मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पार्वतीखण्डः, अध्याय ३८

3
रुद्रसंहिता · पार्वतीखण्डः · 38

स्वपुरं रचयामास विचित्रं परमोत्सवम्

ब्रह्मोवाच

अथ शैलेश्वरः प्रीतो हिमवान्मुनि सत्तम ।

स्वपुरं रचयामास विचित्रं परमोत्सवम्

॥१॥

सिक्तमार्गं संस्कृतं च शोभितं परमर्द्धिभिः ।

द्वारि द्वारि च रम्भादि मङ्गलं द्रव्यसंयुतम्

॥२॥

प्रांगणं रचयामास रम्भास्तंभसमन्वितम् ।

पट्टसूत्रैस्संनिबद्धरसालपल्लवान्वितम्

॥३॥

मालतीमाल्यसंयुक्तं लसत्तोरणसुप्रभम् ।

शोभितम्मंगलद्रव्यैश्चतुर्दिक्षु स्थितैश्शुभैः

॥४॥

तथैव सर्वं परया मुदान्वितश्चक्रे गिरीन्द्रस्स्वसुतार्थमेव ।

गर्गम्पुरस्कृत्य महाप्रभावं प्रस्तावयोग्यं च सुमंगलं हि

॥५॥

आहूय विश्वकर्माणं कारयामास सादरम् ।

मण्डपं च सुविस्तीर्णं वेदिकादिमनोहरम्

॥६॥

अयुतेन सुरर्षे तद्योजनानां च विस्तृतम् ।

अनेकलक्षणोपेतं नानाश्चर्य्यसमन्वितम् ।

स्थावरं जंगमं सर्वं सदृशन्तैर्मनोहरम् ।

सर्वतोऽद्भुतसर्वत्वं नानावस्तुचमत्कृतम्

॥८॥

जंगमं विजितन्तत्र स्थावरेण विशेषतः ।

जंगमेन च तत्रासीज्जितं स्थावरमेव हि

॥९॥

पयसा च जिता तत्र स्थलभूमिर्न चान्यथा ।

जलं किं हि स्थलं किं हि न विदुः केऽपि कोविदाः

॥१०॥

क्वचित्सिंहाः कृत्रिमाश्च क्वचित्सारसपंक्तयः ।

क्वचिच्छिखण्डिनस्तत्र कृत्रिमाश्च मनोहराः

॥११॥

क्वचित्स्त्रियः कृत्रिमाश्च नृत्यन्त्यः पुरुषैस्सह ।

मोहयन्त्यो जनान्सर्वान्पश्यन्त्यः कृत्रिमास्तथा

॥१२॥

तथा तेनैव विधिना द्वारपाला मनोहराः ।

हस्तैर्धनूंषि चोद्धृत्य स्थावरा जंगमोपमाः

॥१३॥

द्वारि स्थिता महालक्ष्मीः कृत्रिमा रचिताद्भुता ।

सर्वलक्षणसंयुक्ता गताः साक्षत्पयोर्णवात

॥१४॥

गजाश्चालङ्कृता ह्यासन्कृत्रिमा अकृतोपमाः ।

तथाश्वाः न सादिभिश्चैव गजाश्च गजसादिभिः

॥१५॥

रथा रथिभिराकृष्टा महाश्चर्यसमन्विताः ।

वाहनानि तथान्यानि पत्तयः कृत्रिमास्तथा

॥१६॥

एवं विमोहनार्थन्तु कृतं वै विश्वकर्मणा ।

देवानां च मुनीनां च तेन प्रीतात्मना मुने

॥१७॥

महाद्वारि स्थितौ नन्दी कृत्रिमश्च कृतो मुने ।

शुद्धस्फटिकसंकाशो यथा नन्दी तथैव सः ।

तस्योपरि महादिव्यम्पुष्पकं रत्नभूषितम् ।

राजितं पल्लवैश्शुभ्रश्चामरैश्च सुशोभितम्

॥१९॥

वामपार्श्वे गजौ द्वौ च शुद्धकाश्मीरसन्निभौ ।

चतुर्दन्तो षष्टिवर्षौ भेदमानौ महाप्रभौ

