पार्वतीजन्मवर्णनम्
ब्रह्मोवाच
अथ संस्मरतुर्भक्त्या दम्पती तौ भवाम्बिकाम् ।
प्रसूतिहेतवे तत्र देवकार्यार्थमादरात्
॥१॥ततस्सा चण्डिका योगात्त्यक्तदेहा पुरा पितुः ।
ईहया भतितुं भूयस्समैच्छद्रिरिदारतः
॥२॥सत्यं विधातुं स्ववचः प्रसन्नाखिलकामदा ।
पूर्णांशाच्छैलचित्ते सा विवेशाथ महेश्वरी
॥३॥विरराज ततस्सोतिप्रमदोपूर्वसुद्युतिः ।
हुताशन इवाधृष्यस्तेजोराशिर्महामनाः
॥४॥ततो गिरिस्स्वप्रियायां परिपूर्णं शिवांशकम् ।
समाधिमत्वात्समये समधत्त सुशंकरे
॥५॥समधत्त गिरेः पत्नी गर्भं देव्याः प्रसादतः ।
चित्ते स्थितायाः करुणाकरायाः सुखदं गिरेः
॥६॥गिरिप्रिया सर्वजगन्निवासासंश्रयाधिकम् ।
विरेजे सुतरां मेना तेजोमण्डलगा सदा
॥७॥सुखोदयं स्वभर्तुश्च मेना दौहृदलक्षणम् ।
दधौ निदानन्देवानामानन्दस्येप्सितं शुभम्
॥८॥देह सादादसंपूर्णभूषणा लोध्रसंमुखा ।
स्वल्पभेन्दुक्षये कालं विचेष्यर्क्षा विभावरी
॥९॥तदाननं मृत्सुरभिनायं तृप्तिं गिरीश्वरः ।
मुने रहस्युपाघ्राय प्रेमाधिक्यं बभूव तत्
॥१०॥मेना स्पृहावती केषु न मे शंसति वस्तुषु ।
किंचिदिष्टं ह्रियापृच्छदनुवेलं सखी गिरिः
॥११॥उपेत्य दौहदं शल्यं यद्वव्रेऽपश्यदाशु तत् ।
आनीतं नेष्टमस्याद्धा नासाध्यं त्रिदिवैऽपि हि
॥१२॥प्रचीयमानावयवा निस्तीर्य दोहदव्यथाम् ।
रेजे मेना बाललता नद्धपत्राधिका यथा
॥१३॥गिरिस्सगर्भां महिषीममंस्त धरणीमिव ।
निधानगर्भामभ्यन्तर्लीनवह्निं शमीमिव
॥१४॥प्रियाप्रीतेश्च मनसः स्वार्जितद्रविणस्य च ।
समुन्नतैः श्रुतेः प्राज्ञः क्रियाश्चक्रे यथोचिताः
॥१५॥ददर्श काले मेनां स प्रतीतः प्रसवोन्मुखीम् ।
अभ्रितां च दिवं गर्भगृहे भिषगधिष्ठिते
॥१६॥दृष्ट्वा प्रियां शुभाङ्गी वै मुमोदातिगिरीश्वरः ।
गर्भस्थजगदम्बां हि महातेजोवतीन्तदा
॥१७॥तस्मिन्नवसरे देवा मुने विष्ण्वादयस्तथा ।
मुनयश्च समागम्य गर्भस्थां तुष्टुवुश्शिवाम्
॥१८॥देवा ऊचुः
दुर्गे जय जय प्राज्ञे जगदम्ब महेश्वरि ।
सत्यव्रते सत्यपरे त्रिसत्ये सत्यरूपिणी
॥१९॥सत्यस्थे सत्यसुप्रीते सत्ययोने च सत्यतः ।
सत्यसत्ये सत्यनेत्रे प्रपन्नाः शरणं च ते
॥२०॥शिवप्रिये महेशानि देवदुःखक्षयंकरि ।
त्रैलोक्यमाता शर्वाणी व्यापिनी भक्तवत्सला
॥२१॥आविर्भूय त्रिलोकेशि देवकार्यं कुरुष्व ह ।
सनाथाः कृपया ते हि वयं सर्वे महेश्वरि
॥२२॥त्वत्तः सर्वे च सुखिनो लभन्ते सुखमुत्तमम् ।
त्वाम्विना न हि किंचिद्वै शोभते त्रिभवेष्वपि
॥२३॥ब्रह्मोवाच
इत्थं कृत्वा महेशान्या गर्भस्थाया बहुस्तुतिम् ।
प्रसन्नमनसो देवास्स्वं स्वं धाम ययुस्तदा
॥२४॥व्यतीते नवमे मासे दशमे मासि पूर्णतः ।
गर्भस्थाया गतिन्द्रध्रे कालिका जगदम्बिका
॥२५॥तदा सुसमयश्चासीच्छान्तभग्रहतारकः ।
नभः प्रसन्नतां यातं प्रकाशस्सर्वदिक्षु हि
॥२६॥मही मंगलभूयिष्ठा सवनग्रामसागरा ।
सरस्स्रवन्तीवापीषु पुफुल्लुः पंकजानि वै
॥२७॥ववुश्च विविधा वातास्सुखस्पर्शा मुनीश्वर ।
मुमुदुस्साधवस्सर्वेऽसतान्दुःखमभूद्द्रुतम्
