मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पार्वतीखण्डः, अध्याय ३९

3
रुद्रसंहिता · पार्वतीखण्डः · 39

विधे तात महाप्राज्ञ विष्णुशिष्य नमोऽस्तु ते

नारद उवाच

विधे तात महाप्राज्ञ विष्णुशिष्य नमोऽस्तु ते ।

अद्भुतेयं कथाश्रावि त्वत्तोऽस्माभिः कृपानिधे

॥१॥

इदानीं श्रोतुमिच्छामि चरितं शशिमौलिनः ।

वैवाहिकं सुमाङ्गल्यं सर्वाघौघविनाशनम्

॥२॥

किं चकार महादेवः प्राप्य मङ्गलपत्रिकाम् ।

तां श्रावय कथान्दिव्यां शङ्करस्सपरात्मनः

॥३॥

ब्रह्मोवाच

शृणु वत्स महाप्राज्ञ शाङ्करम्परमं यशः ।

यच्चकार महादेवः प्राप्य मङ्गलपत्रिकाम्

॥४॥

अथ शम्भुर्गृहीत्वा तां मुदा मंगलपत्रिकाम् ।

विजहास प्रहृष्टात्मा मानन्तेषां व्यधाद्विभुः

॥५॥

वाचयित्वा च तां सम्यग्स्वीचकार विधानतः ।

तज्जनन्यापयामास बहुसम्मान्य चादृतः

॥६॥

उवाच सुनिवर्गांस्तान्कार्य्यं सम्यक् कृतं शुभम् ।

आगन्तव्यं विवाहे मे विवाहस्स्वीकृतो मया

॥७॥

इत्याकर्ण्य वचश्शम्भोः प्रहृष्टास्ते प्रणम्य तम् ।

परिक्रम्य ययुर्धाम शंसन्तः स्वं विधिम्परम्

॥८॥

अथ देवेश्वरश्शम्भुस्सामरस्त्वां मुने द्रुतम् ।

लौकिकाचारमाश्रित्य महालीलाकरः प्रभुः

॥९॥

त्वमागतः परप्रीत्या प्रशंसंस्त्वं विधिम्परम् ।

प्रणमंश्च नतस्कन्धो विनीतात्मा कृताञ्जलिः

॥१०॥

अस्तौस्सुजयशब्दान्हि समुच्चार्य मुहुर्मुहुः ।

निदेशं प्रार्थयंस्तस्य प्रशंसंस्त्वं विधिम्मुने

॥११॥

ततश्शंभुः प्रहृष्टात्मा दर्शयँल्लौकिकीं गतिम् ।

उवाच मुनिवर्य त्वां प्रीणयञ्छुभया गिरा

॥१२॥

शिव उवाच

प्रीत्या शृणु मुनिश्रेष्ठ ह्यस्मत्तोऽद्य वदामि ते ।

ब्रुवे तत्त्वां प्रियो मे यद्भक्तराजशिरोमणिः

॥१३॥

कृतं महत्तपो देव्या पार्वत्या तव शासनात् ।

तस्यै वरो मया दत्तः पतित्वे तोषितेन वै

॥१४॥

करिष्येऽहं विवाहं च तस्या वश्यो हि भक्तितः ।

सप्तर्षिभिस्साधितश्च तल्लग्नं शोधितं च तैः

॥१५॥

अद्यतस्सप्तमे चाह्नि तद्भविष्यति नारद ।

महोत्सवं करिष्यामि लौकिकीं गतिमाश्रितः

॥१६॥

ब्रह्मोवाच

इति श्रुत्वा वचस्तस्य शंकरस्य परात्मनः ।

प्रसन्नधीः प्रभुं नत्वा तात त्वं वाक्यमब्रवीः

॥१७॥

नारद उवाच

भवतस्तु व्रतमिदम्भक्तवश्यो भवान्मतः ।

सम्यक् कृतं च भवता पार्वतीमानसेप्सितम्

॥१८॥

कार्यं मत्सदृशं किञ्चित्कथनीयन्त्वया विभो ।

मत्वा स्वसेवकं मां हि कृपां कुरु नमोऽस्तु ते

॥१९॥

ब्रह्मोवाच

इत्युक्तस्तु त्वया शम्भुश्शंकरो भक्तवत्सलः ।

