विधे तात महाप्राज्ञ विष्णुशिष्य त्रिलोककृत्
नारद उवाच
विधे तात महाप्राज्ञ विष्णुशिष्य त्रिलोककृत् ।
अद्भुतेयं कथा प्रोक्ता शंकरस्य महात्मनः
॥१॥भस्मीभूते स्मरे शंभुतृतीयनयनाग्निना ।
तस्मिन्प्रविष्टे जलधौ वद त्वं किमभूत्ततः
॥२॥किं चकार ततो देवी पार्वती कुधरात्मजः ।
गता कुत्र सखीभ्यां सा तद्वदाद्य दयानिधे
॥३॥ब्रह्मोवाच
शृणु तात महाप्राज्ञ चरितं शशिमौलिनः ।
महोतिकारकस्यैव स्वामिनो मम चादरात्
॥४॥यदाहच्छंभुनेत्रोद्भवो हि मदनं शुचिः ।
महाशब्दोऽद्भुतोऽभूद्वै येनाकाशः प्रपूरितः
॥५॥तेन शब्देन महता कामं दग्धं समीक्ष्य च ।
सखीभ्यां सह भीता सा ययौ स्वगृहमाकुला
॥६॥तेन शब्देन हिमवान्परिवारसमन्वितः ।
विस्मितोऽभूदतिक्लिष्टस्सुतां स्मृत्वा गतां ततः
॥७॥जगाम शोकं शैलेशो सुतां दृष्ट्वातिविह्वलाम् ।
रुदतीं शंभुविरहादाससादाचलेश्वरः
॥८॥आसाद्य पाणिना तस्या मार्जयन्नयनद्वयम् ।
मा बिभीहि शिवेऽरोदीरित्युक्त्वा तां तदाग्रहीत्
॥९॥क्रोडे कृत्वा सुतां शीघ्रं हिम वानचलेश्वरः ।
स्वमालयमथानिन्ये सांत्वयन्नतिविह्वलाम्
॥१०॥अंतर्हिते स्मरं दग्ध्वा हरे तद्विरहाच्छिवा ।
विकलाभूद् भृशं सा वै लेभे शर्म न कुत्रचित्
॥११॥पितुर्गृहं तदा गत्वा मिलित्वा मातरं शिवा ।
पुनर्जातं तदा मेने स्वात्मानं सा धरात्मजा
॥१२॥निनिंद च स्वरूपं सा हा हतास्मीत्यथाब्रवीत् ।
सखीभिर्बोधिता चापि न बुबोध गिरीन्द्रजा
॥१३॥स्वपती च पिबंती च सा स्नाती गच्छती शिवा ।
तिष्ठंती च सखीमध्ये न किंचित्सुखमाप ह
॥१४॥धिक्स्वरूपं मदीयं च तथा जन्म च कर्म च ।
इति ब्रुवंती सततं स्मरंती हरचेष्टितम्
॥१५॥एवं सा पार्वती शंभुविरहोत्क्लिष्टमानसा ।
सुखं न लेभे किंचिद्राऽब्रवीच्छिवशिवेति च
॥१६॥निवसंती पितुर्ग्गेहे पिनाकिगतचेतना ।
शुशोचाथ शिवा तात मुमोह च मुहुर्मुहुः
॥१७॥शैलाधिराजोप्यथ मेनकापि मैनाकमुख्यास्तनयाश्च सर्वे ।
तां सांत्वयामासुरदीनसत्त्वा हरं विसस्मार तथापि नो सा
॥१८॥अथ देवमुने धीमन्हिमव त्प्रस्तरे तदा ।
नियोजितो बलभिदागमस्त्वं कामचारतः
॥१९॥ततस्त्वं पूजितस्तेन भूधरेण महात्मना ।
कुशलं पृष्टवांस्तं वै तदाविष्टो वरासने
॥२०॥ततः प्रोवाच शैलेशः कन्याचरितमादितः ।
हरसेवान्वितं कामदहनं च हरेण ह
॥२१॥श्रुत्वावोचो मुने त्वं तु तं शैलेशं शिवं भज ।
