पार्वतीपरमेश्वरसंवादवर्णनम्
भवान्युवाच
किमुक्तं गिरिराजाय त्वया योगिस्तपस्विना ।
तदुत्तरं शृणु विभो मत्तो ज्ञानिविशारद
॥१॥तपश्शक्त्यान्वितश्शम्भो करोषि विपुलं तपः ।
तव बुद्धिरियं जाता तपस्तप्तुं महात्मनः
॥२॥सा शक्तिः प्रकृतिर्ज्ञेया सर्वेषामपि कर्मणाम् ।
तया विरच्यते सर्वं पाल्यते च विनाश्यते
॥३॥कस्त्वं का प्रकृतिस्सूक्ष्मा भगवंस्तद्विमृश्यताम् ।
विना प्रकृत्या च कथं लिंगरूपी महेश्वरः
॥४॥अर्चनीयोऽसि वंद्योऽसि ध्येयोऽसि प्राणिनां सदा ।
प्रकृत्या च विचार्येति हृदा सर्वं तदुच्यताम्
॥५॥ब्रह्मोवाच
पार्वत्यास्तद्वचः श्रुत्वा महोतिकरणे रतः ।
सुविहस्य प्रसन्नात्मा महेशो वाक्यमब्रवीत्
॥६॥महेश्वर उवाच
तपसा परमेणेव प्रकृतिं नाशयाम्यहम् ।
प्रकृत्या रहितश्शम्भुरहं तिष्ठामि तत्त्वतः
॥७॥तस्माच्च प्रकृतेस्सद्भिर्न कार्यस्संग्रहः क्वचित् ।
स्थातव्यं निर्विकारैश्च लोकाचार विवर्जितैः
॥८॥ब्रह्मोवाच
इत्युक्ता शम्भुना तात लौकिकव्यवहारतः ।
सुविहस्य हृदा काली जगाद मधुरं वचः
॥९॥काल्युवाच
यदुक्तं भवता योगिन्वचनं शंकर प्रभो ।
सा च किं प्रकृतिर्न स्यादतीतस्तां भवान्कथम् ।
एतद्विचार्य वक्तव्यं तत्त्वतो हि यथातथम् ।
प्रकृत्या सर्वमेतच्च बद्धमस्ति निरंतरम्
॥११॥तस्मात्त्वया न वक्तव्यं न कार्यं किंचिदेव हि ।
वचनं रचनं सर्वं प्राकृतं विद्धि चेतसा
॥१२॥यच्छृणोषि यदश्नासि यत्पश्यसि करोषि यत् ।
तत्सर्वं प्रकृतेः कार्यं मिथ्यावादो निरर्थकः
॥१३॥प्रकृतेः परमश्चेत्त्वं किमर्थं तप्यसे तपः ।
त्वया शंभोऽधुना ह्यस्मिन्गिरौ हिमवति प्रभो
॥१४॥प्रकृत्या गिलितोऽसि त्वं न जानासि निजं हर ।
निजं जानासि चेदीश किमर्थं तप्यसे तपः
॥१५॥वाग्वादेन च किं कार्यं मम योगिस्त्वया सह ।
प्रत्यक्षे ह्यनुमानस्य न प्रमाणं विदुर्बुधाः
॥१६॥इंद्रियाणां गोचरत्वं यावद्भवति देहिनाम् ।
तावत्सर्वं विमंतव्यं प्राकृतं ज्ञानिभिर्धिया
॥१७॥किं बहूक्तेन योगीश शृणु मद्वचनं परम् ।
सा चाहं पुरुषोऽसि त्वं सत्यं सत्यं न संशयः
॥१८॥मदनुग्रहतस्त्वं हि सगुणो रूपवान्मतः ।
मां विना त्वं निरीहोऽसि न किंचित्कर्तुमर्हसि
॥१९॥पराधीनस्सदा त्वं हि नानाकर्म्मकरो वशी ।
निर्विकारी कथं त्वं हि न लिप्तश्च मया कथम्
