भौमोत्पत्तिशिवलीलावर्णनम्
नारद उवाच
विष्णुशिष्य महाभाग विधे शैववर प्रभो ।
शिवलीलामिमां व्यासात्प्रीत्या मे वक्तुमर्हसि
॥१॥सतीविरहयुक्शंम्भुः किं चक्रे चरितन्तथा ।
तपः कर्तुं कदायातो हिमवत्प्रस्थमुत्तमम्
॥२॥शिवाशिवशिवादो ऽभूत्कथं कामक्षयश्च मे ।
तपः कृत्वा कथम्प्राप शिवं शम्भुं च पार्वती
॥३॥तत्सर्वमपरं चापि शिवसच्चरितं परम् ।
वक्तुमर्हसि मे ब्रह्मन्महानन्दकरं शुभम्
॥४॥सूत उवाच
इति श्रुत्वा नारदस्य प्रश्नं लोकाधिपोत्तमः ।
विधिः प्रोवाच सुप्रीत्या स्मृत्वा शिवपदाम्बुजम्
॥५॥ब्रह्मोवाच
देवर्षे शैववर्याय तद्यशः शृणु चादरात् ।
पावनं मङ्गलकरं भक्तिवर्धनमुत्तमम्
॥६॥आगत्य स्वगिरिं शम्भुः प्रियाविरहकातरः ।
सस्मार स्वप्रियां देवीं सतीं प्राणाधिकां हृदा
॥७॥गणानाभाष्य शोचंस्तां तद्गुणान्प्रे मवर्धनान् ।
वर्णयामास सुप्रीत्या दर्शयँल्लौकिकीं गतिम्
॥८॥दिगम्बरो बभूवाथ त्यक्त्वा गार्हस्थ्यसद्गतिम् ।
पुनर्बभ्राम लोकन्वै सर्वाँल्लीलाविशारदः
॥९॥दर्शनम्प्राप्य कुत्रापि सतीविरहदुःखितः ।
पुनश्च गिरिमायातश्शंकरो भक्तशंकरः
॥१०॥समाधाय मनो यत्नात्समाधिन्दुःखनाशिनम ।
चकार च ददर्शासौ स्वरूपं निजमव्ययम्
॥११॥इत्थं चिरतरं स्थाणुस्तस्थौ ध्वस्तगुणत्रयः ।
निर्विकारी परम्ब्रह्म मायाधीशस्स्वयंप्रभुः
॥१२॥ततस्समाधिन्तत्त्याज व्यतीय ह्यमितास्समाः ।
यदा तदा बभूवाशु चरितं तद्वदामि वः
॥१३॥प्रभोर्ललाटदेशात्तु यत्पृषच्छ्रमसंभवम् ।
पपात धरणौ तत्र स बभूव शिशुर्द्रुतम्
॥१४॥चतुर्भुजोऽरुणाकारो रमणीयाकृतिर्मुने ।
अलौकिकद्युतिः श्रीमाँस्तेजस्वी परदुस्सहः
॥१५॥रुरोद स शिशुस्तस्य पुरो हि परमेशितुः ।
प्राकृतात्मजवत्तत्र भवाचाररतस्य हि
॥१६॥तदा विचार्य सुधिया धृत्वा सुस्त्रीतनुं क्षितिः ।
आविर्बभूव तत्रैव भयमानीय शंकरात्
॥१७॥तम्बालं द्रुतमुत्थाय क्रोडयां निदधे वरम् ।
स्तन्यं सापाययत्प्रीत्या दुग्धं स्वोपरिसम्भवम्
॥१८॥चुचुम्ब तन्मुखं स्नेहात्स्मित्वा क्रीडयदात्मजम् ।
सत्यभावात्स्वयं माता परमेशहितावहा
॥१९॥तद्दृष्ट्वा चरितं शम्भुः कौतुकी सूतिकृत्कृती ।
अन्तर्यामी विहस्याथोवाच ज्ञात्वा रसां हरः
॥२०॥धन्या त्वं धरणि प्रीत्या पालयैतं सुतं मम ।
त्वय्युद्भूतंश्रमजलान्महातेजस्विनो वरम्
॥२१॥मम श्रमकभूर्बालो यद्यपि प्रियकृत्क्षिते ।
त्वन्नाम्ना स्याद्भवेत्ख्यातस्त्रितापरहितस्सदा
॥२२॥असौ बालः कुदाता हि भविष्यति गुणी तव ।
ममापि सुखदाता हि गृहाणैनं यथारुचि
॥२३॥ब्रह्मोवाच
इत्युक्त्वा विररामाथ किंचिद्विरहमुक्तधीः ।
लोकाचारकरो रुद्रो निर्विकारी सताम्प्रियः
॥२४॥अपि क्षितिर्जगामाशु शिवाज्ञामधिगम्य सा ।
स्वस्थानं ससुता प्राप सुखमात्यंतिकं च वै
॥२५॥स बालो भौम इत्याख्यां प्राप्य भूत्वा युवा द्रुतम् ।
तस्यां काश्यां चिरं कालं सिषेवे शंकरम्प्रभुम्
॥२६॥विश्वेश्वरप्रसादेन ग्रहत्वं प्राप्य भूमिजः ।
दिव्यं लोकं जगामाशु शुक्रलोकात्परं वरम्
॥२७॥इत्युक्तं शम्भुचरितं सतीविरहसंयुतम् ।
तपस्याचरणं शम्भोश्शृणु चादरतो मुने
॥२८॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे भौमोत्पत्तिशिवलीलावर्णनं नाम दशमोऽध्यायः ॥ १० ॥