प्रत्युवाच प्रसन्नात्मा सादरं त्वां मुनीश्वर

॥२०॥

शिव उवाच

विष्णुप्रभृतिदेवांश्च मुनीन्सिद्धानपि ध्रुवम् ।

त्वन्निमन्त्रय मद्वाण्या मुनेऽन्यानपि सर्वतः

॥२१॥

सर्व आयान्तु सोत्साहास्सर्वशोभासमन्विताः ।

सस्त्रीसुतगणाः प्रीत्या मम शासनगौरवात्

॥२२॥

नागमिष्यन्ति ये त्वत्र मद्विवाहोत्सवे मुने ।

ते स्वकीया न मन्तव्या मया देवादयः खलु

॥२३॥

ब्रह्मोवाच

इतीशाज्ञां ततो धृत्वा भवाञ्छङ्करवल्लभः ।

सर्वान्निमन्त्रयामास तं तं गत्वा द्रुतं मुने

॥२४॥

शम्भूपकण्ठमागत्य द्रुतं मुनिवरो भवान् ।

तद्दूत्यात्तत्र सन्तस्थौ तदाज्ञाम्प्राप्य नारद

॥२५॥

शिवोऽपि तस्थौ सोत्कण्ठस्तदागमनलालसः ।

स्वगणैस्सोत्सवैस्सवेंर्नृत्यद्भिस्सर्वतोदिशम्

॥२६॥

एतस्मिन्नेव काले तु रचयित्वा स्ववेषकम् ।

आजगामाच्युतश्शीघ्रं कैलासं सपरिच्छदः

॥२७॥

शिवम्प्रणम्य सद्भक्त्या सदारस्सदलो मुदा ।

तदाज्ञाम्प्राप्य सन्तस्थौ सुस्थाने प्रीतमानसः

॥२८॥

तथाहं स्वगणैराशु कैलासमगमं मुदा ।

प्रभुम्प्रणम्यातिष्ठं वै सानन्दस्स्वगणान्वितः

॥२९॥

इन्द्रादयो लोकपाला आययुस्सपरिच्छदाः ।

तथैवालंकृतास्सर्वे सोत्सवास्सकलत्रकाः

॥३०॥

तथैव मुनयो नागास्सिद्धा उपसुरा स्तथा ।

आययुश्चापरेऽपीह सोत्सवास्सुनिमन्त्रिताः

॥३१॥

महेश्वरस्तदा तत्रागतानां च पृथक् पृथक् ।

सर्वेषाममराद्यानां सत्कारं व्यदधान्मुदा

॥३२॥

अथोत्सवो महानासीत्कैलासे परमोद्भुतः ।

नृत्यादिकन्तदा चक्रुर्यथायोग्यं सुरस्त्रियः

॥३३॥

एतस्मिन्समये देवा विष्ण्वाद्या ये समागताः ।

यात्रां कारयितुं शम्भोस्तत्रोषुस्तेऽखिला मुने

॥३४॥

शिवाज्ञप्तास्तदा सर्वे मदीयमिति यन्त्रिताः ।

शिवकार्यमिदं सर्वं चक्रिरे शिवसेवनम्

॥३५॥

मातरस्सप्त तास्तत्र शिवभूषाविधिम्परम् ।

चक्रिरे च मुदा युक्ता यथायोग्यन्तथा पुनः

॥३६॥

तस्य स्वाभाविको वेषो भूषाविविरभूत्तदा ।

तस्येच्छया मुनिश्रेष्ठ परमेशस्य सुप्रभो

॥३७॥

चन्द्रश्च मुकुटस्थाने सान्निध्यमकरोत्तदा ।

लोचनं सुन्दरं ह्यासीत्तृतीयन्तिलकं शुभम्

॥३८॥

कर्णाभरणरूपौ च यौ हि सर्पौ प्रकीर्तितौ ।

कुण्डलेऽभवतान्तस्य नानारत्नान्विते मुने

॥३९॥

अन्यांगसंस्थितास्सर्पास्तदंगाभरणानि च ।

बभूवुरतिरम्याणि नानारत्नमयानि च

॥४०॥

विभूतिरंगरागोऽभूच्चन्दनादिसमुद्भवः ।

तद्दुकूलमभूद्दिव्यं गजचर्मादि सुन्दरम्

॥४१॥

ईदृशं सुन्दरं रूपं जातं वर्णातिदुष्करम् ।

