ब्रह्मन्विधे महाभाग किं जातं तदनंतरम्
नारद उवाच
ब्रह्मन्विधे महाभाग किं जातं तदनंतरम् ।
कथय त्वं प्रसादेन तां कथां पापनाशिनीम्
॥१॥ब्रह्मोवाच
श्रूयतां सा कथा तात यज्जातं तदनंतरम् ।
तव स्नेहात्प्रवक्ष्यामि शिवलीलां मुदावहाम्
॥२॥धैर्यस्य व्यसनं दृष्ट्वा महायोगी महेश्वरः ।
विचिंतितं मनस्येवं विस्मितोऽतिततः परम्
॥३॥शिव उवाच
किमु विघ्नाः समुत्पन्नाः कुर्वतस्तप उत्तमम् ।
केन मे विकृतं चित्तं कृतमत्र कुकर्मिणा
॥४॥कुवर्णनं मया प्रीत्या परस्त्र्युपरि वै कृतम् ।
जातो धर्मविरोधोऽत्र श्रुतिसीमा विलंघिता
॥५॥ब्रह्मोवाच
विचिंत्येत्थं महायोगी परमेशस्सतां गतिः ।
दिशो विलोकयामास परितश्शंकितस्तदा
॥६॥वामभागे स्थितं कामं ददर्शाकृष्टबाणकम् ।
स्वशरं क्षेप्तुकामं हि गर्वितं मूढचेतसम्
॥७॥तं दृष्ट्वा तादृशं कामं गिरीशस्य परात्मनः ।
संजातः क्रोधसंमर्दस्तत्क्षणादपि नारद
॥८॥कामः स्थितोऽन्तरिक्षे स धृत्वा तत्सशरं धनुः ।
चिक्षेपास्त्रं दुर्निवारममोघं शंकरे मुने
॥९॥बभूवामोघमस्त्रं तु मोघं तत्परमात्मनि ।
समशाम्यत्ततस्तस्मिन्संकुद्धे परमेश्वरे
॥१०॥मोघीभूते शिवे स्वेस्त्रे भयमापाशु मन्मथः ।
चकंपे च पुरः स्थित्वा दृष्ट्वा मृत्युंजयं प्रभुम्
॥११॥सस्मार त्रिदशान्सर्वान्शक्रादीन्भयविह्वलः ।
स स्मरो मुनिशार्दूल स्वप्रयासे निरर्थके
॥१२॥कामेन सुस्मृता देवाश्शक्राद्यास्ते मुनीश्वर ।
आययुः सकलास्ते हि शंभुं नत्वा च तुष्टुवुः
॥१३॥स्तुतिं कुर्वत्सु देवेषु कुद्धस्याति हरस्य हि ।
तृतीयात्तस्य नेत्राद्वै निस्ससार ततो महान्
॥१४॥ललाट मध्यगात्तस्मात्सवह्निर्द्रुतसम्भवः ।
जज्वालोर्द्ध्वशिखो दीप्तः प्रलयाग्निसमप्रभः
॥१५॥उत्पत्य गगने तूर्णं निष्पत्य धरणी तले ।
भ्रामंभ्रामं स्वपरितः पपात मेदनीं परि ।
१६ भस्मसात्कृतवान्साधो मदनं तावदेव हि ।
यावच्च मरुतां वाचः क्षम्यतां क्षम्यतामिति
॥१७॥हते तस्मिन्स्मरे वीरे देव दुःखमुपागताः ।
रुरुदुर्विह्वलाश्चातिक्रोशतः किमभूदिति
॥१८॥श्वेतांगा विकृतात्मा च गिरिराजसुता तदा ।
जगाम मंदिरं स्वं च समादाय सखीजनम्
॥१९॥क्षणमात्रं रतिस्तत्र विसंज्ञा साभवत्तदा ।
भर्तृमृत्युजदुःखेन पतिता सा मृता इव
॥२०॥जातायां चैव संज्ञायां रतिरत्यंतविह्वला ।
विललाप तदा तत्रोच्चरंती विविधं वचः
॥२१॥रतिरुवाच
किं करोमि क्व गच्छामि किं कृतं दैवतैरिह ।
मत्स्वामिनं समाहूय नाशयामासुरुद्धतम्
॥२२॥हा हा नाथ स्मर स्वामिन्प्राणप्रिय सुखप्रद ।
इदं तु किमभूदत्र हा हा प्रिय प्रियेति च
॥२३॥ब्रह्मोवाच
इत्थं विलपती सा तु वदंती बहुधा वचः ।
हस्तौ पादौ तदास्फाल्य केशानत्रोटयत्तदा
॥२४॥तद्विलापं तदा श्रुत्वा तत्र सर्वे वनेचराः ।
अभवन्दुःखितास्सर्वे स्थावरा अपि नारद
॥२५॥एतस्मिन्नंतरे तत्र देवाश्शक्रादयोऽखिलाः ।
रतिमूचुस्समाश्वास्य संस्मरंतो महेश्वरम्
॥२६॥देवा ऊचुः
किंचिद्भस्म गृहीत्वा तु रक्ष यत्नाद्भयं त्यज ।
