मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पार्वतीखण्डः, अध्याय ५

3
रुद्रसंहिता · पार्वतीखण्डः · 5

मेनावरलाभवर्णनः

नारद उवाच

अन्तर्हितायान्देव्यां तु दुर्गायां स्वगृहेषु च ।

गतेष्वमरवृन्देषु किमभूत्तदनन्तरम्

॥१॥

कथं मेनागिरीशौ च तेपाते परमन्तपः ।

कथं सुताऽभवत्तस्य मेनायान्तात तद्वद

॥२॥

ब्रह्मोवाच

विप्रवर्य सुतश्रेष्ठ शृणु तच्चरितं महत् ।

प्रणम्य शंकरं भक्त्या वच्मि भक्तिविवर्द्धनम्

॥३॥

उपदिश्य गते तात सुरवृन्दे गिरीश्वरः ।

हर्यादौ मेनका चापि तेपाते परमन्तपः

॥४॥

अहर्निशं शिवां शम्भुं चिन्तयन्तौ च दम्पती ।

सम्यगारेधतुर्नित्यं भक्तियुक्तेन चेतसा

॥५॥

गिरिप्रियातीव मुदानर्च देवीं शिवेन सा ।

दानन्ददौ द्विजेभ्यश्च सदा तत्तोषहेतवे

॥६॥

चैत्रमासं समारभ्य सप्तविंशतिवत्सरान् ।

शिवां सम्पूजयामासापत्त्यार्थिन्यन्वहं रता

॥७॥

अष्टम्यामुपवासन्तु कृत्वादान्नवमीतिथौ ।

मोदकैर्बलिपिष्टैश्च पायसैर्गन्धपुष्पकैः

॥८॥

गङ्गायामौषधिप्रस्थे कृत्वा मूर्तिं महीमयीम् ।

उमायाः पूजयामास नानावस्तुसमर्पणैः

॥९॥

कदाचित्सा निराहारा कदाचित्सा धृतव्रता ।

कदाचित्पवनाहारा कदाचिज्जलभुग्ह्यभूत्

॥१०॥

शिवाविन्यस्तचेतस्का सप्तविंशतिवत्सरान् ।

निनाय मेनका प्रीत्या परं सा मृष्टवर्चसा

॥११॥

सप्तविंशतिवर्षान्ते जगन्माता जगन्मयी ।

सुप्रीताभवदत्यर्थमुमा शंकरकामिनी

॥१२॥

अनुग्रहाय मेनायाः पुरतः परमेश्वरी ।

आविर्बभूव सा देवी सन्तुष्टा तत्सुभक्तितः

॥१३॥

दिव्यावयवसंयुक्ता तेजोमण्डलमध्यगा ।

उवाच विहसन्ती सा मेनां प्रत्यक्षतां गता

॥१४॥

देव्युवाच

वरं ब्रूहि महासाध्वि यत्ते मनसि वर्तते ।

सुप्रसन्ना च तपसा तवाहं गिरिकामिनि

॥१५॥

यत्प्रार्थितं त्वया मेने तपोव्रतसमाधिना ।

दास्ये तेऽहं च तत्सर्वं वाञ्छितं यद्यदा भवेत्

॥१६॥

ततस्सा मेनका देवीं प्रत्यक्षां कालिकान्तदा ।

दृष्ट्वा च प्रणनामाथ वचनं चेदमब्रवीत्

॥१७॥

मेनोवाच

देवि प्रत्यक्षतो रूपन्दृष्टन्तव मयाऽधुना ।

त्वामहं स्तोतुमिच्छामि प्रसन्ना भव कालिके

॥१८॥

ब्रह्मोवाच

अथ सा मेनयेत्युक्ता कालिका सर्वमोहिनी ।

बाहुभ्यां सुप्रसन्नात्मा मेनकां परिषस्वजे

॥१९॥

ततः प्राप्तमहाज्ञाना मेनका कालिकां शिवम् ।

तुष्टाव वाग्भि रिष्टाभिर्भक्त्या प्रत्यक्षतां गताम्

॥२०॥

मेनोवाच

महामायां जगद्धात्रीं चण्डिकां लोकधारिणीम् ।

प्रणमामि महादेवीं सर्वकामार्थदायिनीम्

॥२१॥

नित्यानन्दकरीं मायां योगनिद्रां जगत्प्रसूम् ।

प्रणमामि सदासिद्धां शुभसारसमालिनीम्

॥२२॥

मातामहीं सदानन्दां भक्तशोकविनाशिनीम् ।

आकल्पं वनितानां च प्राणिनां बुद्धिरूपिणीम्

॥२३॥

सा त्वं बंधच्छेदहेतुर्यतीनां कस्ते गेयो मादृशीभिः प्रभावः ।

हिंसाया वाथर्ववेदस्य सा त्वं नित्यं कामं त्वं ममेष्टं विधेहि

॥२४॥

नित्यानित्यैर्भावहीनैः परास्तैस्तत्तन्मात्रैर्योज्यते भूतवर्गः ।

तेषां शक्तिस्त्वं सदा नित्यरूपा काले योषा योगयुक्ता समर्था

॥२५॥