॥२०॥प्रकृतेः परमोऽसि त्वं यदि सत्यं वचस्तव ।
तर्हि त्वया न भेतव्यं समीपे मम शंकर
॥२१॥ब्रह्मोवाच
इत्याकर्ण्य वचस्तस्याः सांख्यशास्त्रोदितं शिवः ।
वेदांतमतसंस्थो हि वाक्यमूचे शिवां प्रति
॥२२॥श्रीशिव उवाच
इत्येवं त्वं यदि ब्रूषे गिरिजे सांख्यधारिणी ।
प्रत्यहं कुरु मे सेवामनिषिद्धां सुभाषिणि
॥२३॥यद्यहं ब्रह्म निर्लिप्तो मायया परमेश्वरः ।
वेदांतवेद्यो मायेशस्त्वं करिष्यसि किं तदा
॥२४॥ब्रह्मोवाच
इत्येवमुक्त्वा गिरिजां वाक्यमूचे गिरिं प्रभुः ।
भक्तानुरंजनकरो भक्तानुग्रहकारकः
॥२५॥शिव उवाच
अत्रैव सोऽहं तपसा परेण गिरे तव प्रस्थवरेऽतिरम्ये ।
चरामि भूमौ परमार्थभावस्वरूपमानंदमयं सुलोचयन्
॥२६॥तपस्तप्तुमनुज्ञा मे दातव्या पर्वताधिप ।
अनुज्ञया विना किंचित्तपः कर्तुं न शक्यते
॥२७॥ब्रह्मोवाच
एतच्छ्रुत्वा वचस्तस्य देवदेवस्य शूलिनः ।
प्रणम्य हिमवाञ्छंभुमिदं वचनमब्रवीत्
॥२८॥हिमवानुवाच
त्वदीयं हि जगत्सर्वं सदेवासुरमानुषम् ।
किमप्यहं महादेव तुच्छो भूत्वा वदामि ते
॥२९॥ब्रह्मोवाच
एवमुक्तो हिमवता शंकरो लोकशंकरः ।
विहस्य गिरिराजं तं प्राह याहीति सादरम्
॥३०॥शंकरेणाभ्यनुज्ञातस्स्वगृहं हिमवान्ययौ ।
सार्द्धं गिरिजया वै स प्रत्यहं दर्शने स्थितः
॥३१॥पित्रा विनापि सा काली सखीभ्यां सह नित्यशः ।
जगाम शंकराभ्याशं सेवायै भक्तितत्परा
॥३२॥निषिषेध न तां कोऽपि गणो नंदीश्वरादिकः ।
महेशशासनात्तात तच्छासनकरश्शुचिः
॥३३॥सांख्यवेदांतमतयोश्शिवयोश्शि वदस्सदा ।
संवादः सुखकृच्चोक्तोऽभिन्नयोस्सुविचारतः
॥३४॥गिरिराजस्य वचनात्तनयां तस्य शंकरः ।
पार्श्वे समीपे जग्राह गौरवादपि गोपरः
॥३५॥उवाचेदं वचः कालीं सखीभ्यां सह गोपतिः ।
नित्यं मां सेवतां यातु निर्भीता ह्यत्र तिष्ठतु
॥३६॥एवमुक्त्वा तु तां देवीं सेवायै जगृहे हरः ।
निर्विकारो महायोगी नानालीलाकरः प्रभुः
॥३७॥इदमेव महद्धैर्य्यं धीराणां सुतपस्विनाम् ।
विघ्रवन्त्यपि संप्राप्य यद्विघ्नैर्न विहन्यते
॥३८॥ततः स्वपुरमायातो गिरिराट् परिचारकैः ।
मुमोदातीव मनसि सप्रियस्स मुनीश्वर
॥३९॥हरश्च ध्यानयोगेन परमात्मानमादरात् ।
निर्विघ्नेन स्वमनसा त्वासीच्चिंतयितुं स्थितः
॥४०॥काली सखीभ्यां सहिता प्रत्यहं चंद्रशेखरम् ।
