सप्तर्षिंकृतपरीक्षावर्णनः
नारद उवाच
गतेषु तेषु देवेषु विधि विष्ण्वादिकेषु च ।
सर्वेषु मुनिषु प्रीत्या किं बभूव ततः परम्
॥१॥किं कृतं शंभुना तात वरं दातुंसमागतः ।
कियत्कालेन च कथं तद्वद प्रीतिमावहन्
॥२॥ब्रह्मोवाच
गतेषु तेषु देवेषु ब्रह्मादिषु निजाश्रमम् ।
तत्तपस्सु परीक्षार्थं समाधिस्थोऽभवद्भवः
॥३॥स्वात्मानमात्मना कृत्वा स्वात्मन्येव व्यचिंतयत् ।
परात्परतरं स्वस्थं निर्माय निरवग्रहम्
॥४॥तद्वस्तुभूतो भगवानीश्वरो वृषभध्वजः ।
अविज्ञातगतिस्सूतिस्स हरः परमेश्वरः
॥५॥ब्रह्मोवाच
गिरिजा हि तदा तात तताप परमं तपः ।
तपसा तेन रुद्रोऽपि परं विस्मयमागतः
॥६॥समाधेश्चलितस्सोऽभूद्भक्ताधीनोऽपि नान्यथा ।
वसिष्ठादीन्मुनीन्सप्त सस्मार सूतिकृद्धरः
॥७॥सप्तापि मुनयश्शीघ्रमाययुस्स्मृति मात्रतः ।
प्रसन्नवदनाः सर्वे वर्णयंतो विधिं बहु
॥८॥प्रणम्य तं महेशानं तुष्टुवुर्हर्षनिर्भराः ।
वाण्या गद्गदया बद्धकरा विनतकंधराः
॥९॥सप्तर्षय ऊचुः
देवदेव महादेव करुणासागर प्रभो ।
जाता वयं सुधन्या हि त्वया यदधुना स्मृताः
॥१०॥किमर्थं संस्मृता वाथ शासनं देहि तद्धि नः ।
स्वदाससदृशीं स्वामिन्कृपां कुरु नमोऽस्तु ते
॥११॥ब्रह्मोवाच
इत्याकर्ण्य नीनां तु विज्ञप्तिं करुणानिधिः ।
प्रोवाच विहसन्प्रीत्या प्रोत्फुल्लनयनाम्बुजः
॥१२॥महेश्वर उवाच
हे सप्तमुनयस्ताताश्शृणुतारं वचो मम ।
अस्मद्धितकरा यूयं सर्वज्ञानविचक्षणाः
॥१३॥तपश्चरति देवेशी पार्वती गिरिजाऽधुना ।
गौरीशिखरसंज्ञे हि पार्वते दृढमानसा
॥१४॥मां पतिं प्राप्तुकामा हि सा सखीसेविता द्विजाः ।
सर्वान्कामान्विहायान्यान्परं निश्चयमागता
॥१५॥तत्र गच्छत यूयं मच्छासनान्मुनिसत्तमाः ।
परीक्षां दृढतायास्तत्कुरुत प्रेमचेतसः
॥१६॥सर्वथा छलसंयुक्तं वचनीयं वचश्च वः ।
न संशयः प्रकर्तव्यश्शासनान्मम सुव्रताः
॥१७॥ब्रह्मोवाच
इत्याज्ञप्ताश्च मुनयो जग्मुस्तत्र द्रुतं हि ते ।
यत्र राजति सा दीप्ता जगन्माता नगात्मजा
॥१८॥तत्र दृष्ट्वा शिवा साक्षात्तपःसिद्धिरिवापरा ।
मूर्ता परमतेजस्का विलसंती सुतेजसा
॥१९॥हृदा प्रणम्य तां ते तु ऋषयस्सप्त सुव्रताः ।
सन्नता वचनं प्रोचुः पूजिताश्च विशेषतः
॥२०॥ऋषय ऊचुः
शृणु शैलसुते देवी किमर्थं तप्यते तपः ।
इच्छसि त्वं सुरं कं च किं फलं तद्वदाधुना
॥२१॥ब्रह्मोवाच
इत्युक्ता सा शिवा देवी गिरींद्रतनया द्विजैः ।
प्रत्युवाच वचस्सत्यं सुगूढमपि तत्पुरः
॥२२॥पार्वत्युवाच
मुनीश्वरास्संशृणुत मद्वाक्यं प्रीतितो हृदा ।
ब्रवीमि स्वविचारं वै चिंतितो यो धिया स्वया
॥२३॥करिष्यथ प्रहासं मे श्रुत्वा वाचो ह्यसंभवाः ।
संकोचो वर्णनाद्विप्रा भवत्येव करोमि किम्
॥२४॥इदं मनो हि सुदृढमवशं परकर्मकृत् ।
