शिवाद्भुतलीलावर्णनम्
मेनोवाच
निरीक्षिष्यामि प्रथमं मुने तं गिरिजापतिम् ।
कीदृशं शिवरूपं हि यदर्थे तप उत्तमम्
॥१॥ब्रह्मोवाच
इत्यज्ञानपरा सा च दर्शनार्थं शिवस्य च ।
त्वया मुने समं सद्यश्चन्द्रशालां समागता
॥२॥शिवोऽपि च तदा तस्यां ज्ञात्वाहंकारमात्मनः ।
प्राह विष्णुं च मान्तात लीलाकृत्वाद्भुताम्प्रभुः
॥३॥शिव उवाच
मदाज्ञया युवान्तातौ सदेवौ च पृथक्पृथक् ।
गच्छतं हि गिरिद्वारं वयं पश्चाद्व्रजेमहि
॥४॥ब्रह्मोवाच
इत्याकर्ण्य हरिस्सर्वानाहूयोवाच तन्मयाः ।
सुरास्सर्वे तथैवाशु गमनं चक्रुरुत्सुकाः
॥५॥स्थितां शिरोगृहे मेनां मुने विश्वेश्वर त्वया ।
तथैव दर्शयामास हृद्विभ्रंशो यथा भवेत्
॥६॥एतस्मिन्समये मेना सेनां च परमां शुभाम् ।
निरीक्षन्ती मुने दृष्ट्वा सामान्यं हर्षिताऽभवत्
॥७॥प्रथमं चैव गन्धर्वास्सुन्दरास्सुभगास्तदा ।
आयाताश्शुभवस्त्राढ्या नानालंकारभूषिताः
॥८॥नानावाहनसंयुक्ता नानावाद्यपरा यणा ।
पताकाभिर्विचित्राभिरप्सरोगणसंयुताः
॥९॥अथ दृष्ट्वा वसुं तत्र तत्पतिं परमप्रभुम् ।
मेना प्रहर्षिता ह्यासीच्छिवोयमिति चाब्रवीत्
॥१०॥शिवस्य गणका एते न शिवोयं शिवापतिः ।
इत्येवं त्वं ततस्तां वै अवोच ऋषिसत्तम
॥११॥एवं श्रुत्वा तदा मेना विचारे तत्पराऽभवत् ।
इतश्चाभ्यधिको यो वै स च कीदृग्भविष्यति
॥१२॥एतस्मिन्नन्तरे यक्षा मणिग्रीवादयश्च ये ।
तेषां सेना तया दृष्टा शोभादिद्विगुणीकृता
॥१३॥तत्पतिं च मणिग्रीवं दृष्ट्वा शोभान्वितं हि सा ।
अयं रुद्रश्शिवास्वामी मेना प्राहेति हर्षिता
॥१४॥नायं रुद्रश्शिवास्वामी सेवकोयं शिवस्य वै ।
इत्यवोचोगपत्न्यै त्वं तावद्वह्निस्स आगतः
॥१५॥ततोऽपि द्विगुणां शोभां दृष्ट्वा तस्य च साब्रवीत् ।
रुद्रोऽयं गिरिजास्वामी तदा नेति त्वमब्रवीः
॥१६॥तावद्यमस्समायातस्ततोऽपि द्विगुणप्रभः ।
तं दृष्ट्वा प्राह सा मेना रुद्रोऽयमिति हर्षिता
॥१७॥नेति त्वमब्रवीस्तां वै तावन्निर्ऋतिरागतः ।
बिभ्राणो द्विगुणां शोभां शुभः पुण्यजनप्रभुः
॥१८॥तं दृष्ट्वा प्राह सा मेना रुद्रोऽयमिति हर्षिता ।
नेति त्वमब्रवीस्तां वै तावद्वरुण आगतः
॥१९॥ततोऽपि द्विगुणां शोभां दृष्ट्वा तस्य च साब्रवीत् ।
रुद्रोऽयं गिरिजास्वामी तद्वा नेति त्वमब्रवीः
॥२०॥तावद्वायुस्समायातस्ततोऽपि द्विगुणप्रभः ।
तं दृष्ट्वा प्राह सा मेना रुद्रोयमिति हर्षिता
॥२१॥नेति त्वमब्रवीस्तां वै तावद्धनद आगतः ।