सेवमाना महादेवं गमनागमने स्थिता
॥४१॥प्रक्षाल्य चरणौ शंभोः पपौ तच्चरणोदकम् ।
वह्निशौचैन वस्त्रेण चक्रे तद्गात्रमार्जनम्
॥४२॥षोडशेनोपचारेण संपूज्य विधिवद्धरम् ।
पुनःपुनः सुप्रणम्य ययौ नित्यं पितुर्गृहम्
॥४३॥एवं संसेवमानायां शंकरं ध्यानतत्परम् ।
व्यतीयाय महान्कालश्शिवाया मुनिसत्तम
॥४४॥कदाचित्सहिता काली सखीभ्यां शंकराश्रमे ।
वितेने सुंदरं गानं सुतालं स्मरवर्द्धनम्
॥४५॥कदाचित्कुशपुष्पाणि समिधं नयति स्वयम् ।
सखीभ्यां स्थानसंस्कारं कुर्वती न्यवसत्तदा
॥४६॥कदाचिन्नियता गेहे स्थिता चन्द्रभृतो भ्रृशम् ।
वीक्षंती विस्मयामास सकामा चन्द्रशेखरम्
॥४७॥ततस्तप्तेन भूतेशस्तां निस्संगां परिस्थिताम् ।
सोऽचिंतयत्तदा वीक्ष्य भूतदेहे स्थितेति च
॥४८॥नाग्रहीद्गिरिशः कालीं भार्यार्थे निकटे स्थिताम् ।
महालावण्यनिचयां मुनीनामपि मोहिनीम्
॥४९॥महादेवः पुनर्दृष्ट्वा तथा तां संयतेद्रियाम् ।
स्वसेवने रतां नित्यं सदयस्समचिंतयत्
॥५०॥यदैवैषा तपश्चर्याव्रतं काली करिष्यति ।
तदा च तां ग्रहीष्यामि गर्वबीजविवर्जिताम्
॥५१॥ब्रह्मोवाच
इति संचिन्त्य भूतेशो द्रुतं ध्यानसमाश्रितः ।
महयोगीश्वरोऽभूद्वै महालीलाकरः प्रभुः
॥५२॥ध्यानासक्तस्य तस्याथ शिवस्य परमात्मनः ।
हृदि नासीन्मुने काचिदन्या चिंता व्यवस्थिता
॥५३॥काली त्वनुदिनं शंभुं सद्भक्त्या समसेवत ।
विचिंतयंती सततं तस्य रूपं महात्मनः ।
हरो ध्यानपरः कालीं नित्यं प्रैक्षत सुस्थितम् ।
विस्मृत्य पूर्वचिंतां तां पश्यन्नपि न पश्यति
॥५५॥एतस्मिन्नंतरे देवाश्शक्राद्या मुनयश्च ते ।
ब्रह्माज्ञया स्मरं तत्र प्रेषयामासुरादरात्
॥५६॥तेन कारयितुं योगं काल्या रुद्रेण कामतः ।
महावीर्येणासुरेण तारकेण प्रपीडिताः
॥५७॥गत्वा तत्र स्मरस्सर्वमुपायमकरोन्निजम् ।
चुक्षुभे न हरः किञ्चित्तं च भस्मीचकार ह
॥५८॥पार्वत्यपि विगर्वाभून्मुने तस्य निदेशतः ।
ततस्तपो महत्कृत्वा शिवं प्राप पतिं सती
॥५९॥बभूवतुस्तौ सुप्रीतौ पार्वतीपरमेश्वरौ ।
चक्रतुर्देवकार्य्यं हि परोपकरणे रतौ
॥६०॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे पार्वतीपरमेश्वरसंवादवर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