ईश्वरोऽपि स्वयं साक्षादैश्वर्यं लब्धवान्स्वतः

॥४२॥

ततश्च सर्वे सुरपक्षदानवा नागाः पतंगाप्सरसो महर्षयः ।

समेत्य सर्वे शिवसन्निधिं तदा महोत्सवाः प्रोचुरहो मुदान्विताः

॥४३॥

सर्वै ऊचुः

गच्छ गच्छ महादेव विवाहार्थं महेश्वर ।

गिरिजाया महादेव्याः सहास्माभिः कृपां कुरु

॥४४॥

ततो विष्णुरुवाचेदं प्रस्तावसदृशं वचः ।

प्रणम्य शंकरं भक्त्या विज्ञानप्रीतमानसः

॥४५॥

विष्णुरुवाच

देव देव महादेव शरणागतवत्सल ।

कार्यकर्त्ता स्वभक्तानां विज्ञप्तिं शृणु मे प्रभो

॥४६॥

गृह्योक्तविधिना शम्भो स्वविवाहस्य शंकर ।

गिरीशसुतया देव्या कर्म कर्तुमिहार्हसि

॥४७॥

त्वया च क्रियमाणे तु विवाहस्य विधौ हर ।

स एव हि तथा लोके सर्वस्सुख्यातिमाप्नुयात

॥४८॥

मण्डपस्थापनन्नान्दीमुखन्तत्कुलधर्मतः ।

कारय प्रीतितो नाथ लोके स्वं ख्यापयन् यशः

॥४९॥

ब्रह्मोवाच

एवमुक्तस्तदा शम्भुर्विष्णुना परमेश्वरः ।

लौकिकाचारनिरतो विधिना तच्चकार सः

॥५०॥

अहं ह्यधिकृतस्तेन सर्वमभ्युदयोचितम् ।

अकुर्वं मुनिभिः प्रीत्या तत्र तत्कर्म चादरात्

॥५१॥

कश्यपोऽत्रिर्वशिष्ठश्च गौतमो भागुरिर्गुरुः ।

कण्वो बृहस्पतिश्शक्तिर्जमदग्निः पराशरः

॥५२॥

मार्कण्डेयश्शिलापाकोऽरुणपालोऽकृतश्रमः ।

अगस्त्यश्च्यवनो गर्गश्शिलादोऽथ महामुने

॥५३॥

दधीचिरुपमन्युश्च भरद्वाजोऽकृतव्रणः ।

पिप्पलादोऽथ कुशिकः कौत्सो व्यासः सशिष्यकः

॥५४॥

एते चान्ये च बहव आगताश्शिवसन्निधिम् ।

मया सुनोदितास्तत्र चक्रुस्ते विधिवत्क्रियाम्

॥५५॥

वेदोक्तविधिना सर्वे वेदवेदांगपारगाः ।

रक्षां चक्रुर्महेशस्य कृत्वा कौतुकमंगलम्

॥५६॥

ऋग्यजुस्सामसूक्तैस्तु तथा नानाविधैः परैः ।

मंगलानि च भूरीणि चक्रुः प्रीत्यर्षयोऽखिलाः

॥५७॥

ग्रहाणां पूजनं प्रीत्या चक्रुस्ते शम्भुना मया ।

मण्डलस्थसुराणां च सर्वेषां विघ्नशान्तये

॥५८॥

ततश्शिवस्तु सन्तुष्टः कृत्वा सर्वं यथोचितम् ।

लौकिकं वैदिकं कर्म ननाम च मुदा द्विजान्

॥५९॥

अथ सर्वेश्वरो विप्रान्देवान्कृत्वा पुरस्सरान् ।

निस्ससार मुदा तस्मात्कैलासात्पर्वतोत्तमात्

॥६०॥

बहिः कैलासकुधराच्छम्भुस्तस्थौ मुदान्वितः ।

देवैस्सह द्विजैश्चैव नानास्वीकारकः प्रभुः

॥६१॥

तदोत्सवो महानासीत्तत्र देवादिभिः कृतः ।

सन्तुष्ट्यर्थं महेशस्य गानवाद्यसुनृत्यकः

॥६२॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे देवनिमन्त्रण देवागमन शिवयात्रावर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