मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पार्वतीखण्डः, अध्याय ८

3
रुद्रसंहिता · पार्वतीखण्डः · 8

एकदा तु शिवज्ञानी शिवलीलाविदांवरः

ब्रह्मोवाच

एकदा तु शिवज्ञानी शिवलीलाविदांवरः ।

हिमाचलगृहं प्रीत्यागमस्त्वं शिवप्रेरितः

॥१॥

दृष्ट्वा मुने गिरीशस्त्वां नत्वानर्च स नारद ।

आहूय च स्वतनयां त्वदङ्घ्र्योस्तामपातयत्

॥२॥

पुनर्नत्वा मुनीश त्वामुवाच हिमभूधरः ।

साञ्जलिः स्वविधिं मत्वा बहुसन्नतमस्तकः

॥३॥

हिमालय उवाच

हे मुने नारद ज्ञानिन्ब्रह्मपुत्रवर प्रभो ।

सर्वज्ञस्त्वं सकरुणः परोपकरणे रतः

॥४॥

मत्सुताजातकं ब्रूहि गुणदोषसमुद्भवम् ।

कस्य प्रिया भाग्यवती भविष्यति सुता मम

॥५॥

ब्रह्मोवाच

इत्युक्तो मुनिवर्य त्वं गिरीशेन हिमाद्रिणा ।

विलोक्य कालिकाहस्तं सर्वांगं च विशेषतः

॥६॥

अवोचस्त्वं गिरिं तात कौतुकी वाग्विशारद्ः ।

ज्ञानी विदितवृत्तान्तो नारदः प्रीतमानसः

॥७॥

नारद उवाच

एषा ते तनया मेने सुधांशोरिव वर्द्धिता ।

आद्या कला शैलराज सर्वलक्षणशालिनी

॥८॥

स्वपतेस्सुखदात्यन्तं पित्रोः कीर्तिविवर्द्धिनी ।

महासाध्वी च सर्वासु महानन्दकरी सदा

॥९॥

सुलक्षणानि सर्वाणि त्वत्सुतायाः करे गिरे ।

एका विलक्षणा रेखा तत्फलं शृणु तत्त्वतः

॥१०॥

योगी नग्नोऽगुणोऽकामी मातृतातविवर्जितः ।

अमानोऽशिववेषश्च पतिरस्याः किलेदृशः

॥११॥

ब्रह्मोवाच

इत्याकर्ण्य वचस्ते हि सत्यं मत्त्वा च दम्पती ।

मेना हिमाचलश्चापि दुःखितौ तौ बभूवतुः

॥१२॥

शिवाकर्ण्यवचस्ते हि तादृशं जगदम्बिका ।

लक्षणैस्तं शिवं मत्त्वा जहर्षाति मुने हृदि ।

न मृषा नारदवचस्त्विति संचिन्त्य सा शिवा ।

स्नेहं शिवपदद्वन्द्वे चकाराति हृदा तदा

॥१४॥

उवाच दुःखितः शैलस्त्वान्तदा हृदि नारद ।

कमुपायं मुने कुर्यामतिदुःखमभूदिति

॥१५॥

तच्छुत्वा त्वं मुने प्रात्थ महाकौतुककारकः ।

हिमाचलं शुभैर्वाक्यैर्हर्षयन्वाग्विशारदः

॥१६॥

नारद उवाच

स्नेहाच्छृणु गिरे वाक्यं मम सत्यं मृषा न हि ।

कररेखा ब्रह्मलिपिर्न मृषा भवति धुवम्

॥१७॥

तादृशोऽस्याः पतिः शैल भविष्यति न संशयः ।

तत्रोपायं शृणु प्रीत्या यं कृत्वा लप्स्यसे सुखम्

॥१८॥

तादृशोऽस्ति वरः शम्भुलीलारूपधरः प्रभुः ।

कुलक्षणानि सर्वाणि तत्र तुल्यानि सद्गुणैः

॥१९॥

प्रभौ दोषो न दुःखाय दुःखदोऽत्यप्रभौ हि सः ।

रविपावकगंगानां तत्र ज्ञेया निदर्शना

॥२०॥

तस्माच्छिवाय कन्या स्वां शिवां देहि विवेकतः ।

शिवस्सर्वेश्वरस्सेव्योऽविकारी प्रभुरव्ययः

॥२१॥

शीघ्रप्रसादः स शिवस्तां ग्रहीष्यत्यसंशयम् ।

तपःसाध्यो विशेषेण यदि कुर्याच्छिवा तपः

॥२२॥

सर्वथा सुसमर्थो हि स शिवस्सकलेश्वरः ।

कुलिपेरपि विध्वंसी ब्रह्माधीनस्त्वकप्रदः

॥२३॥

ब्रह्मोवाच

इत्युक्त्वा त्वं पुनस्तात कौतुकी ब्रह्मविन्मुने ।

शैलराजमवोचो हि हर्षयन्वचनैश्शुभैः

॥२४॥

भाविनी दयिता शम्भोस्सानुकूला सदा हरे ।

महासाध्वी सुव्रता च पित्रोस्सुखविवर्द्धिनी

॥२५॥

शम्भोश्चित्तं वशे चैषा करिष्यति तपस्विनी ।

स चाप्येनामृते योषां न ह्यन्यामुद्वहिष्यति

॥२६॥

एतयोस्सदृशं प्रेम न कस्याप्येव तादृशम् ।

भूतं वा भविता वापि नाधुना च प्रवर्तते

॥२७॥

अनयोस्सुरकार्य्याणि कर्तव्यानि मृतानि च ।

यानि यानि नगश्रेष्ठ जीवितानि पुनः पुनः

॥२८॥

अनया कन्यया तेऽद्रे अर्धनारीश्वरो हरः ।

