देवगिरिमेलवर्णनम्
ब्रह्मोवाच
अथाकर्ण्य गिरीशश्च निजपुर्य्युपकण्ठतः ।
प्राप्तमीशं सर्वगं वै मुमुदेति हिमालयः
॥१॥अथ सम्भृतसम्भार स्सम्भाषां कर्तुमीश्वरम् ।
शैलान्प्रस्थापयामास ब्राह्मणानपि सर्वशः
॥२॥स्वयं जगाम सद्भक्त्या प्राणेप्सुन्द्रष्टुऽमीश्वरम् ।
भक्त्युद्रुतमनाश्शैलः प्रशंसन् स्वविधिम्मुदा
॥३॥देवसेनां तदा दृष्ट्वा हिमवान्वि स्मयं गतः ।
जगाम सम्मुखस्तत्र धन्योऽहमिति चिन्तयन्
॥४॥देवा हि तद्बलं दृष्ट्वा विस्मयम्परमं गताः ।
आनन्दम्परमम्प्रापुर्देवाश्च गिरयस्तथा
॥५॥पर्वतानां महासेना देवानां च तथा मुने ।
मिलित्वा विरराजेव पूर्वपश्चिमसागरौ
॥६॥परस्परं मिलित्वा ते देवाश्च पर्वतास्तथा ।
कृतकृत्यन्तथात्मानम्मेनिरे परया मुदा
॥७॥अथेश्वरम्पुरो दृष्ट्वा प्रणनाम हिमालयः ।
सर्वे प्रणेमुर्गिरयो ब्राह्मणाश्च सदाशिवम्
॥८॥वृषभस्थम्प्रसन्नास्यन्नानाभरणभूषितम् ।
दिव्यावयवलावण्यप्रकाशितदिगन्तरम्
॥९॥सुसूक्ष्माहतसत्पट्टवस्त्रशोभितविग्रहम् ।
सद्रत्नविलसन्मौलिं विहसन्तं शुचिप्रभम् ।
भूषाभूताहियुक्तांगमद्भुतावयवप्रभम् ।
दिव्यद्युतिं सुरेशैश्च सेवितं करचामरैः
॥११॥वामस्थिताच्युतन्दक्षभागस्थितविभुम्प्रभुम् ।
पृष्ठस्थितहरिं पृष्ठपार्श्वस्थितसुरादिकम्
॥१२॥नानाविधिसुराद्यैश्च संस्तुतं लोकशंकरम् ।
स्वहेत्वात्ततनुम्ब्रह्मसर्वेशं वरदायकम्
॥१३॥सगुणं निर्गुणं चापि भक्ताधीनं कृपाकरम् ।
प्रकृतेः पुरुषस्यापि परं सच्चित्सुखात्मकम्
॥१४॥प्रभोर्दक्षिणभागे तु ददर्श हरिमच्युतम् ।
विनतातनयारूढं नानाभूषणभूषितम्
॥१५॥प्रभोश्च वामभागे तु मुने मां सन्ददर्श ह ।
चतुर्मुखं महाशोभं स्वपरीवारसंयुतम्
॥१६॥एतौ सुरेश्वरौ दृष्ट्वा शिवस्याति प्रियौ सदा ।
प्रणनाम गिरीशश्च सपरीवार आदरात्
॥१७॥तथा शिवस्य पृष्ठे च पार्श्वयोस्तु विराजितान् ।
देवादीन्प्रणनामासौ दृष्ट्वा गिरिवरेश्वरः
॥१८॥शिवाज्ञया पुरो भूत्वा जगाम स्वपुरं गिरिः ।
शेषहर्यात्मभूश्शीघ्रं मुनिभिः निर्जरादिभिः
॥१९॥सर्वे मुनिसुराद्याश्च गच्छन्तः प्रभुणा सह ।
गिरेः पुरं समुदिताः शशंसुर्बहु नारद
॥२०॥रचिते शिखरे रम्ये संस्थाप्य देवतादिकम् ।
जगाम हिमवाँस्तत्र यत्रास्ति विधिवेदिका
॥२१॥कारयित्वा विशेषेण चतुष्कन्तो रणैर्युतम् ।
स्नानदानादिकं कृत्वा परीक्षामकरोत्तदा
॥२२॥स्वपुत्रान्प्रेषयामास शिवस्य निकटे तथा ।
हिमो विष्ण्वादिसम्पूर्णवर्गयुक्तस्य शैलराट्
॥२३॥कर्तुमेच्छद्वराचारं महोत्सवपुरस्सरम् ।
महाहर्षयुतस्सर्वबन्धुयुग्घिमशैलराट्
॥२४॥अथ ते गिरिपु त्राश्च तत्र गत्वा प्रणम्य तम् ।
सस्ववर्गं प्रार्थनान्तामूचुश्शैलेश्वरस्य वै
॥२५॥ततस्ते स्वालयं जग्मुश्शैलपुत्रास्तदाज्ञया ।
शैलराजाय संचख्युस्ते चायान्तीति हर्षिताः
॥२६॥अथ देवाः प्रार्थनान्तां गिरेः श्रुत्वातिहर्षिताः ।
मुने विष्ण्वादयस्सर्वे सेश्वरा मुमुदुर्भृशम्
॥२७॥कृत्वा सुवेषं सर्वेपि निर्जरा मुनयो गणाः ।
गमनं चक्रुरन्येपि प्रभुणा गिरिराड्गृहम्
॥२८॥तस्मिन्नवसरे मेना द्रष्टुकामाभवच्छिवम् ।
प्रभोराह्वाययामास मुने त्वां मुनिसत्तमम्
॥२९॥अगमस्त्वं मुने तत्र प्रभुणा प्रेरितस्तदा ।
मनसा शिवहृद्धेतुं पूर्णं कर्तुं तमिच्छता
॥३०॥त्वाम्प्रणम्य मुने मेना प्राह विस्मितमानसा ।
द्रष्टुकामा प्रभो रूपं शंकरस्य मदापहम्
॥३१॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायान्तृतीये पार्वतीखण्डे देवगिरिमेलवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