ततोऽपि द्विगुणां शोभां बिभ्राणो गुह्यकाधिपः
॥२२॥तं दृष्ट्वा प्राह सा मेना रुद्रोऽयमिति हर्षिता ।
नेति त्वमब्रवीस्तां वै तावदीशान आगतः
॥२३॥ततोऽपि द्विगुणां शोभां दृष्ट्वा तस्य च साब्रवीत् ।
रुद्रोऽयं गिरिजास्वामी तदा नेति त्वमब्रवीः
॥२४॥तावदिन्द्रस्समायातस्ततोऽपि द्विगुणप्रभः ।
सर्वामरवरो नानादिव्यभस्त्रिदिवेश्वरः
॥२५॥तं दृष्ट्वा शंकरस्सोऽयमिति सा प्राह मेनका ।
शक्रस्सुरपतिश्चायं नेति त्वं तदाब्रवीः
॥२६॥तावच्चन्द्रस्समायातश्शोभा तद्द्विगुणा दधत ।
दृष्ट्वा तं प्राह रुद्रोऽयं तां तु नेति त्वमब्रवीः
॥२७॥तावत्सूर्यस्समायातश्शोभा तद्द्विगुणा दधत् ।
दृष्ट्वा तं प्राह सा सोयन्तांतु नेति त्वमब्रवीः
॥२८॥तावत्समागतास्तत्र भृग्वाद्याश्च मुनीश्वराः ।
तेजसो राशयस्सर्वे स्वशिष्यगणसंयुताः
॥२९॥तन्मध्ये चैव वागीशं दृष्ट्वा सा प्राह मेनका ।
रुद्रोऽयं गिरिजास्वामी तदा नेति त्वमब्रवीः
॥३०॥तावद्ब्रह्मा समायातस्तेजसां गशिरुत्तमः ।
सर्षिवर्य्यसुतस्साक्षाद्धर्मपुंज इव स्तुतः ।
दृष्ट्वा सा तं तदा मेना महाहर्षवती मुने ।
सोऽयं शिवापतिः प्राह तां तु नेति त्वमब्रवीः
॥३२॥एतस्मिन्नन्तरे तत्र विष्णुर्देवस्समागतः ।
सर्वशोभान्वितः श्रीमान्मेघश्यामश्चतुर्भुजः
॥३३॥कोटिकन्दर्प्यलावण्यः पीताम्बरधरस्स्वराट् ।
राजीवलोचनश्शान्तः पक्षीन्द्रवरवाहनः
॥३४॥शंखादिलक्षणैर्युक्तो मुकुटादिविभूषितः ।
श्रीवत्सवक्षा लक्ष्मीशो ह्यप्रमेय प्रभान्वितः
॥३५॥तं दृष्ट्वा चकिताक्ष्यासीन्महाहर्षेण साब्रवीत् ।
सोऽयं शिवापतिः साक्षाच्छिवो वै नात्र संशयः
॥३६॥अथ त्वं मेनकावाक्यमाकर्ण्योवाच ऊतिकृत् ।
नायं शिवापतिरयं किन्त्वयं केशवो हरिः
॥३७॥शंकरोखिलकार्य्यस्य ह्यधिकारी च तत्प्रियः ।
अतोऽधिको वरो ज्ञेयस्स शिवः पार्वतीपतिः
॥३८॥तच्छोभां वर्णितुं मेने मया नैव हि शक्यते ।
स एवाखिलब्रह्माण्डपतिस्सर्वेश्वरः स्वराट्
॥३९॥ब्रह्मोवाच
इत्याकर्ण्य वचस्तस्य मेना मेने च तां शुभाम् ।
महाधनां भाग्यवती कुलत्रयसुखावहाम्
॥४०॥उवाच च प्रसन्नास्या प्रीतियुक्तेन चेतसा ।
स्वभाग्यमधिकं चापि वर्णयन्ती मुहुर्मुहुः
॥४१॥मेनोवाच
धन्याहं सर्वथा जाता पार्वत्या जन्मनाधुना ।
धन्यो गिरीश्वरोप्यद्य सर्वं धन्यतमं मम
॥४२॥येये दृष्ट्वा मया देवा नायकास्सुप्रभान्विताः ।
एतेषां यः पतिस्सोऽत्र पतिरस्या भविष्यति
