मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पार्वतीखण्डः, अध्याय ४५

3
रुद्रसंहिता · पार्वतीखण्डः · 45

शिवसुन्दरस्वरूपपुरवास्युत्सववर्णनम्

ब्रह्मोवाच

एतस्मिन्नन्तरे त्वं हि विष्णुना प्रेरितो द्रुतम् ।

अनुकूलयितुं शंभुमयास्तन्निकटे मुने

॥१॥

तत्र गत्वा स वै रुद्रो भवता सुप्रबोधितः ।

स्तोत्रैर्नानाविधैस्स्तुत्वा देवकार्यचिकीर्षया

॥२॥

श्रुत्वा त्वद्वचनं प्रीत्या शंभुना धृतमद्भुतम् ।

स्वरूपमुत्तमन्दिव्यं कृपालुत्वं च दर्शितम्

॥३॥

तद्दृष्ट्वा सुन्दरं शम्भुं स्वरूपम्मन्मथा धिकम् ।

अत्यहृष्यो मुने त्वं हि लावण्यपरमायनम्

॥४॥

स्तोत्रैर्नानाविधैस्स्तुत्वा परमानन्दसंयुतः ।

आगच्छस्त्वं मुने तत्र यत्र मेना स्थिताखिलैः

॥५॥

तत्रागत्य सुप्रसन्नो मुनेऽतिप्रेमसंकुलः ।

हर्षयंस्तां शैलपत्नी मेनान्त्वं वाक्यमब्रवीः

॥६॥

नारद उवाच

मेने पश्य विशालाक्षि शिवरूपमनुत्तमम् ।

कृता शिवेन तेनैव सुकृपा करुणात्मना

॥७॥

ब्रह्मोवाच

श्रुत्वा सा तद्वचो मेना विस्मिता शैलकामिनी ।

ददर्श शिवरूपन्तत्परमानन्ददायकम्

॥८॥

कोटिसूर्यप्रतीकाशं सर्वावयवसुन्दरम् ।

विचित्रवसनं चात्र नानाभूषणभूषितम्

॥९॥

सुप्रसन्नं सुहासं च सुलावण्यं मनोहरम् ।

गौराभं द्युतिसंयुक्तं चन्द्ररेखाविभूषितम्

॥१०॥

सर्वैर्देवगणैः प्रीत्या विष्ण्वाद्यस्सेवितं तथा ।

सूर्येण च्छत्रितं मूर्ध्नि चन्द्रेण च विशोभितम्

॥११॥

सर्वथा रमणीयं च भूषितस्य विभूषणैः ।

वाहनस्य महाशोभा वर्णितुं नैव शक्यते

॥१२॥

गंगा च यमुना चैव विधत्तः स्म सुचामरे ।

सिद्धयोऽष्टौ पुरस्तस्य कुर्वन्ति स्म सुनर्त्तनम्

॥१३॥

मया चैव तदा विष्णुरिन्द्राद्या ह्यमरास्तथा ।

स्वं स्वं वेषं सुसम्भूष्य गिरिशेनाचरन्युताः

॥१४॥

तथा जयेति भाषन्तो नानारूपा गणास्तदा ।

स्वलङ्कृतमहामोदा गिरीशपुरतोऽचरन्

॥१५॥

सिद्धाश्चोपसुरास्सर्वे मुनयश्च महासुखाः ।

ययुश्शिवेन सुप्रीतास्सकलाश्चापरे तथा

॥१६॥

एवन्देवादयस्सर्वे कुतूहलसमन्विताः ।

परंब्रह्म गृणन्तस्ते स्वपत्नीभिरलंकृताः

॥१७॥

विश्वावसुमुखास्तत्र ह्यप्सरोगणसंयुताः ।

गायन्तोप्यग्रतस्तस्य परमं शाङ्करं यशः

॥१८॥

इत्थं महोत्सवस्तत्र बभूव मुनिस त्तम ।

नानाविधो महेशे हि शैलद्वारि च गच्छति

॥१९॥

तस्मिंश्च समये तत्र सुषमा या परात्मनः ।

वर्णितुं तां विशेषेण कश्शक्नोति मुनीश्वर

॥२०॥

तथाविधं च तन्दृष्ट्वा मेना चित्रगता इव ।

क्षणमासीत्ततः प्रीत्या प्रोवाच वचनं मुने

॥२१॥

मेनोवाच

धन्या पुत्री मदीया च यया तप्तं महत्तपः ।

यत्प्रभावान्महेशान त्वं प्राप्त इह मद्गृहे

॥२२॥

मया कृता पुरा या वै शिवनिन्दा दुरत्यया ।

तां क्षमस्व शिवास्वामिन्सुप्रसन्नो भवाधुना

॥२३॥

ब्रह्मोवाच

