मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पार्वतीखण्डः, अध्याय ४८

3
रुद्रसंहिता · पार्वतीखण्डः · 48

एतस्मिन्नंतरे तत्र गर्गाचार्य्यप्रणोदितः

ब्रह्मोवाच

एतस्मिन्नंतरे तत्र गर्गाचार्य्यप्रणोदितः ।

हिमवान्मेनया सार्द्धं कन्या दातुं प्रचक्रमे

॥१॥

हैमं कलशमादाय मेना चार्द्धांगमाश्रिता ।

हिमाद्रेश्च महाभागा वस्त्राभरणभूषिता

॥२॥

पाद्यादिभिस्ततः शैलः प्रहृष्टः स्वपुरोहितः ।

तं वंरं वरयामास वस्त्रचंदनभूषणैः

॥३॥

ततो हिमाद्रिणा प्रोक्ता द्विजास्तिथ्यादिकीर्तने ।

प्रयोगो भण्यतां तावदस्मिन्समय आगते

॥४॥

तथेति चोक्त्वा ते सर्वे कालज्ञा द्विजसत्तमाः ।

तिथ्यादिकीर्तनं चक्रुः प्रीत्या परमनिर्वृताः

॥५॥

ततो हिमाचलः प्रीत्या शम्भुना प्रेरितो हृदा ।

सूती कृतः परेशेन विहसञ्शम्भुमब्रवीत्

॥६॥

स्वगोत्रं कथ्यतां शम्भो प्रवरश्च कुलं तथा ।

नाम वेदं तथा शाखां मा कार्षीत्समयात्ययम्

॥७॥

ब्रह्मोवाच

इत्याकर्ण्य वचस्तस्य हिमाद्रेश्शङ्करस्तदा ।

सुमुखाविमुखः सद्योऽप्यशोच्यः शोच्यतां गतः

॥८॥

एवंविधस्सुरवरैर्मुनिभिस्तदानीं गन्धर्वयक्षगणसिद्धगणैस्तथैव ।

दृष्टो निरुत्तरमुखो भगवान्महेशोऽकार्षीस्तु हास्यमथ तत्र स नारदत्वम्

॥९॥

वीणामवादयस्त्वं हि ब्रह्मविज्ञोऽथ नारद ।

शिवेन प्रेरितस्तत्र मनसा शम्भुमानसः

॥१०॥

तदा निवारितो धीमान्पर्वतेन्द्रेण वै हठात् ।

विष्णुना च मया देवैर्मुनिभिश्चाखिलैस्तथा

॥११॥

न निवृत्तोऽभवस्त्वं हि स यदा शङ्करेच्छया ।

इति प्रोक्तोऽद्रिणा तर्हि वीणां मा वादयाधुना

॥१२॥

सुनिषिद्धो हठात्तेन देवर्षे त्वं यदा बुध ।

प्रत्यवोचो गिरीशं तं सुसंस्मृत्य महेश्वरम्

॥१३॥

नारद उवाच

त्वं हि मूढत्वमापन्नो न जानासि च किञ्चन ।

वाच्ये महेशविषयेऽतीवासि त्वं बहिर्मुखः

॥१४॥

त्वया पृष्ठो हरस्साक्षात्स्वगोत्रकथनं प्रति ।

समयेऽस्मिँस्तदत्यन्तमुपहासकरं वचः

॥१५॥

अस्य गोत्रं कुलं नाम नैव जानन्ति पर्वत ।

विष्णुब्रह्मादयोऽपीह परेषां का कथा स्मृता

॥१६॥

यस्यैकदिवसे शैल ब्रह्मकोटिर्लयं गता ।

स एव शङ्करस्तेद्य दृष्टः कालीतपोबलात

॥१७॥

अरूपोऽयं परब्रह्म निर्गुणः प्रकृतेः परः ।

निराकारो निर्विकारो मायाधीशः परात्परः

॥१८॥

अगोत्रकुलनामा हि स्वतन्त्रो भक्तवत्सलः ।

तदिच्छया हि सगुणस्सुतनुर्बहुनामभृत्

॥१९॥

सुगोत्री गोत्रहीनश्च कुलहीनः कुलीनकः ।

पार्वतीतपसा सोऽद्य जामाता ते न संशयः

॥२०॥

लीलाविहारिणा तेन मोहितं च चराचरम् ।

नो जानाति शिवं कोऽपि प्राज्ञोऽपि गिरिसत्तम

॥२१॥

लिंगाकृतेर्महेशस्य केन दृष्टं न मस्तकम् ।

विष्णुर्गत्वा हि पातालं तदेनं नापविस्मितः

॥२२॥

किंबहूक्त्या नगश्रेष्ठ शिवमाया दुरत्यया ।

तदधीनास्त्रयो लोका हरिब्रह्मादयोपि च

॥२३॥

तस्मात्त्वया शिवा तात सुविचार्य प्रयत्नतः ।

न कर्तव्यो विमर्शोऽत्र त्वेवंविधवरे मनाक्

॥२४॥

ब्रह्मोवाच

इत्युक्त्वा त्वं मुने ज्ञानी शिवेच्छाकार्यकारकः ।

प्रत्यवोचः पुनस्तं वै शैलेद्रं हर्षयन्गिरा

॥२५॥

नारद उवाच

शृणु तात महाशैल शिवाजनक मद्वचः ।

तच्छ्रुत्वा तनयां देवीं देहि त्वं शंकराय हि

॥२६॥

सगुणस्य महेशस्य लीलया रूप धारिणः ।

गोत्रं कुलं विजानीहि नादमेव हि केवलम्

॥२७॥

शिवो नादमयः सत्त्यं नादश्शिवमयस्तथा ।

