।

सुप्रसन्नतया तद्वै श्रुत्वा कर्तुमिहार्हसि

॥१२॥

तप्तुकामा तु ते पुत्री शिवार्थं परमं तपः ।

प्राप्तानुज्ञा पितुश्चैव तुभ्यं च परिपृच्छति

॥१३॥

इयं स्वरूपसाफल्यं कर्तुकामा पतिव्रते ।

त्वदाज्ञया यदि जायेत तप्यते च तथा तपः

॥१४॥

ब्रह्मोवाच

इत्युक्त्वा च ततस्सख्यौ तूष्णीमास्तां मुनीश्वर ।

नांगीचकार मेना सा तद्वाक्यं खिन्नमानसा

॥१५॥

ततस्सा पार्वती प्राह स्वयमेवाथ मातरम् ।

करौ बद्ध्वा विनीतात्मा स्मृत्वा शिवपदांबुजम्

॥१६॥

पार्वत्युवाच

मातस्तप्तुं गमिष्यामि प्रातः प्राप्तुं महेश्वरम् ।

अनुजानीहि मां गंतुं तपसेऽद्य तपोवनम्

॥१७॥

ब्रह्मोवाच

इत्याकर्ण्य वचः पुत्र्या मेना दुःख मुपागता ।

सोपाहूय तदा पुत्रीमुवाच विकला सती

॥१८॥

मेनोवाच

दुःखितासि शिवे पुत्री तपस्तप्तुं पुरा यदि ।

तपश्चर गृहेऽद्य त्वं न बहिर्गच्छ पार्वति

॥१९॥

कुत्र यासि तपः कर्तुं देवास्संति गृहे मम ।

तीर्थानि च समस्तानि क्षेत्राणि विविधानि च

॥२०॥

कर्तव्यो न हठः पुत्रि गंतव्यं न बहिः क्वचित् ।

साधितं किं त्वया पूर्वं पुनः किं साधयिष्यसि

॥२१॥

शरीरं कोमलं वत्से तपस्तु कठिनं महत् ।

एवस्मात्तु त्वया कार्यं तपोऽत्र न बहिर्व्रज

॥२२॥

स्त्रीणां तपोवनगतिर्न श्रुता कामनार्थिनी ।

तस्मात्त्वं पुत्रि मा कार्षीस्तपोर्थं गमनं प्रति

॥२३॥

ब्रह्मोवाच

इत्येवं बहुधा पुत्री तन्मात्रा विनवारिता ।

संवेदे न सुखं किंचिद्विनाराध्य महेश्वरम्

॥२४॥

तपोनिषिद्धा तपसे वनं गंतुं च मेनया ।

हेतुना तेन सोमेति नाम प्राप शिवा तदा

॥२५॥

अथ तां दुखितां ज्ञात्वा मेना शैलप्रिया शिवाम् ।

निदेशं सा ददौ तस्याः पार्वत्यास्तपसे मुने

॥२६॥

मातुराज्ञां च संप्राप्य सुव्रता मुनिसत्तम ।

ततः स्वांते सुखं लेभे पार्वती स्मृतशंकरा

॥२७॥

मातरं पितरं साथ प्रणिपत्य मुदा शिवा ।

सखीभ्यां च शिवं स्मृत्वा तपस्तप्तुं समुद्गता

॥२८॥

हित्वा मतान्यनेकानि वस्त्राणि विविधानि च ।

वल्कलानि धृतान्याशु मौंजीं बद्ध्वा तु शोभनाम्

॥२९॥

हित्वा हारं तथा चर्म्म मृगस्य परमं धृतम् ।

जगाम तपसे तत्र गंगावतरणं प्रति

॥३०॥

शंभुना कुर्वता ध्यानं यत्र दग्धो मनोभवः ।

गंगावतरणो नाम प्रस्थो हिमवतस्स च

॥३१॥

हरशून्योऽथ ददृशे स प्रस्थो हिमभूभृतः ।

काल्या तत्रेत्य भोस्तात पार्वत्या जगदम्बया

॥३२॥

यत्र स्थित्वा पुरा शंभुस्तप्तवान्दुस्तरं तपः ।

तत्र क्षणं तु सा स्थित्वा बभूव विरहार्दिता

॥३३॥

हा हरेति शिवा तत्र रुदन्ती सा गिरेस्सुता ।

विललापातिदुःखार्ता चिन्ताशोकसमन्विता

॥३४॥

ततश्चिरेण सा मोहं धैर्य्या त्संस्तभ्य पार्वती ।

नियमायाऽभवत्तत्र दीक्षिता हिमवत्सुता

॥३५॥

तपश्चकार सा तत्र शृंगितीर्थे महोत्तमे ।

गौरीशिखर नामासीत्तत्तपःकरणाद्धि तत्

॥३६॥

सुंदराश्च द्रुमास्तत्र पवित्राश्शिवया मुने ।

आरोपिताः परीक्षार्थं तपसः फलभागिनः

॥३७॥

भूभिशुद्धिं ततः कृत्वा वेदीं निर्माय सुन्दरी ।

तथा तपस्समारब्धं मुनीनामपि दुष्करम्

॥३८॥

विगृह्य मनसा सर्वाणींद्रियाणि सहाशु सा ।

समुपस्थानिके तत्र चकार परमं तपः ।

ग्रीष्मे च परितो वह्निं प्रज्वलंतं दिवानिशम् ।

कृत्वा तस्थौ च तन्मध्ये सततं जपती मनुम

॥४०॥

सततं चैव वर्षासु स्थंडिले सुस्थिरासना ।

शिलापृष्ठे च संसिक्ता बभूव जलधारया

॥४१॥

