पार्वतीविवाहस्वीकारः
देवा ऊचुः
नमो रुद्राय देवाय मदनांतकराय च ।
स्तुत्याय भूरिभासाय त्रिनेत्राय नमोनमः
॥१॥शिपिविष्टाय भीमाय भीमाक्षाय नमोनमः ।
महादेवाय प्रभवे त्रिविष्टपतये नमः
॥२॥त्वं नाथः सर्वलोकानां पिता माता त्वमीश्वरः ।
शंभुरीशश्शंकरोसि दयालुस्त्वं विशेषतः
॥३॥त्वं धाता सर्वजगतां त्रातुमर्हसि नः प्रभो ।
त्वां विना कस्समर्थोस्ति दुःखनाशे महेश्वर
॥४॥ब्रह्मोवाच
इत्याकर्ण्य वचस्तेषां सुराणां नन्दिकेश्वरः ।
कृपया परया युक्तो विज्ञप्तुं शंभुमारभत्
॥५॥नंदिकेश्वर उवाच
विष्ण्वादयस्सुरगणा मुनिसिद्धसंघास्त्वां द्रष्टुमेव सुरवर्य्य विशेषयंति ।
कार्यार्थिनोऽसुरवरैः परिभर्त्स्य मानास्सम्यक् पराभवपदं परमं प्रपन्नाः
॥६॥तस्मात्त्वया हि सर्वेश त्रातव्या मुनयस्सुराः ।
दीनबंधुर्विशेषेण त्वमुक्तो भक्तवत्सलः
॥७॥ब्रह्मोवाच
एवं दयावता शंभुर्विज्ञप्तो नंदिना भृशम् ।
शनैश्शनैरुपरमद्ध्यानादुन्मील्य चाक्षिणी
॥८॥ईशोऽथोपरतश्शंभुस्तदा परमकोविदः ।
समाधेः परमात्मासौ सुरान्सर्वानुवाच ह
॥९॥शंभुरुवाच
कस्माद्यूयं समायाता मत्समीपं सुरेश्वरः ।
हरिब्रह्मादयस्सर्वे ब्रूत कारणमाशु तत्
॥१०॥ब्रह्मोवाच
इति श्रुत्वा वचश्शम्भोस्सर्वे देवा मुदाऽन्विताः ।
विष्णोर्विलोकयामासुर्मुखं विज्ञप्तिहेतवे
॥११॥अथ विष्णुर्महाभक्तो देवानां हितकारकः ।
मदीरितमुवाचेदं सुरकार्यं महत्तरम्
॥१२॥तारकेण कृतं शंभो देवानां परमाद्भुतम् ।
कष्टात्कष्टतरं देवा विज्ञप्तुं सर्व आगताः
॥१३॥हे शंभो तव पुत्रेणौरसेन हि भविष्यति ।
निहतस्तारको दैत्यो नान्यथा मम भाषितम्
॥१४॥विचार्य्येत्थं महादेव कृपां कुरु नमोऽस्तु ते ।
देवान्समुद्धर स्वामिन् कष्टात्तारकनिर्मितात्
॥१५॥तस्मात्त्वया गिरिजा देव शंभो ग्रहीतव्या पाणिना दक्षिणेन ।
पाणिग्रहेणैव महानुभावां दत्तां गिरींद्रेण च तां कुरुष्व
॥१६॥विष्णोस्तद्वचनं श्रुत्वा प्रसन्नो ह्यब्रवीच्छिवः ।
दर्शयन् सद्गतिं तेषां सर्वेषां योगतत्परः
॥१७॥शिव उवाच
यदा मे स्वीकृता देवी गिरिजा सर्वसुंदरी ।
तदा सर्वे सुरेंद्राश्च मुनयो ऋषयस्तदा
॥१८॥सकामाश्च भविष्यन्ति न क्षमाश्च परे पथि ।
जीवयिष्यति दुर्गा सा पाणिग्रहणतस्स्मरम्
॥१९॥मदनो हि मया दग्धस्सर्वेषां कार्य्यसिद्धये ।
ब्रह्मणो वचनाद्विष्णो नात्र कार्या विचारणा
॥२०॥एवं विमृश्य मनसा कार्याकार्यव्यवस्थितौ ।
सुधीः सर्वैश्च देवेंद्र हठं नो कर्तुमर्हसि
॥२१॥दग्धे कामे मया विष्णो सुरकार्यं महत् कृतम् ।
सर्वे तिष्ठंतु निष्कामा मया सह सुनिश्चितम्
॥२२॥यथाऽहं च सुरास्सर्वे तथा यूयमयत्नतः ।
तपः परमसंयुक्ताः करिष्यध्वं सुदुष्करम्
॥२३॥यूयं समाधिना तेन मदनेन विना सुराः ।
परमानंदसंयुक्ता निर्विकारा भवंतु वै
॥२४॥पुरावृत्तं स्मरकृतं विस्मृतं यद्विधे हरे ।
महेन्द्र मुनयो देवा यत्तत्सर्वं विमृश्यताम्