॥४३॥अस्याः किं वर्ण्यते भाग्यमपि वर्षशतैरपि ।
वर्णितुं शक्यते नैव तत्प्रभुप्राप्तिदर्शनात
॥४४॥ब्रह्मोवाच
इत्यवादीच्च सा मेना प्रेमनिर्भरमानसा ।
तावत्समागतो रुद्रोऽद्भुतोतिकारकः प्रभुः
॥४५॥अद्भुतात्मागणास्तात मेनागर्वापहारकाः ।
आत्मानं दर्शयन् मायानिर्लिप्तं निर्विकारकम् ४४६ ।
तमागतमभिप्रेत्य नारद त्वं मुने तदा ।
मेनामवोचः सुप्रीत्या दर्शयंस्तं शिवापतिम्
॥४७॥नारद उवाच
अयं स शंकरस्साक्षाद्दृश्यतां सुन्दरि त्वया ।
यदर्थे शिवया तप्तं तपोऽति विपिने महत्
॥४८॥ब्रह्मोवाच
इत्युक्त्वा हर्षिता मेना तं ददर्श मुदा प्रभुम् ।
अद्भुताकृतिमीशानमद्भुतानुगमद्भुतम्
॥४९॥तावदेव समायाता रुद्रसेना महाद्भुता ।
भूतप्रेतादिसंयुक्ता नानागणसमन्विता
॥५०॥वात्यारूपधराः केचित्पताकामर्मरस्वना ।
वक्रतुंडास्तत्र केचिद्विरूपाश्चापरे तथा
॥५१॥करालाः श्मश्रुलाः केचित्केचित्खञ्जा ह्यलोचनाः ।
दण्डपाशधराः केचित्केचिन्मुद्गरपाणयः
॥५२॥विरुद्धवाहनाः केचिच्छृंगनादविवादिनः ।
डमरोर्वादिनः केचित्केचिद्गोमुखवादिनः
॥५३॥अमुखा विमुखाः केचित्केचिद्बहुमुखा गणाः ।
अकरा विकराः केचित्केचिद्बहुकरा गणाः
॥५४॥अनेत्रा बहुनेत्राश्च विशिराः कुशिरास्तथा ।
अकर्णा बहुकर्णाश्च नानावेषधरा गणाः
॥५५॥इत्यादिविकृताकारा अनेके प्रबला गणाः ।
असंख्यातास्तथा तात महावीरा भयंकराः
॥५६॥अंगुल्या दर्शयँस्त्वं तां मुने रुद्रगणाँस्ततः ।
हरस्य सेवकान्पश्य हरं चापि वरानने
॥५७॥असंख्यातान् गणान् दृष्ट्वा भूतप्रेतादिकान् मुने ।
तत्क्षणादभवत्सा वै मेनका त्राससंकुला
॥५८॥तन्मध्ये शंकरं चैव निर्गुणं गुणवत्तरम् ।
वृषभस्थं पञ्चवक्त्रं त्रिनेत्रं भूतिभूषितम्
॥५९॥कपर्दिनं चन्द्रमौलिं दशहस्तं कपालि नम् ।
व्याघ्रचर्मोत्तरीयञ्च पिनाकवरपाणिनम्
॥६०॥शूलयुक्तं विरूपाक्षं विकृताकारमाकुलम् ।
गजचर्म वसानं हि वीक्ष्य त्रेसे शिवाप्रसूः
॥६१॥चकितां कम्पसंयुक्तां विह्वलां विभ्रमद्धियम् ।
शिवोऽयमिति चांगुल्या दर्शयँस्तां त्वमब्रवीः
॥६२॥त्वदीयं तद्वचः श्रुत्वा वाताहतलता इव ।
सा पपात द्रुतम्भूमौ मेना दुःखभरा सती
॥६३॥किमिदं विकृतं दृष्ट्वा वञ्चिताहं दुराग्रहे ।
इत्युक्त्वा मूर्च्छिता तत्र मेनका साऽभवत्क्षणात्
॥६४॥अथ प्रयत्नैर्विविधैस्सखीभिरुपसेविता ।
लेभे संज्ञां शनै मेना गिरीश्वरप्रिया तदा
॥६५॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