उभयोरन्तरं नास्ति नादस्य च शिवस्य च

॥२८॥

सृष्टौ प्रथमजत्वाद्धि लीलासगुणरूपिणः ।

शिवान्नादस्य शैलेन्द्र सर्वोत्कृष्टस्ततस्स हि

॥२९॥

अतो हि वादिता वीणा प्रेरितेन मयाद्य वै ।

सर्वेश्वरेण मनसा शङ्करेण हिमालय

॥३०॥

ब्रह्मोवाच

एतच्छ्रुत्वा तव मुने वचस्तत्तु गिरिश्वरः ।

हिमाद्रिस्तोषमापन्नो गतविस्मयमानसः

॥३१॥

अथ विष्णुप्रभृतयस्सुराश्च मुनयस्तथा ।

साधुसाध्विति ते सर्वे प्रोचुर्विगतविस्मयाः

॥३२॥

महेश्वरस्य गांभीर्यं ज्ञात्वा सर्वे विचक्षणाः ।

सविस्मया महामोदान्विताः प्रोचुः परस्परम्

॥३३॥

यस्याज्ञया जगदिदं च विशालमेव जातं परात्परतरो निजबोधरूपः ।

शर्वः स्वतन्त्रगतिकृत्परभावगम्यस्सोऽसौ त्रिलोकपतिरद्य च नस्सुदृष्टः

॥३४॥

अथ ते पर्वतश्रेष्ठा मेर्वाद्या जातसंभ्रमाः ।

ऊचुस्ते चैकपद्येन हिमवन्तं नगेश्वरम्

॥३५॥

पर्वता ऊचुः

कन्यादाने स्थीयतां चाद्य शैलनाथोक्त्या किं कार्यनाशस्तवेव ।

सत्यं ब्रूमो नात्र कार्यो विमर्शस्तस्मात्कन्या दीयतामीश्वराय

॥३६॥

ब्रह्मो वाच

तच्छुत्वा वचनं तेषां सुहृदां स हिमालयः ।

स्वकन्यादानमकरोच्छिवाय विधिनोदितः

॥३७॥

इमां कन्यां तुभ्यमहं ददामि परमेश्वर ।

भार्यार्थे परिगृह्णीष्व प्रसीद सकलेश्वर

॥३८॥

तस्मै रुद्राय महते मंत्रेणानेन दत्तवान् ।

हिमाचलो निजां कन्यां पार्वतीं त्रिजगत्प्रसूम्

॥३९॥

इत्थं शिवाकरं शैलं शिवहस्तेनिधाय च ।

मुमोदातीव मनसि तीर्णकाममहार्णवः

॥४०॥

वेदमंत्रेण गिरिशो गिरिजाकरपङ्कजम् ।

जग्राह स्वकरेणाशु प्रसन्नः परमेश्वरः

॥४१॥

क्षितिं संस्पृश्य कामस्य कोदादिति मनुं मुने ।

पपाठ शङ्करः प्रीत्या दर्शयँल्लौकिकीं गतिम्

॥४२॥

महोत्सवो महानासीत्सर्वत्र प्रमुदावहः ।

बभूव जयसंरावो दिवि भूम्यन्तरिक्षके

॥४३॥

साधुशब्दं नमः शब्दं चक्रुस्सर्वेऽति हर्षिताः ।

गंधर्वास्सुजगुः प्रीत्या ननृतुश्चाप्सरोगणाः

॥४४॥

हिमाचलस्य पौरा हि मुमुदु श्चाति चेतसि ।

मंगलं महदासीद्वै महोत्सवपुरस्सरम्

॥४५॥

अहं विष्णुश्च शक्रश्च निर्जरा मुनयोऽखिलाः ।

हर्षिता ह्यभवंश्चाति प्रफुल्लवदनाम्बुजाः

॥४६॥

अथ शैलवरस्सोदात्सुप्रसन्नो हिमाचलः ।

शिवाय कन्यादानस्य साङ्गतां सुयथोचिताम्

॥४७॥

ततो वन्धुजनास्तस्य शिवां सम्पूज्य भक्तितः ।

ददुश्शिवाय सद्द्रव्यं नानाविधिविधानतः

॥४८॥

हिमालयस्तुष्टमनाः पार्वतीशि वप्रीतये ।

नानाविधानि द्रव्याणि ददौ तत्र मुनीश्वर

॥४९॥

कौतुकानि ददौ तस्मै रत्नानि विविधानि च ।

चारुरत्नविकाराणि पात्राणि विविधानि च

॥५०॥

गवां लक्षं हयानां च सज्जितानां शतं तथा ।

दासीनामनुरक्तानां लक्षं सद्द्रव्यभूषितम्

॥५१॥

नागानां शतलक्षं हि रथानां च तथा मुने ।

सुवर्णजटितानां च रत्नसारविनिर्मितम्

॥५२॥

इत्थं हिमालयो दत्त्वा स्वसुतां गिरिजां शिवाम् ।

शिवाय परमेशाय विधिनाऽऽप कृतार्थताम्

॥५३॥

अथ शैलवरो माध्यंदिनोक्तस्तोत्रतो मुदा ।

तुष्टाव परमेशानं सद्गिरा सुकृताञ्जलिः

॥५४॥

ततो वेदविदा तेनाज्ञप्ता मुनिगणास्तदा ।

शिरोऽभिषेकं चक्रुस्ते शिवायाः परमोत्सवाः

॥५५॥

देवाभिधानमुच्चार्य्य पर्य्यक्षणविधिं व्यधुः ।

महोत्सवस्तदा चासीन्महानन्दकरो मुने

॥५६॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे कन्यादानवर्णनं नामाष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