मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पार्वतीखण्डः, अध्याय ५१

3
रुद्रसंहिता · पार्वतीखण्डः · 51

तस्मिन्नवसरे ज्ञात्वानुकूलं समयं रतिः

ब्रह्मोवाच

तस्मिन्नवसरे ज्ञात्वानुकूलं समयं रतिः ।

सुप्रसन्ना च तम्प्राह शङ्करं दीनवत्सलम्

॥१॥

रतिरुवाच

गृहीत्वा पार्वतीं प्राप्तं सौभाग्यमतिदुर्लभम् ।

किमर्थं प्राणनाथो मे निस्स्वार्थं भस्मसात्कृतः

॥२॥

जीवयात्रा पतिं मे हि कामव्या पारमात्मनि ।

कुरु दूरं च सन्तापं समविश्लेषहेतुकम्

॥३॥

विवाहोत्सव एतस्मिन् सुखिनो निखिला जनाः ।

अहमेका महेशान दुःखिनी स्वपतिम्विना

॥४॥

सनाथां कुरु मान्देव प्रसन्नो भव शङ्कर ।

स्वोक्तं सत्यम्विधेहि त्वं दीनबन्धो पर प्रभो

॥५॥

त्वाम्विना कस्समर्थोत्र त्रैलोक्ये सचराचरे ।

नाशने मम दुःखस्य ज्ञात्वेति करुणां कुरु

॥६॥

सोत्सवे स्वविवाहेऽस्मिन्सर्वानन्द प्रदायिनी ।

सोत्सवामपि मां नाथ कुरु दीनकृपाकर

॥७॥

जीविते मम नाथे हि पार्वत्या प्रियया सह ।

सुविहारः प्रपूर्णश्च भविष्यति न संशयः

॥८॥

सर्वं कर्तुं समर्थोसि यतस्त्वं परमेश्वरः ।

किम्बहूक्त्यात्र सर्वेश जीवयाशु पतिं मम

॥९॥

ब्रह्मोवाच

तदित्युक्त्वा कामभस्म ददौ सग्रन्धिबन्धनम् ।

रुरोद पुरतश्शम्भोर्नाथ नाथेत्युदीर्य्य च

॥१०॥

रतिरोदनमाकर्ण्य सरस्वत्यादयः स्त्रियः ।

रुरुदुस्सकला देव्यः प्रोचुर्दीनतरं वचः

॥११॥

देव्य ऊचुः

भक्तवत्सलनामा त्वं दीनबन्धुर्दयानिधिः ।

काम जीवय सोत्साहां रति कुरु नमोऽस्तु ते

॥१२॥

ब्रह्मोवाच

इति तद्वचनं श्रुत्वा प्रसन्नोऽभून्महेश्वरः ।

कृपादृष्टिं चकाराशु करुणासागरः प्रभुः

॥१३॥

सुधादृष्ट्या शूलभृतो भस्मतो निर्गतः स्मरः ।

तद्रूपवेषचिह्नात्मा सुन्दरोद्भुतमूर्तिमान्

॥१४॥

तद्रूपश्च तदाकारसंस्मितं सधनुश्शरम् ।

दृष्ट्वा पतिं रतिस्तं च प्रणनाम महेश्वरम्

॥१५॥

कृतार्थाभूच्छिवं देवं तुष्टाव च कृताञ्जलिः ।

प्राणनाथप्रदं पत्या जीवितेन पुनःपुनः

॥१६॥

कामस्य स्तुतिमाकर्ण्य सनारीकस्य शङ्करः ।

प्रसन्नोऽभवदत्यंतमुवाच करुणार्द्रधीः

॥१७॥

शङ्कर उवाच

प्रसन्नोहं तव स्तुत्या सनारीकस्य चित्तज ।

स्वयंभव वरम्बूहि वाञ्छितं तद्ददामि ते

॥१८॥

ब्रह्मोवाच

इति शम्भुवचः श्रुत्वा महानदन्स्स्मरस्ततः ।

उवाच साञ्जलिर्नम्रो गद्गदाक्षरया गिरा

॥१९॥

काम उवाच

देवदेव महादेव करुणासागर प्रभो ।

यदि प्रसन्नस्सर्वेशः ममानन्दकरो भव

॥२०॥

क्षमस्व मेऽपराधं हि यत्कृतश्च पुरा प्रभो ।

स्वजनेषु पराम्प्रीतिं भक्तिन्देहि स्वपादयोः

॥२१॥

ब्रह्मोवाच

इत्याकर्ण्य स्मरवचः प्रसन्नः परमेश्वरः ॐ मित्युक्त्वाऽब्रवीत्तं वै विहसन्करुणानिधिः