जलोपरि महाभित्तिं चिकीर्षति महोन्नताम्
॥२५॥सुरर्षेश्शासनं प्राप्य करोमि सुदृढं तपः ।
रुद्रः पतिर्भवेन्मे हि विधायेति मनोरथम्
॥२६॥अपक्षो मन्मनः पक्षी व्योम्नि उड्डीयते हठात् ।
तदाशां शंकरस्वामी पिपर्त्तु करुणानिधिः
॥२७॥ब्रह्मोवाच
इत्याकर्ण्य वचस्तस्या विहस्य मुनयश्च ते ।
संमान्य गिरिजां प्रीत्या प्रोचुश्छलवचो मृषा
॥२८॥ऋषय ऊचुः
न ज्ञातं तस्य चरितं वृथापण्डितमानिनः ।
देवर्षेः कूरमनसः सुज्ञा भूत्वाप्यगात्मजे
॥२९॥नारदः कूटवादी च परचित्तप्रमंथकः ।
तस्य वार्त्ताश्रवणतो हानिर्भवति सर्वथा
॥३०॥तत्र त्वं शृणु सद्बुध्या चेतिहासं सुशोभितम् ।
क्रमात्त्वां बोधयंतो हि प्रीत्या तमुपधारय
॥३१॥ब्रह्मपुत्रो हि यो दक्षस्सुषुवे पितुराज्ञया ।
स्वपत्न्यामयुतं पुत्रानयुंक्त तपसि प्रियान्
॥३२॥ते सुताः पश्चिमां दिशि नारायणसरो गताः ।
तपोर्थे ते प्रतिज्ञाय नारदस्तत्र वै ययौ
॥३३॥कूटोपदेशमाश्राव्य तत्र तान्नारदो मुनिः ।
तदाज्ञया च ते सर्वे पितुर्न गृहमाययुः
॥३४॥तच्छ्रुत्वा कुपितो दक्षः पित्राश्वासितमानसः ।
उत्पाद्य पुत्रान्प्रायुंक्त सहस्रप्रमितांस्ततः
॥३५॥तेऽपि तत्र गताः पुत्रास्तपोर्थं पितुराज्ञया ।
नारदोऽपि ययौ तत्र पुनस्तत्स्वोपदेशकृत्
॥३६॥ददौ तदुपदेशं ते तेभ्यो भ्रातृपथं ययुः ।
आययुर्न पितुर्गेहं भिक्षुवृत्तिरताश्च ते
॥३७॥इत्थं नारदसद्वृत्तिर्विश्रुत्ता शैलकन्यके ।
अन्यां शृणु हि तद्वृत्तिं वैराग्यकरणीं नृणाम्
॥३८॥विद्याधरश्चित्रकेतुर्यो बभूव पुराकरोत् ।
स्वोपदेशमयं दत्त्वा तस्मै शून्यं च तद्गृहम्
॥३९॥प्रह्लादाय स्वोपदेशान्हिरण्यकशिपोः परम् ।
दत्त्वा दुखं ददौ चायं परबुद्धिप्रभेदकः
॥४०॥मुनिना निजविद्या यच्छ्राविता कर्णरोचना ।
स स्वगेहं विहायाशु भिक्षां चरति प्रायशः
॥४१॥नारदो मलिनात्मा हि सर्वदो ज्ज्वलदेहवान् ।
जानीमस्तं विशेषेण वयं तत्सहवासिनः
॥४२॥बकं साधुं वर्णयंति न मत्स्यानत्ति सर्वथा ।
सहवासी विजानीयाच्चरित्रं सहवासिनाम्
॥४३॥लब्ध्वा तदुपदेशं हि त्वमपि प्राज्ञसंमता ।
वृथैव मूर्खीभूता तु तपश्चरसि दुष्करम्
॥४४॥यदर्थमीदृशं बाले करोषि विपुलं तपः ।
सदोदासी निर्विकारो मदनारिर्नसंशयः
॥४५॥अमंगलवपुर्धारी निर्लज्जोऽसदनोऽकुली ।
कुवेषी प्रेतभूतादिसंगी नग्नौ हि शूलभृत्
॥४६॥स धूर्तस्तव विज्ञानं विनाश्य निजमायया ।
मोहयामास सद्युक्त्या कारयामास वै तपः
॥४७॥ईदृशं हि वरं लब्ध्वा किं सुखं संभविष्यति ।
विचारं कुरु देवेशि त्वमेव गिरिजात्मजे
॥४८॥प्रथमं दक्षजां साध्वी विवाह्य सुधिया सतीम् ।
निर्वाहं कृतवान्नैव मूढः किंचिद्दिनानि हि
॥४९॥तां तथैव स वै दोषं दत्त्वात्याक्षीत्स्वयं प्रभुः ।
ध्यायन्स्वरूप मकलमशोकमरमत्सुखी