तमामंत्र्योदतिष्ठस्त्वं संस्मृत्य मनसा शिवम्
॥२२॥तं समुत्सृज्य रहसि कालीं तामगमंस्त्वरा ।
लोकोपकारको ज्ञानी त्वं मुने शिववल्लभः
॥२३॥आसाद्य कालीं संबोध्य तद्धिते स्थित आदरात् ।
अवोचस्त्वं वचस्तथ्यं सर्वेषां ज्ञानिनां वरः
॥२४॥नारद उवाच
शृणु कालि वचो मे हि सत्यं वच्मि दयारतः ।
सर्वथा ते हितकरं निर्विकारं सुकामदम्
॥२५॥सेवितश्च महादेवस्त्वयेह तपसा विना ।
गर्ववत्या यदध्वंसीद्दीनानुग्रहकारकः
॥२६॥विरक्तश्च स ते स्वामी महायोगी महेश्वरः ।
विसृष्टवान्स्मरं दग्ध्वा त्वां शिवे भक्तवत्सलः
॥२७॥तस्मात्त्वं सुतपोयुक्ता चिरमाराधयेश्वरम् ।
तपसा संस्कृतां रुद्रस्स द्वितीयां करिष्यति
॥२८॥त्वं चापि शंकरं शम्भुं न त्यक्ष्यसि कदाचन ।
नान्यं पतिं हठाद्देवि ग्रहीष्यसि शिवादृते
॥२९॥ब्रह्मोवाच
इत्याकर्ण्यवचस्ते हि मुने सा भूधरात्मजा ।
किंचिदुच्छ्वसिता काली प्राह त्वां सांजलिर्मुदा
॥३०॥शिवोवाच
त्वं तु सर्वज्ञ जगतामुपकारकर प्रभो ।
रुद्रस्याराधनार्थाय मंत्रं देहि मुने हि मे
॥३१॥न सिद्यति क्रिया कापि सर्वेषां सद्गुरुं विना ।
मया श्रुता पुरा सत्यं श्रुतिरेषा सनातनी
॥३२॥ब्रह्मोवाच
इति श्रुत्वा वचस्तस्याः पार्वत्या मुनिसत्तमः ।
पंचाक्षरं शम्भुमन्त्रं विधिपूर्वमुपादिशः
॥३३॥अवोचश्च वचस्तां त्वं श्रद्धामुत्पादयन्मुने ।
प्रभावं मन्त्रराजस्य तस्य सर्वाधिकं मुने
॥३४॥नारद उवाच
शृणु देवि मनोरस्य प्रभावं परमाद्भुतम् ।
यस्य श्रवणमात्रेण शंकरस्तु प्रसीदति
॥३५॥मंत्रोयं सर्वमंत्राणामधिराजश्च कामदः ।
भुक्तिमुक्तिप्रदोऽत्यंतं शंकरस्य महाप्रियः
॥३६॥सुभगे येन जप्तेन विधिना सोऽचिराद् द्रुतम् ।
आराधितस्ते प्रत्यक्षो भविष्यति शिवो ध्रुवम्
॥३७॥चिंतयती च तद्रूपं नियमस्था शराक्षरम् ।
जप मन्त्रं शिवे त्वं हि संतुष्यति शिवो द्रुतम्
॥३८॥एवं कुरु तप साध्वि तपस्साध्यो महेश्वरः ।
तपस्येव फलं सर्वैः प्राप्यते नान्यथा क्वचित्
॥३९॥ब्रह्मोवाच
एवमुक्त्वा तदा कालीं नारद त्वं शिवप्रियः ।
यादृच्छिकोऽगमस्त्वं तु स्वर्गं देवहिते रतः
॥४०॥पार्वती च तदा श्रुत्वा वचनं तव नारद ।
सुप्रसन्ना तदा प्राप पंचाक्षरमनूत्तमम्
॥४१॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे नारदोपदेशो नामैकविंशोऽध्यायः ॥ २१ ॥