योनिर्धरित्री जगतां त्वमेव त्वमेव नित्या प्रकृतिः परस्तात् ।

यथा वशं क्रियते ब्रह्मरूपं सा त्वं नित्या मे प्रसीदाद्य मातः

॥२६॥

त्वं जातवेदोगतशक्तिरुग्रा त्वं दाहिका सूर्यकरस्य शक्तिः ।

आह्लादिका त्वं बहुचन्द्रिका या तान्त्वामहं स्तौमि नमामि चण्डीम्

॥२७॥

योषाणां सत्प्रिया च त्वं नित्या त्वं चोर्ध्वरेतसाम् ।

वांछा त्वं सर्वजगतां धाया च त्वं यथा हरेः

॥२८॥

या चेष्टरूपाणि विधाय देवी सृष्टिस्थितानाशमयी च कर्त्री ।

ब्रह्माच्युतस्थाणुशरीरहेतुस्सा त्वं प्रसीदाद्य पुनर्नमस्ते

॥२९॥

ब्रह्मोवाच

तत इत्थं स्तुता दुर्गा कालिका पुनरेव हि ।

उवाच मेनकां देवीं वांछितं वरयेत्युत

॥३०॥

उमोवाच

प्राणप्रिया मम त्वं हि हिमाचलविलासिनी ।

यदिच्छसि ध्रुवन्दास्ये नादेयं विद्यते मम

॥३१॥

इति श्रुत्वा महेशान्याः पीयूषसदृशं वचः ।

उवाच परितुष्टा सा मेनका गिरिकामिनी

॥३२॥

मेनोवाच

शिवे जयजय प्राज्ञे महेश्वरि भवाम्बिके ।

वरयोग्यास्महं चेत्ते वृणे भूयो वरं वरम्

॥३३॥

प्रथमं शतपुत्रा मे भवन्तु जगदम्बिके ।

बह्वायुषो वीर्यवन्त ऋद्धिसिद्धिसमन्विताः

॥३४॥

पश्चात्तथैका तनया स्वरूपगुणशालिनी ।

कुलद्वयानंदकरी भुवनत्रयपूजिता

॥३५॥

सुता भव मम शिवे देवकार्यार्थमेव हि ।

रुद्रपत्नी भव तथा लीलां कुरु भवाम्बिके

॥३६॥

ब्रह्मोवाच

तच्छ्रुत्वा मेनकोक्तं हि प्राह देवी प्रसन्नधीः ।

स्मितपूर्वं वचस्तस्याः पूरयन्ती मनोरथम्

॥३७॥

देव्युवाच

शतपुत्रास्सं भवन्तु भवत्या वीर्यसंयुताः ।

तत्रैको बलवान्मुख्यः प्रधमं संभविष्यति

॥३८॥

सुताहं संभविष्यामि सन्तुष्टा तव भक्तितः ।

देव कार्यं करिष्यामि सेविता निखिलैस्सुरैः

॥३९॥

ब्रह्मोवाच

एवमुक्त्वा जगद्धात्री कालिका परमेश्वरी ।

पश्यन्त्या मेनकायास्तु तत्रैवान्तर्दधे शिवा

॥४०॥

मेनकापि वरं लब्ध्वा महेशान्या अभी प्सितम् ।

मुदं प्रापामितां तात तपःक्लेशोप्यनश्यत

॥४१॥

दिशि तस्यां नमस्कृत्य सुप्रहृष्टमनास्सती ।

जयशब्दं प्रोच्चरंती स्वस्थानम्प्रविवेश ह

॥४२॥

अथ तस्मै स्वपतये शशंस सुवरं च तम् ।

स्वचिह्नबुद्धमिव वै सुवाचा पुनरुक्तया

॥४३॥

श्रुत्वा शैलपतिर्हृष्टोऽभवन्मेनावचो हि तत् ।

प्रशशंस प्रियां प्रीत्या शिवाभक्तिरतां च ताम्

॥४४॥

कालक्रमेणाऽथ तयोः प्रवृत्ते सुरते मुने ।

गर्भो बभूव मेनाया ववृधे प्रत्यहं च सः

॥४५॥

असूत सा नागवधूपभोग्यं सुतमुत्तमम् ।

समुद्रबद्धसत्सख्यं मैनाकाभिधमद्भुतम्

॥४६॥

वृत्रशत्रावपि क्रुद्धे वेदनाशं सपक्षकम् ।

पविक्षतानां देवर्षे पक्षच्छिदि वराङ्गकम्

॥४७॥

प्रवरं शतपुत्राणां महाबलपराक्रमम् ।

स्वोद्भवानां महीध्राणां पर्वतेन्द्रैकधिष्ठितम्

॥४८॥

आसीन्महोत्सवस्तत्र हिमाचलपुरेऽद्भुतः ।

दम्पत्योः प्रमुदाधिक्यं बभूव क्लेशसंक्षयः

॥४९॥

दानन्ददौ द्विजातिभ्योऽन्येभ्यश्च प्रददौ धनम् ।

शिवाशिवपदद्वन्द्वे स्नेहोऽभूदधिकस्तयोः

॥५०॥

इति श्रीशिवमहापुराणे द्वितीयायां रु० सं० तृतीये पार्वतीखंडे मेनावरलाभवर्णनो नाम पंचमोऽध्यायः ॥ ५ ॥