॥२८॥दुन्दुभीन्वादयामासुर्नभस्यागत्य निर्जराः ।
पुष्पवृष्टिरभूत्तत्र जगुर्गन्धर्वसत्तमाः
॥२९॥विद्याधरस्त्रियो व्योम्नि ननृतुश्चाप्सरास्तथा ।
तदोत्सवो महानासीद्देवादीनां नभःस्थले
॥३०॥तस्मिन्नवसरे देवी पूर्वशक्तिश्शिवा सती ।
आविर्बभूव पुरतो मेनाया निजरूपतः
॥३१॥वसंतर्तौ मधौ मासे नवम्यां मृगधिष्ण्यके ।
अर्द्धरात्रे समुत्पन्ना गंगेव शशिमण्डलात्
॥३२॥समये तत्स्वरूपेण मेनका जठराच्छिवा ।
समुद्भूय समुत्पन्ना सा लक्ष्मीरिव सागरात्
॥३३॥ततस्तस्यां तु जातायां प्रसन्नोऽभूत्तदा भवः ।
अनुकूलो ववौ वायुर्गम्भीरो गंधयुक्शुभः
॥३४॥बभूव पुष्पवृष्टिश्च तोयवृष्टि पुरस्सरम् ।
जज्वलुश्चाग्नयः शान्ता जगर्जुश्च तदा घनाः
॥३५॥तस्यां तु जायमानायां सर्वस्वं समपद्यत ।
हिमवन्नगरे तत्र सर्व दुःखं क्षयं गतम्
॥३६॥तस्मिन्नवसरे तत्र विष्ण्वाद्यास्सकलास्सुराः ।
आजग्मुः सुखिनः प्रीत्या ददृशुर्जगदम्बिकाम्
॥३७॥तुष्टुवुस्तां शिवामम्बां कालिकां शिवकामिनीम् ।
दिव्यारूपां महामायां शिवलोकनिवासिनीम्
॥३८॥देवा ऊचुः
जगदम्ब महादेवि सर्वसिद्धिविधायिनि ।
देवकार्यकरी त्वं हि सदातस्त्वां नमामहे
॥३९॥सर्वथा कुरु कल्याणं देवानां भक्तवत्सले ।
मेनामनोरथः पूर्णः कृतः कुरु हरस्य च
॥४०॥ब्रह्मोवाच
इत्थं स्तुत्वा शिवां देवीं विष्ण्वाद्या सुप्रणम्य ताम् ।
स्वंस्वं धाम ययुः प्रीताश्शंसन्तस्तद्गतिं पराम्
॥४१॥तान्तु दृष्ट्वा तथा जातां नीलोत्पलदलप्रभाम ।
श्यामा सा मेनका देवी मुदमापाति नारद
॥४२॥दिव्यरूपं विलोक्यानु ज्ञानमाप गिरिप्रिया ।
विज्ञाय परमेशानीं तुष्टावातिप्रहर्षिता
॥४३॥मेनोवाच
जगदम्ब महेशानि कृतातिकरुणा त्वया ।
आविर्भूता मम पुरो विलसन्ती यदम्बिके
॥४४॥त्वमाद्या सर्वशक्तीनां त्रिलोकजननी शिवे ।
शिवप्रिया सदा देवी सर्वदेवस्तुता परा
॥४५॥कृपां कुरु महेशानि मम ध्यानस्थिता भव ।
एतद्रूपेण प्रत्यक्षं रूपं धेहि सुतासमम्
॥४६॥ब्रह्मोवाच
इत्याकर्ण्य वचस्तस्या मेनाया भूधरस्त्रियाः ।
प्रत्युवाच शिवा देवी सुप्रसवामअरिप्रियाम्
॥४७॥देव्युवाच
हे मेने त्वं पुरा मां च सुसेवितवती रता ।
त्वद्भक्त्या सुप्रसन्नाहं वरन्दातुं गतान्तिकम्
॥४८॥वरं ब्रूहीति मद्वाणीं श्रुत्वा ते तद्वरो वृतः ।
सुता भव महादेवी सा मे देवहितं कुरु
॥४९॥तथा दत्त्वा वरं तेऽहं गता स्वम्पदमादरात् ।
समयं प्राप्य तनया भवन्ते गिरिकामिनि
॥५०॥दिव्यरूपं धृतं मेद्य यत्ते मत्स्मरणं भवेत् ।
अन्यथा मर्त्यभावेन तवाज्ञानं भवेन्मयि
॥५१॥युवां मां पुत्रिभावेन दिव्यभावेन वा सकृत् ।
चिन्तयन्तौ कृतस्नेहौ यातास्स्थो मद्गतिम्पराम्
॥५२॥देवकार्यं करिष्यामि लीलां कृत्वा द्भुतां क्षितौ ।
शम्भुपत्नी भविष्यामि तारयिष्यामि सज्जनान्
॥५३॥ब्रह्मोवाच
इत्युक्त्वासीच्छिवा तूष्णीमम्बिका स्वात्त्ममायया ।
पश्यन्त्यां मातरि प्रीत्या सद्योऽऽभूत्तनया तनुः
॥५४॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीजन्मवर्णनं नाम षष्टोऽध्यायः ॥ ६ ॥