॥२५॥महाधनुर्धरेणैव मदनेन हठात्सुराः ।
सर्वेषां ध्यानविध्वंसः कृतस्तेन पुरापुरा
॥२६॥कामो हि नरकायैव तस्मात् क्रोधोभिजायते ।
क्रोधाद्भवति संमोहो मोहाच्च भ्रंशते तपः
॥२७॥कामक्रोधौ परित्याज्यौ भवद्भिस्सुरसत्तमैः ।
सर्वैरेव च मंतव्यं मद्वाक्यं नान्यथा क्वचित्
॥२८॥ब्रह्मोवाच
एवं विश्राव्य भगवान् महादेवो वृषध्वजः ।
सुरान् प्रवाचयामास विधिविष्णू तथा मुनीम्
॥२९॥तूष्णींभूतोऽभवच्छंभुर्ध्यानमाश्रित्य वै पुनः ।
आस्ते पुरा यथा स्थाणुर्गणैश्च परिवारितः
॥३०॥स्वात्मानमात्मना शंभुरात्मन्येव व्यचिंतयत् ।
निरंजनं निराभासं निर्विकारं निरामयम्
॥३१॥परात्परतरं नित्यं निर्ममं निरवग्रहम् ।
शब्दातीतं निर्गुणं च ज्ञानगम्यं परात्परम्
॥३२॥एवं स्वरूपं परमं चिंतयन् ध्यानमास्थितः ।
परमानंदसंमग्नो बभूव बहुसूतिकृत्
॥३३॥ध्यानस्थितं च सर्वेशं दृष्ट्वा सर्वे दिवौकसः ।
हरि शक्रादयस्सर्वे नंदिनं प्रोचुरानताः
॥३४॥देवा ऊचुः
किं वयं करवामाद्य विरक्तो ध्यानमास्थितः ।
शंभुस्त्वं शंकर सखस्सर्वज्ञः शुचिसेवकः
॥३५॥केनोपायेन गिरिशः प्रसन्नः स्याद्गणाधिप ।
तदुपायं समाचक्ष्व वयं त्वच्छरणं गताः
॥३६॥ब्रह्मोवाच
! इति विज्ञापितो देवैर्मुने हर्षादिभिस्तदा ।
प्रत्युवाच सुरांस्तान्स नंदी शंभुप्रियो गणः
॥३७॥नंदीश्वर उवाच
हे हरे हे विधे शक्रनिर्जरा मुनयस्तथा ।
शृणुध्वं वचनं मे हि शिवसंतोषकारकम्
॥३८॥यदि वो हठ एवाद्य शिव दारपरिग्रहे ।
अतिदीनतया सर्वे सुनुतिं कुरुतादरात्
॥३९॥भक्तेर्वश्यो महादेवो न साधारणतस्तुराः ।
अकार्यमपि सद्भक्त्या करोति परमेश्वरः
॥४०॥एवं कुरुत सर्वे हि विधिविष्णुमुखाः सुराः ।
यथागतेन मार्गेणान्यथा गच्छत मा चिरम्
॥४१॥ब्रह्मोवाच
इत्याकर्ण्य वचस्तस्य मुने विष्ण्वादयस्सुराः ।
तथेति मत्त्वा सुप्रीत्या शंकरं तुष्टुवुर्हि ते
॥४२॥देवदेव महादेव करुणासागर प्रभो ।
समुद्धर महाक्लेशात्त्राहि नश्शरणागतान्
॥४३॥ब्रह्मोवाच
इत्येवं बहुदीनोक्त्या तुष्टुवुश्शंकरं सुराः ।
रुरुदुस्सुस्वरं सर्वे प्रेमव्याकुलमानसः
॥४४॥हरिर्मया सुदीनोक्त्या सुविज्ञप्तं चकार ह ।
संस्मरन्मनसा शंभुं भक्त्या परमयान्वितः
॥४५॥ब्रह्मोवाच
सुरैरेवं स्तुतश्शंभुर्हरिणा च मया भृशम् ।
भक्तवात्सल्यतो ध्यानाद्विरतोभून्महेश्वरः
॥४६॥उवाच सुप्रसन्नात्मा हर्यादीन्हर्षयन्हरः ।
विलोक्य करुणादृष्ट्या शंकरो भक्तवत्सलः
॥४७॥शंकर उवाच
हे हरे हे विधे देवाश्शक्राद्या युगपत्समे ।
किमर्थमागता यूयं सत्यं ब्रूत ममाग्रतः
॥४८॥हरिरुवाच
सर्वज्ञस्त्वं महेशान त्वंतर्याम्यखिलेश्वरः ।
किं न जानासि चित्तस्थं तथा वच्म्यपि शासनात्
॥४९॥तारकासुरतो दुःखं संभूतं विविधं मृड ।
सर्वेषां नस्तदर्थं हि प्रसन्नोऽकारि वै सुरैः
॥५०॥शिवा सा जनिता शैलात्त्वदर्थं हि हिमालयात् ।
तस्यां त्वदुद्भवात्पुत्रात्तस्य मृत्युर्न चान्यथा