भविष्यति तथा हर्षदिनयोर्मिलितम्पुनः

॥२९॥

शरीरार्धं हरस्यैषा हरिष्यति सुता तव ।

तपः प्रभावात्संतोष्य महेशं सकलेश्वरम्

॥३०॥

स्वर्णगौरी सुवर्णाभा तपसा तोष्य तं हरम् ।

विद्युद्गौरतमा चेयं तव पुत्री भविष्यति

॥३१॥

गौरीति नाम्ना कन्या तु ख्यातिमेषा गमिष्यति ।

सर्वदेवगणैः पूज्या हरिब्रह्मादिभिस्तथा

॥३२॥

नान्यस्मै त्वमिमां दातुमिहार्हसि नगोत्तम ।

इदं चोपांशु देवानां न प्रकाश्यं कदाचन

॥३३॥

ब्रह्मोवाच

इति तस्य वचः श्रुत्वा देवर्षे तव नारद ।

उवाच हिमवान्वाक्यं मुने त्वाम्वाग्विशारदः

॥३४॥

हिमालय उवाचा ।

हे मुने नारद प्राज्ञ विज्ञप्तिं कांचिदेव हि ।

करोमि तां शृणु प्रीत्या तस्त्वं प्रमुदमावह

॥३५॥

श्रूयते त्यक्तसंगस्स महादेवो यतात्मवान् ।

तपश्चरति सन्नित्यं देवानामप्यगोचरः

॥३६॥

स कथं ध्यान मार्गस्थः परब्रह्मार्पितं मनः ।

भ्रंशयिष्यति देवर्षे तत्र मे संशयो महान्

॥३७॥

अक्षरं परमं ब्रह्म प्रदीपकलिकोपमम् ।

सदाशिवाख्यं स्वं रूपं निर्विकारमजापरम्

॥३८॥

निर्गुणं सगुणं तच्च निर्विशेषं निरीहकम् ।

अतः पश्यति सर्वत्र न तु बाह्यं निरीक्षते

॥३९॥

इति स श्रूयते नित्यं किंनराणां मुखान्मुने ।

इहागतानां सुप्रीत्या किन्तन्मिथ्या वचो धुवम्

॥४०॥

विशेषतः श्रूयते स साक्षान्नाम्ना तथा हरः ।

समयं कृतवान्पूर्व्वं तन्मया गदितं शृणु

॥४१॥

न त्वामृतेऽन्यां वरये दाक्षायणि प्रिये सती ।

भार्यार्थं न ग्रहीष्यामि सत्यमेतद्ब्रवीमि ते

॥४२॥

इति सत्यासमं तेन पुरैव समयः कृतः ।

तस्यां मृतायां स कथं स्वयमन्यां ग्रहीष्यति

॥४३॥

ब्रह्मोवाच

इत्युक्त्वा स गिरिस्तूष्णीमास तस्य पुरस्तव ।

तदाकर्ण्याथ देवर्षे त्वं प्रावोचस्सुतत्त्वतः

॥४४॥

नारद उवाच

न वै कार्या त्वया चिंता गिरिराज महामते ।

एषा तव सुता काली दक्षजा ह्यभवत्पुरा

॥४५॥

सतीनामाभवत्तस्यास्सर्वमंगलदं सदा ।

सती सा वै दक्षकन्या भूत्वा रुद्रप्रियाभवत

॥४६॥

पितुर्यज्ञे तथा प्राप्यानादरं शंकरस्य च ।

तं दृष्ट्वा कोपमाधायात्याक्षीद्देहं च सा सती

॥४७॥

पुनस्सैव समुत्पन्ना तव गेहेऽम्बिका शिवा ।

पार्वती हरपत्नीयं भविष्यति न संशयः

॥४८॥

एतत्सर्वं विस्तरात्त्वं प्रोक्तवान्भूभृते मुने ।

पूर्वरूपं चरित्रं च पार्वत्याः प्रीतिवर्धनम्

॥४९॥

तं सर्वं पूर्ववृत्तान्यं काल्या मुनिमुखाद्गिरिः ।

श्रुत्वा सपुत्रदारः स तदा निःसंशयोऽभवत्

॥५०॥

ततः काली कथां श्रुत्वा नारदस्य मुखात्तदा ।

लज्जयाधोमुखी भूत्वा स्मितविस्तारितानना

॥५१॥

करेण तां तु संस्पृश्य श्रुत्वा तच्चरितं गिरिः ।

मूर्ध्नि शश्वत्तथाघ्राय स्वास नान्ते न्यवेशयत्

॥५२॥

ततस्त्वं तां पुनर्दृष्ट्वाऽवोचस्तत्र स्थितां मुने ।

हर्षयन् गिरिराजं च मेनकान्तनयैः सह

॥५३॥

सिंहासनन्तु किन्त्वस्याश्शैलराज भवेदतः ।

शम्भोरूरौ सदैतस्या आसनं तु भविष्यति

॥५४॥

हरोरूर्वासनम्प्राप्य तनया तव सन्ततम् ।

न यत्र कस्याचिदृष्टिर्मानसं वा गमिष्यति

॥५५॥

ब्रह्मोवाच

इति वचनमुदारं नारद त्वं गिरीशं त्रिदिवमगम उक्त्वा तत्क्षणादेवप्रीत्या ।

गिरिपतिरपि चित्ते चारुसंमोदयुक्तस्स्वगृहमगमदेवं सर्वसंपत्समृद्धम्

॥५६॥

इति श्रीशिवमहा पुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे नारदहिमालयसंवादवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