इत्थं सम्भाष्य सा मेना संस्तूयेन्दुललाटकम् ।

साञ्जलिः प्रणता शैलप्रिया लज्जापराऽभवत्

॥२४॥

तावत्स्त्रियस्समाजग्मुर्हित्वा कामाननेकशः ।

बह्व्यस्ताः पुरवासिन्यश्शिवदर्शनलालसाः

॥२५॥

मज्जनं कुर्वती काचित्तच्चूर्णसहिता ययौ ।

द्रष्टुं कुतूहलाढ्या च शङ्करं गिरिजावरम्

॥२६॥

काचित्तु स्वामिनस्सेवां सखीयुक्ता विहाय च ।

सुचामरकरा प्रीत्यागाच्छम्भोर्दर्शनाय वै

॥२७॥

काचित्तु बालकं हित्वा पिबन्तं स्तन्यमादरात् ।

अतृप्तं शङ्करन्द्रष्टुं ययौ दर्शनलालसा

॥२८॥

रशनां बध्नती काचित्तयैव सहिता ययौ ।

वसनं विपरीतं वै धृत्वा काचिद्ययौ ततः

॥२९॥

भोजनार्थं स्थितं कान्तं हित्वा काचिद्ययौ प्रिया ।

द्रष्टुं शिवावरं प्रीत्या सतृष्णा सकुतूहला

॥३०॥

काचिद्धस्ते शलाकां च धृत्वांजनकरा प्रिया ।

अञ्जित्वैकाक्षि सन्द्रष्टुं ययौ शैलसुतावरम्

॥३१॥

काचित्तु कामिनी पादौ रञ्जयन्ती ह्यलक्तकैः ।

श्रुत्वा घोषं च तद्धित्वा दर्शनार्थमुपागता

॥३२॥

इत्यादि विविधं कार्यं हित्वा वासं स्त्रियो ययुः ।

दृष्ट्वा तु शांकरं रूपं मोहं प्राप्तास्तदाऽभवन्

॥३३॥

ततस्ताः प्रेमसंविग्नाश्शिवदर्शनहर्षिताः ।

निधाय हृदि तन्मूर्तिं वचनं चेदमब्रुवन्

॥३४॥

पुरवासिन्य ऊचुः

नेत्राणि सफलान्यासन्हिमवत्पुरवासिनाम् ।

यो योऽपश्यददो रूपं तस्य वै सार्थकं जनुः

॥३५॥

तस्यैव सफलं जन्म तस्यैव सफलाः क्रियाः ।

येन दृष्टश्शिवस्साक्षात्सर्वपापप्रणाशकः

॥३६॥

पार्वत्या साधितं सर्वं शिवार्थं यत्तपः कृतम् ।

धन्येयं कृतकृत्येयं शिवा प्राप्य शिवम्पतिम्

॥३७॥

यदीदं युगलं ब्रह्मा न युंज्याच्छिवयोर्मुदा ।

तदा च सकलोऽप्यस्य श्रमो निष्फलतामियात्

॥३८॥

सम्यक् कृतं तथा चात्र योजितं युग्ममुत्तमम् ।

सर्वेषां सार्थता जाता सर्वकार्यसमुद्भवा

॥३९॥

विना तु तपसा शम्भोर्दर्शनं दुर्लभन्नृणाम् ।

दर्शनाच्छंकरस्यैव सर्वे याताः कृतार्थताम्

॥४०॥

लक्ष्मीर्नारायणं लेभे यथा वै स्वामिनम्पुरा ।

तथासौ पार्वती देवी हरम्प्राप्य सुभूषिता

॥४१॥

ब्रह्माणं च यथा लेभे स्वामिनं वै सरस्वती ।

तथासौ पार्वती देवी हरम्प्राप्य सुभूषिता

॥४२॥

वयन्धन्याः स्त्रियस्सर्वाः पुरुषास्सकला वराः ।

ये ये पश्यन्ति सर्वेशं शंकरं गिरिजापतिम्

॥४३॥

ब्रह्मोवाच

इत्थमुक्त्वा तु वचनं चन्दनैश्चाक्षतैरपि ।

शिवं समर्चयामासुर्लाजान्ववृषुरादरात्

॥४४॥

तस्थुस्तत्र स्त्रियः सर्वा मेनया सह सोत्सुकाः ।

वर्णयन्त्योऽधिकम्भाग्यम्मेनायाश्च गिरेरपि

॥४५॥

कथास्तथाविधाश्शृण्वंस्तद्वामा वर्णिताश्शुभाः ।

प्रहृष्टोऽभूत्प्रभुः सर्वैर्मुने विष्ण्वादिभिस्तदा

॥४६॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूपपुरवास्युत्सववर्णनं नाम पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