॥५१॥इति दत्तो ब्रह्मणा हि तस्मै दैत्याय यद्वरः ।
तदन्यस्मादमृत्युस्स बाधते निखिलं जगत्
॥५२॥नारदस्य निर्देशात्सा करोति कठिनं तपः ।
तत्तेजसाखिलं व्याप्तं त्रैलोक्यं सचराचरम्
॥५३॥वरं दातुं शिवायै हि गच्छ त्वं परमेश्वर ।
देवदुःखं जहि स्वामिन्नस्माकं सुखमावह
॥५४॥देवानां मे महोत्साहो हृदये चास्ति शंकर ।
विवाहं तव संद्रष्टुं तत्त्वं कुरु यथोचितम्
॥५५॥रत्यै यद्भवता दत्तो वरस्तस्य परात्पर ।
प्राप्तोऽवसर एवाशु सफलं स्वपणं कुरु
॥५६॥ब्रह्मोवाच
इत्युक्त्वा तं प्रणम्यैव विष्णुर्देवा महर्षयः ।
संस्तूय विविधैस्तोत्रैस्संतस्थुस्तत्पुरोऽखिलाः
॥५७॥भक्ताधीनः शंकरोऽपि श्रुत्वा देववचस्तदा ।
विहस्य प्रत्युवाचाशु वेदमर्यादरक्षकः
॥५८॥शंकर उवाच
हे हरे हे विधे देवाश्शृणुतादरतोऽखिलाः ।
यथोचितमहं वच्मि सविशेषं विवेकतः
॥५९॥नोचितं हि विधानं वै विवाहकरणं नृणाम् ।
महानिगडसंज्ञो हि विवाहो दृढबन्धनः ।
कुसंगा बहवो लोके स्त्रीसंगस्तत्र चाधिकः ।
उद्धरेत्सकलबंधैर्न स्त्रीसंगात्प्रमुच्यते
॥६१॥लोहदारुमयैः पाशैर्दृढं बद्धोऽपि मुच्यते ।
स्त्र्यादिपाशसुसंबद्धो मुच्यते न कदाचन
॥६२॥वर्द्धंते विषयाश्शश्वन्महाबंधनकारिणः ।
विषयाक्रांतमनसस्स्वप्ने मोक्षोऽपि दुर्लभः
॥६३॥सुखमिच्छतु चेत्प्राज्ञो विधिवद्विषयाँस्त्यजेत् ।
विषवद्विषयानाहुर्विषयैर्यैर्निहन्यते
॥६४॥जनो विषयिणा साकं वार्तातः पतति क्षणात् ।
विषयं प्राहुराचार्यास्सितालितेंद्रवारुणीम्
॥६५॥यद्यप्येवं हि जानामि सर्वं ज्ञानं विशेषतः ।
तथाप्यहं करिष्यामि प्रार्थनां सफलां च वः
॥६६॥भक्ताधीनोऽहमेवास्मि तद्वशात्सर्वकार्य कृत् ।
अयथोचितकर्ता हि प्रसिद्धो भुवनत्रये
॥६७॥कामरूपाधिपस्यैव पणश्च सफलः कृतः ।
सुदक्षिणस्य भूपस्य भैमबंधगतस्य हि
॥६८॥गौतमक्लेशकर्ताहं त्र्यंबकात्मा सुखावहः ।
तत्कष्टप्रददुष्टानां शापदायी विशेषतः
॥६९॥विषं पीतं सुरार्थं हि भक्तवत्सलभावधृक् ।
देवकष्टं हृतं यत्नात्सर्वदैव मया सुराः
॥७०॥भक्तार्थमसहं कष्टं बहुशो बहुयत्नतः ।
विश्वानर मुनेर्दुःखं हृतं गृहपतिर्भवन्
॥७१॥किं बहूक्तेन च हरे विधे सत्यं ब्रवीम्यहम् ।
मत्पणोऽस्तीति यूयं वै सर्वे जानीथ तत्त्वतः
॥७२॥यदा यदा विपत्तिर्हि भक्तानां भवति क्वचित् ।
तदा तदा हरम्याशु तत्क्षणात्सर्वशस्सदा
॥७३॥जानेऽहं तारकाद्दुःखं सर्वेषां वस्समुत्थितम् ।
असुरा त्तद्धरिष्यामि सत्यंसत्यं वदाम्यहम्
॥७४॥नास्ति यद्यपि मे काचिद्विहारकरणे रुचिः ।
विवाहयिष्ये गिरिजा पुत्रोत्पादनहेतवे
॥७५॥गच्छत स्वगृहाण्येव निर्भयास्सकलाः सुराः ।
कार्यं वस्साधयिष्यामि नात्र कार्या विचारणा
॥७६॥ब्रह्मोवाच
इत्युक्त्वा मौनमास्थाय समाधिस्थोऽभवद्धरः ।
सर्वे विष्ण्वादयो देवास्स्वधामानि ययुर्मुने
॥७७॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीविवाहस्वीकारो नाम चतुर्विशोऽध्यायः ॥ २४ ॥