जीवयिष्यति स स्वामी लप्स्यसे त्वं पुनः प्रियम्
॥२७॥सुखदाता न कोप्यस्ति दुःखदाता न कश्चन ।
सर्वोऽपि स्वकृतं भुंक्ते देवाञ्शोचसि वै वृथा
॥२८॥ब्रह्मोवाच
इत्याश्वास्य रतिं देवास्सर्वे शिवमुपागताः ।
सुप्रसाद्य शिवं भक्त्या वचनं चेदमब्रुवन्
॥२९॥देवा ऊचुः
भगवञ्छ्रूयतोमेतद्वचनं नश्शुभं प्रभो ।
कृपां कृत्वा महेशान शरणागतवत्सल
॥३०॥सुविचारय सुप्रीत्या कृति कामस्य शंकर ।
कामेनैतत्कृतं यत्र न स्वार्थं तन्महेश्वर
॥३१॥दुष्टेन पीडितैर्देवैस्तारकेणाऽखिलैर्विभो ।
कर्म तत्कारितं नाथ नान्यथा विद्धि शंकर
॥३२॥रतिरेकाकिनी देव विलापं दुःखिता सती ।
करोति गिरिश त्वं च तामाश्वासय सर्वदा
॥३३॥संहारं कर्तुकामोऽसि क्रोधेनानेन शंकर ।
दैवतैस्सह सर्वेषां हतवांस्तं यदि स्मरम्
॥३४॥दुःखं तस्या रतेर्दृष्ट्वा नष्टप्रायाश्च देवताः ।
तस्मात्त्वया च कर्त्तव्यं रत्याशोकापनोदनम्
॥३५॥ब्रह्मोवाच
इत्याकर्ण्य वचस्तेषां प्रसन्नो भगवाञ्छिवः ।
देवानां सकलानां च वचनं चेदमब्रवीत्
॥३६॥शिव उवाच
देवाश्च ऋषयस्सर्वे मद्वचश्शृणुतादरात् ।
मत्कोपेन च यज्जातं तत्तथा नान्यथा भवत्
॥३७॥अनंगस्तावदेव स्यात्कामो रतिपतिः प्रभुः ।
यावच्चावतरेत्कृष्णो धरण्यां रुक्मिणीपतिः
॥३८॥द्वारकायां यदा स्थित्वा पुत्रानुत्पादयिष्यति ।
तदा कृष्णस्तु रुक्मिण्यां काममुत्पादयिष्यति
॥३९॥प्रद्युम्ननाम तस्यैव भविष्यति न संशयः ।
जातमात्रं तु तं पुत्रं शंबरस्संहरिष्यति
॥४०॥हृत्वा प्रास्य समुद्रं तं शंबरो दानवोत्तमः ।
मृतं ज्ञात्वा वृथा मूढो नगरं स्वं गमिष्यति
॥४१॥तावच्च नगरं तस्य रते स्थेयं यथासुखम् ।
तत्रैव स्वपतेः प्राप्तिः प्रद्युम्नस्य भविष्यति
॥४२॥तत्र कामो मिलित्वा तं हत्वा शम्बरमाहवे ।
भविष्यति सुखी देवाः प्रद्युम्नाख्यस्स्वकामिनीम्
॥४३॥तदीयं चैव यद्द्रव्यं नीत्वा स नगरं पुनः ।
गमिष्यति तया सार्द्धं देवास्सत्यं वचो मम
॥४४॥ब्रह्मोवाच
इति श्रुत्वा वचश्शंभोर्देवा ऊचुः प्रणम्य तम् ।
किंचिदुच्छ्वसिताश्चित्ते करौ बद्ध्वा नतांगकाः
॥४५॥देवा ऊचुः
देवदेव महादेव करुणासागर प्रभो ।
शीघ्रं जीवय कामं त्वं रक्ष प्राणान् रतेर्हर
॥४६॥ब्रह्मोवाच
इत्याकर्ण्यामरवचः प्रसन्नः परमेश्वरः ।
पुनर्बभाषे करुणासागरस्सकलेश्वरः
॥४७॥शिव उवाच
हे देवास्सुप्रसन्नोऽस्मि जीवयिष्यामि चांतरे ।
कामः स मद्गणो भूत्वा विहरिष्यति नित्यशः
॥४८॥नाख्येयमिदमाख्यानं कस्यचित्पुरतस्सुराः ।
गच्छत स्वस्थलं दुखं नाशयिष्यामि सर्वतः
॥४९॥ब्रह्मोवाच
इत्युक्त्वांतर्दधे रुद्रो देवानां स्तुवतां तदा ।
सर्वे देवास्सुप्रस्सन्ना बभूवुर्गतविस्मयाः
॥५०॥ततस्तां च समाश्वास्य रुद्रस्य वचने स्थिताः ।
उक्त्वा वचस्तदीयं च स्वं स्वं धाम ययुर्मुने
॥५१॥कामपत्नी समादिष्टं नगरं सा गता तदा ।
प्रतीक्षमाणा तं कालं रुद्रादिष्टं मुनीश्वर
॥५२॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे कामनाशवर्णनं नामैकोनविंशोऽध्यायः ॥ १९ ॥