॥५०॥एकलः परनिर्वाणो ह्यसंगोऽद्वय एव च ।
तेन नार्याः कथं देवि निर्वाहः संभविष्यति
॥५१॥अद्यापि शासनं प्राप्य गृहमायाहि दुर्मतिम् ।
त्यजास्माकं महाभागे भविष्यति च शं तव
॥५२॥त्वद्योग्यो हि वरो विष्णुस्सर्वसद्गुणवान्प्रभुः ।
वैकुण्ठवासी लक्ष्मीशो नानाक्रीडाविशारदः
॥५३॥तेन ते कारयिष्यामो विवाहं सर्वसौख्यदम् ।
इतीदृशं त्यज हठं सुखिता भव पार्वति
॥५४॥ब्रह्मोवाच
इत्येदं वचनं श्रुत्वा पार्वती जगदम्बिका ।
विहस्य च पुनः प्राह मुनीन्ज्ञान विशारदान्
॥५५॥पार्वत्युवाच
सत्यं भवद्भिः कथितं स्वज्ञानेन मुनीश्वराः ।
परंतु मे हठो नैव मुक्तो भवति वै द्विजाः
॥५६॥स्वतनोः शैलजातत्वात्काठिन्यं सहजं स्थितम् ।
इत्थं विचार्य सुधिया मां निषेद्धुं न चार्हथ
॥५७॥सुरर्षेर्वचनं पथ्यं त्यक्ष्ये नैव कदाचन ।
गुरूणां वचनं पथ्यमिति वेदविदो विदुः
॥५८॥गुरूणां वचनं सत्यमिति येषां दृढा मतिः ।
तेषामिहामुत्र सुखं परमं नासुखं क्वचित्
॥५९॥गुरूणां वचनं सत्यमिति यद्धृदये न धीः ।
इहामुत्रापि तेषां हि दुखं न च सुखं क्वचित्
॥६०॥सर्वथा न परित्याज्यं गुरूणां वचनं द्विजाः ।
गृहं वसेद्वा शून्यं स्यान्मे हठस्सुखदस्सदा
॥६१॥यद्भवद्भिस्सुभणितं वचनं मुनिसत्तमाः ।
तदन्यथा तद्विवेकं वर्णयामि समासतः
॥६२॥गुणालयो विहारी च विष्णुस्सत्यं प्रकीर्तितः ।
सदाशिवोऽगुणः प्रोक्तस्तत्र कारण मुच्यते
॥६३॥शिवो ब्रह्माविकारः स भक्तहेतोर्धृताकृतिः ।
प्रभुतां लौकिकीं नैव संदर्शयितुमिच्छति ।
अतः परमहंसानां धार्यये सुप्रिया गतिः ।
अवधूतस्वरूपेण परानंदेन शंभुना
॥६५॥भूषूणादिरुचिर्मायार्लिप्तानां ब्रह्मणो न च ।
स प्रभुर्निर्गुणोऽजो निर्मायोऽलक्ष्यगतिर्विराट्
॥६६॥धर्मजात्यादिभिश्शम्भुर्नानुगृह्णाति व द्विजाः ।
गुरोरनुग्रहेणैव शिवं जानामि तत्त्वतः
॥६७॥चेच्छिवस्स हि मे विप्रा विवाहं न करिष्यति ।
अविवाहा सदाहं स्यां सत्यं सत्यं वदाम्यहम्
॥६८॥उदयति यदि भानुः पश्चिमे दिग्विभागे प्रचलति यदि मेरुश्शीततां याति वह्निः ।
विकसति यदि पद्मं पर्वताग्रे शिलायां न हि चलति हठो मे सत्यमेतद्ब्रवीमि
॥६९॥ब्रह्मोवाच
इत्युक्त्वा तान्प्रणम्याशु मुनीन्सा पर्वतात्मजा ।
विरराम शिवं स्मृत्वा निर्विकारेण चेतसा
॥७०॥ऋषयोऽपीत्थमाज्ञाय गिरिजायास्सुनिश्चयम् ।
प्रोचुर्जयगिरं तत्र ददुश्चाशिषमुत्तमाम् ।
७१ अथ प्राणम्य तां देवीं मुनयो हृष्टमानसाः ।
शिवस्थानं द्रुतं जग्मुस्तत्परीक्षाकरा मुने
॥७२॥तत्र गत्वा शिवं नत्वा वृत्तांतं विनिवेद्य तम् ।
तदाज्ञां समनुप्राप्य स्वर्लोकं जग्मुरादरात्
॥७३॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे सप्तर्षिंकृतपरीक्षावर्णनो नाम पंचविशोऽध्याय ॥ २५ ॥