॥२०॥

तथैवार्कनिभौ तेन कृतौ चाश्वौ महाप्रभौ ।

चामरालंकृतौ दिव्यौ दिव्यालङ्कारभूषितौ

॥२१॥

दंशिता वररत्नाढ्या लोकपालास्तथैव च ।

सर्वे देवा यथार्थं वै कृता वै विश्वकर्मणा

॥२२॥

तथा हि ऋषयस्सर्वे भृग्वाद्याश्च तपोधनाः ।

अन्ये ह्युपसुरास्तद्वत्सिद्धाश्चान्येऽपि वै कृताः

॥२३॥

विष्णुश्च पार्षदैस्सर्वैर्गरुडाख्यैस्समन्वितः ।

कृत्रिमो निर्मितस्तद्वत्परमाश्चर्यरूपवान्

॥२४॥

तथैवाहं सुतैवेदैस्सिद्धैश्च परिवारितः ।

कृत्रिमो निर्मितस्तद्वत्पठन्सूक्तानि नारद

॥२५॥

ऐरावतगजारूढश्शक्रस्स्वदलसंयुतः ।

कृत्रिमो निर्मितस्तद्वत्परिपूर्णेन्दुसंनिभः

॥२६॥

किं बहूक्तेन देवर्षे सर्वो वै विश्वकर्मणा ।

हिमागप्रेरितेनाशु क्लृप्तस्सुरसमाजकः

॥२७॥

एवंभूतः कृतस्तेन मण्डपो दिव्यरूपवान् ।

अनेकाश्चर्यसम्भूतो महान्देवविमोहनः

॥२८॥

अथाज्ञप्तो गिरीशेन विश्वकर्मा महामतिः ।

निवासार्थं सुरादीनां तत्तल्लोकाम् हि यत्नतः

॥२९॥

तत्रैव च महामञ्चाः सुप्रभाः परमाद्भुताः ।

रचितास्सुखदा दिव्या स्तेषां वै विश्वकर्मणा

॥३०॥

तथाप्तसप्तलोकं वै विरेचे क्षणतोऽद्भुतम् ।

दीप्त्या परमया युक्तं निवासार्थं स्वयम्भुवः

॥३१॥

तथैव विष्णोस्त्वपरं वैकुण्ठाख्यं महोज्ज्वलम् ।

विरेचे क्षणतो दिव्यं नानाश्चर्यसमन्वितम्

॥३२॥

अमरेशगृहन्दिव्यं तथैवाद्भुतमुत्तमम् ।

विरेचे विश्वकर्मासौ सर्वैश्वर्यसमन्वितम्

॥३३॥

गृहाणि लोकपालानां विरेचे सुन्दराणि च ।

तद्वत्स प्रीतितो दिव्यान्यद्भुतानि महान्ति च

॥३४॥

अन्येषाममराणां च सर्वेषां क्रमशस्तथा ।

सदनानि विचित्राणि रचितानि च तेन वै

॥३५॥

विश्वकर्मा महाबुद्धिः प्राप्तशम्भुमहावरः ।

विरेचे क्षणतः सर्वं शिवतुष्ट्यर्थमेव च

॥३६॥

तथैव चित्रं परमं महोज्ज्वलं महाप्रभन्देववरैस्सुपूजितम् ।

गिरीशचिह्नं शिवलोकसंस्थितं सुशोभितं शम्भुगृहं चकार

॥३७॥

एवम्भूता कृता तेन रचना विश्वकर्मणा ।

विचित्रा शिवतुष्ट्यर्थं पराश्चर्या महोज्ज्वला

॥३८॥

एवं कृत्वाखिलं चेदं व्यवहारं च लौकिकम् ।

पर्य्यैक्षिष्ट मुदा शम्भ्वागमनं स हिमाचलः

॥३९॥

इति प्रोक्तमशेषेण वृत्तान्तम्प्रमुदावहम् ।

हिमालयस्य देवर्षे किम्भूयः श्रोतुमिच्छसि

॥४०॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे मण्डपादिरचनावर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ३८ ॥