शीते जलांतरे शश्वत्तस्थौ सा भक्तितत्परा ।

अनाहारातपत्तत्र नीहारे निशासु च

॥४२॥

एवं तपः प्रकुर्वाणा पंचाक्षरजपे रता ।

दध्यौ शिवं शिवा तत्र सर्वकामफलप्रदम्

॥४३॥

स्वारोपिताच्छुभान्वृक्षान्सखीभिस्सिंचती मुदा ।

प्रत्यहं सावकाशे सा तत्रातिथ्यमकल्पयत्

॥४४॥

वातश्चैव तथा शीतवृष्टिश्च विविधा तथा ।

दुस्सहोऽपि तथा घर्म्मस्तया सेहे सुचित्तया

॥४५॥

दुःखं च विविधं तत्र गणितं न तयागतम् ।

केवलं मन आधाय शिवे सासीत्स्थिता मुने

॥४६॥

प्रथमं फलभोगेन द्वितीयं पर्णभोजनैः ।

तपः प्रकुर्वती देवी क्रमान्निन्येऽमिताः समाः

॥४७॥

ततः पर्णान्यपि शिवा निरस्य हिमवत्सुता ।

निराहाराभवद्देवी तपश्चरणसंरता

॥४८॥

आहारे त्यक्तपर्णाभूद्यस्माद्धिमवतः सुतः ।

तेन देवैरपर्णेति कथिता नामतः शिवा

॥४९॥

एका पादस्थिता सासीच्छिवं संस्मृत्य पार्वती ।

पंचाक्षरं जपंती च मनुं तेपे तपो महत्

॥५०॥

चीरवल्कलसंवीता जटासंघातधारिणी ।

शिवचिंतनसंसक्ता जिगाय तपसा मुनीम्

॥५१॥

एवं तस्यास्तपस्यन्त्या चिंतयंत्या महेश्वरम् ।

त्रीणि वर्ष सहस्राणि जग्मुः काल्यास्तपोवने

॥५२॥

षष्टिवर्षसहस्राणि यत्र तेपे तपो हरः ।

तत्र क्षणमथोषित्वा चिंतयामास सा शिवा

॥५३॥

नियमस्थां महादेव किं मां जानासि नाधुना ।

येनाहं सुचिरं तेन नानुयाता तवोरता

॥५४॥

लोके वेदे च गिरिशो मुनिभिर्गीयते सदा ।

शंकरस्य हि सर्वज्ञस्सर्वात्मा सर्वदर्शनः

॥५५॥

सर्वभूतिप्रदो देवस्सर्वभावानुभावनः ।

भक्ताभीष्टप्रदो नित्यं सर्वक्लेशनिवारणः

॥५६॥

सर्वकामान्परित्यज्य यदि चाहं वृषध्वजे ।

अनुरक्ता तदा सोत्र संप्रसीदतु शंकरः

॥५७॥

यदि नारद तत्रोक्तमंत्रो जप्तश्शराक्षरः ।

सुभक्त्या विधिना नित्यं संप्रसीदतु शंकरः

॥५८॥

यदि भक्त्या शिवस्याहं निर्विकारा यथोदितम् ।

सर्वेश्वरस्य चात्यंतं संप्रसीदतु शंकरः

॥५९॥

एवं चिंतयती नित्यं तेपे सा सुचिरं तपः ।

अधोमुखी निर्विकारा जटावल्कलधारिणी

॥६०॥

तथा तया तपस्तप्तं मुनीनामपि दुष्करम् ।

स्मृत्वा च पुरुषास्तत्र परमं विस्मयं गताः

॥६१॥

तत्तपोदर्शनार्थं हि समाजग्मुश्च तेऽखिलाः ।

धन्यान्निजान्मन्यमाना जगदुश्चेति सम्मताः

॥६२॥

महतां धर्म्मवृद्धेषु गमनं श्रेय उच्यते ।

प्रमाणं तपसो नास्ति मान्यो धर्म्मस्सदा बुधैः

॥६३॥

श्रुत्वा दृष्ट्वा तपोऽस्यास्तु किमन्यैः क्रियते तपः ।

अस्मात्तपोऽधिकं लोके न भूतं न भविष्यति

॥६४॥

जल्पंत इति ते सर्वे सुप्रशस्य शिवातपः ।

जग्मुः स्वं धाम मुदिताः कठिनांगाश्च ये ह्यपि

॥६५॥

अन्यच्छृणु महर्षे त्वं प्रभावं तपसोऽधुना ।

पार्वत्या जगदम्बायाः पराश्चर्य्यकरं महत्

॥६६॥

तदाश्रमगता ये च स्वभावेन विरोधिनः ।

तेप्यासँस्तत्प्रभावेण विरोधरहि तास्तदा

॥६७॥

सिंहा गावश्च सततं रागादिदोषसंयुताः ।

तन्महिम्ना च ते तत्र नाबाधंत परस्परम्

॥६८॥

अथान्ये च मुनिश्रेष्ठ मार्ज्जारा मूषकादयः ।

निसर्गाद्वैरिणो यत्र विक्रियंते स्म न क्वचित्

॥६९॥

वृक्षाश्च सफलास्तत्र तृणानि विविधानि च ।

पुष्पाणि च विचित्राणि तत्रासन्मुनिसत्तम

॥७०॥

तद्वनं च तदा सर्वं कैलासेनोपमान्वितम् ।

जातं च तपस्तस्यास्सिद्धिरूपमभूत्तदा

॥७१॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसं० तृतीये पार्वती० पार्वतीतपोव० नाम द्वाविंशोऽध्यायः ॥ २२ ॥