॥२२॥

ईश्वर उवाच

हे कामाहं प्रसन्नोऽस्मि भयन्त्यज महामते ।

गच्छ विष्णुसमीपञ्च बहिस्थाने स्थितो भव

॥२३॥

ब्रह्मोवाच

तच्छ्रुत्वा शिरसा नत्वा परिक्रम्य स्तुवन्विभुम् ।

बहिर्गत्वा हरिन्देवान्प्रणम्य समुपास्त सः

॥२४॥

कामं सम्भाष्य देवाश्च ददुस्तस्मै शुभाशिषम् ।

विष्ण्वादयः प्रसन्नास्ते प्रोचुः स्मृत्वा शिवं हृदि

॥२५॥

देवा ऊचुः

धन्यस्त्वं स्मर सन्दग्धः शिवेनानुग्रहीकृतः ।

जीवयामास सत्त्वांशकृपादृष्ट्या खिलेश्वरः

॥२६॥

सुखदुःखदो न चान्योऽस्ति यतस्स्वकृतभृक् पुमान् ।

काले रक्षा विवाहश्च निषेकः केन वार्यते

॥२७॥

ब्रह्मोवाच

इत्युक्त्वा ते च सम्मान्य तं सुखेनामरास्तदा ।

सन्तस्थुस्तत्र विष्ण्वाद्यास्सर्वे लब्धमनोरथाः

॥२८॥

सोपि प्रमुदितस्तत्र समुवास शिवाज्ञया ।

जयशब्दो नमश्शब्दस्साधुशब्दो बभूव ह

॥२९॥

ततश्शम्भुर्वासगेहे वामे संस्थाप्य पार्वतीम् ।

मिष्टान्नं भोजयामास तं च सा च मुदान्विता

॥३०॥

अथ शम्भुर्भवाचारी तत्र कृत्यम्विधाय तत् ।

मेनामामंत्र्य शैलं च जनवासं जगाम सः

॥३१॥

महोत्सवस्तदा चासीद्वेदध्वनिरभून्मुने ।

वाद्यानि वादयामासुर्जनाश्चतुर्विधानि च

॥३२॥

शम्भुरागत्य स्वस्थानं ववन्दे च मुनींस्तदा ।

हरिं च मां भवाचाराद्वन्दितोऽभूत्सुरादिभिः

॥३३॥

जयशब्दो बभूवाथ नम श्शब्दस्तथैव च ।

वेदध्वनिश्च शुभदः सर्वविघ्नविदारणः

॥३४॥

अथ विष्णुरहं शक्रस्सर्वे देवाश्च सर्षयः ।

सिद्धा उपसुरा नागास्तुष्टुवुस्ते पृथक्पृथक्

॥३५॥

देवा ऊचुः

जय शम्भोऽखिलाधार जय नाम महेश्वर ।

जय रुद्र महादेव जय विश्व म्भर प्रभो

॥३६॥

जय कालीपते स्वामिञ्जयानन्दप्रवर्धक ।

जय त्र्यम्बक सर्वेश जय मायापते विभो

॥३७॥

जय निर्गुण निष्काम कारणातीत सर्वग ।

जय लीलाखिलाधार धृतरूप नमोऽस्तु ते

॥३८॥

जय स्वभक्तसत्कामप्रदेश करुणाकर ।

जय सानन्दसद्रूप जय मायागुणाकृते

॥३९॥

जयोग्र मृड सर्वात्मन् दीनबन्धो दयानिधे ।

जयाविकार मायेश वाङ्मनोतीतविग्रह

॥४०॥

ब्रह्मोवाच

इति स्तुत्वा महेशानं गिरिजानायकम्प्रभुम् ।

सिषेविरे परप्रीत्या विष्ण्वाद्यास्ते यथोचितम्

॥४१॥

अथ शम्भुर्महेशानो लीलात्ततनुरीश्वरः ।

ददौ मानवरन्तेषां सर्वेषान्तत्र नारद

॥४२॥

विष्ण्वाद्यास्तेऽखिलास्तात प्राप्याज्ञाम्परमेशितुः ।

अतिहृष्टाः प्रसन्नास्याः स्वस्थानञ्जग्मुरादृताः

॥४३॥

इति श्रीशिवमहापुराणे ब्रह्मनारदसम्वादे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे कामसंजीवनवर्णनं नामैकपञ्चाशत्तमोऽध्यायः ॥ ५१ ॥