सप्तऋषिवचनम्
ब्रह्मोवाच
वसिष्ठस्य वचः श्रुत्वा सगणोपि हिमालयः ।
विस्मितो भार्य्यया शैलानुवाच स गिरीश्वरः
॥१॥हिमालय उवाच
हे मेरो गिरिराट् सह्य गन्धमादन मन्दर ।
मैनाक विन्ध्य शैलेन्द्रास्सर्वे शृणुत मद्वचः
॥२॥वसिष्ठो हि वदत्येवं किं मे कार्य्यं विचार्य्यते ।
यथा तथा च शंसध्वं निर्णीय मनसाखिलम्
॥३॥ब्रह्मोवाच
तच्छुत्वा वचनं तस्य सुमेरुप्रमुखाश्च ते ।
प्रोचुर्हिमालयं प्रीत्या सुनिर्णीय महीधराः
॥४॥शैला ऊचुः
अधुना किं विमर्शेन कृतं कार्य्यं तथैव हि ।
उत्पन्नेयं महाभाग देवकार्यार्थमेव हि
॥५॥प्रदातव्या शिवायेति शिवस्यार्थेवतारिणी ।
अनयाराधितो रुद्रो रुद्रेण यदि भाषिता
॥६॥ब्रह्मोवाच
एतच्छ्रुत्वा वचस्तेषाम्मेर्वादीनां हिमाचलः ।
सुप्रसन्नतरोभूद्वै जहास गिरिजा हृदि
॥७॥अरुन्धती च तां मेनां बोधयामास कारणात् ।
नानावाक्यसमूहेनेतिहासैर्विविधैरपि
॥८॥अथ सा मेनका शैलपत्नी बुद्ध्वा प्रसन्नधीः ।
मुनीनरुन्धतीं शैलं भोजयित्वा बुभोज च
॥९॥अथ शैलवरो ज्ञानी सुसंसेव्य मुनींश्च ताम् ।
उवाच साञ्जलिः प्रीत्या प्रसन्नात्मागतभ्रमः
॥१०॥हिमाचल उवाच
सप्तर्षयो महाभागा वचः शृणुत मामकम् ।
विस्मयो मे गतस्सर्वश्शिवयोश्चरितं श्रुतम्
॥११॥मदीयं च शरीरम्वै पत्नी मेना सुतास्सुता ।
ऋद्धिस्सिद्धिश्च चान्यद्वै शिवस्यैव न चान्यथा
॥१२॥ब्रह्मोवाच
इत्युक्त्वा स तदा पुत्रीं दृष्ट्वा तत्सादरं च ताम् ।
भूषयित्वा तदङ्गानि ऋष्युत्संगे न्यवेशयेत्
॥१३॥उवाच च पुनः प्रीत्या शैलराज ऋषींस्तदा ।
अयं भागो मया तस्मै दातव्य इति निश्चितम्
॥१४॥ऋषय ऊचुः
शंकरो भिक्षुकस्तेथ स्वयं दाता भवान् गिरे ।
भैक्ष्यञ्च पार्वती देवी किमतः परमुत्तमम्
॥१५॥हिमवन् शिखराणान्ते यद्धेतोस्सदृशी गतिः ।
धन्यस्त्वं सर्वशैलानामधिपस्सर्वतो वरः
॥१६॥ब्रह्मोवाच
एवमुक्त्वा तु कन्यायै मुनयो विमलाशयाः ।
आशिषं दत्तवन्तस्ते शिवाय सुखदा भव
॥१७॥स्पृष्ट्वा करेण तां तत्र कल्याणं ते भविष्यति ।
शुक्लपक्षे यथा चन्द्रो वर्द्धन्तां त्वद्गुणास्तथा
॥१८॥इत्युक्त्वा मुनयस्सर्वे दत्त्वा ते गिरये मुदा ।
पुष्पाणि फलयुक्तानि प्रत्ययं चक्रिरे तदा
॥१९॥अरुन्धती तदा तत्र मेनां सा सुसुखी मुदा ।
गुणैश्च लोभयामास शिवस्य परमा सती
॥२०॥हरिद्राकुंकुमैश्शैलश्मश्रूणि प्रत्यमार्जयत् ।
लौकिकाचारमाधाय मंगलायनमुत्तमम्
॥२१॥ततश्च ते चतुर्थेह्नि संधार्य्य लग्नमुत्तमम् ।
परस्परं च सन्तुष्य संजग्मुश्शिवसन्निधिम्
॥२२॥तत्र गत्वा शिवं नत्वा स्तुत्वा विवि धसूक्तिभिः ।
ऊचुः सर्वे वसिष्ठाद्या मुनयः परमेश्वरम्
॥२३॥ऋषय ऊचुः
देवदेव महादेव परमेश महाप्रभो ।
शृण्वस्मद्वचनं प्रीत्या यत्कृतं सेवकैस्तव
॥२४॥बोधितो गिरिराजश्च मेना विविधसूक्तिभिः ।
सेतिहासं महेशान प्रबुद्धोसौ न संशयः
॥२५॥वाक्यदत्ता गिरीन्द्रेण पार्वती ते हि नान्यथा ।
उद्वाहाय प्रगच्छ त्वं गणैर्देवैश्च संयुतः
॥२६॥गच्छ शीघ्रं महादेव हिमाचलगृहं प्रभो ।
विवाहय यथा रीतिः पार्वतीमात्मजन्मने
॥२७॥ब्रह्मोवाच
तच्छ्रुत्वा वचनं तेषां लौकिकाचारतत्परः ।
प्रहृष्टात्मा महेशानः प्रहस्येदमुवाच सः
॥२८॥महेश उवाच
विवाहो हि महाभागा न दृष्टो न श्रुतो मया ।
यथा पुरा भवद्भिस्तद्विधिः प्रोच्यो विशेषतः
॥२९॥ब्रह्मोवाच
तदाकर्ण्य महेशस्य लौकिकं वचनं शुभम् ।
प्रत्यूचुः प्रहसन्तस्ते देवदेवं सदाशिवम्
॥३०॥ऋषय ऊचुः
विष्णुमाहूय वै शीघ्रं ससमाजं विशेषतः ।
ब्रह्माणं ससुतं प्रीत्या तथा देवं शतक्रतुम्
॥३१॥तथा ऋषिगणान्सर्वान् यक्षगन्धर्वकिन्नरान् ।
सिद्धान् विद्याधरांश्चैव तथा चैवाप्सरोगणान्
॥३२॥एतांश्चान्यान्प्रभो सर्वानानय स्वेह सादरम् ।
सर्वं संसाधयिष्यन्ति त्वत्कार्य्यं ते न संशयः
॥३३॥ब्रह्मोवाच
इत्युक्त्वा सप्त ऋषयस्तदाज्ञां प्राप्य ते मुदा ।
स्वधाम प्रययुस्सर्वे शंसन्तः शङ्करीं गतिम्
॥३४॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे सप्तऋषिवचनं नाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