मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पार्वतीखण्डः, अध्याय १८

3
रुद्रसंहिता · पार्वतीखण्डः · 18

तत्र गत्वा स्मरो गर्वी शिवमायाविमोहितः

ब्रह्मोवाच

तत्र गत्वा स्मरो गर्वी शिवमायाविमोहितः ।

मोहकस्समधोश्चादौ धर्मं विस्तारयन्स्थितः

॥१॥

वसंतस्य च यो धर्म्मः प्रससार स सर्वतः ।

तपस्थाने महेशस्यौषधिप्रस्थे मुनीश्वर

॥२॥

वनानि च प्रफुल्लानि पादपानां महामुने ।

आसन्विशेषतस्तत्र तत्प्रभावान्मुनीश्वर

॥३॥

पुष्पाणि सहकाराणामशोकवनिकासु वै ।

विरेजुस्सुस्मरोद्दीपकाराणि सुरभीण्यपि

॥४॥

कैरवाणि च पुष्पाणि भ्रमराकलितानि च ।

बभूबुर्मदनावेशकराणि च विशेषतः

॥५॥

सकामोद्दीपनकरं कोकिलाकलकूजितम् ।

आसीदति सुरम्यं हि मनोहरमतिप्रियम्

॥६॥

भ्रमराणां तथा शब्दा विविधा अभवन्मुने ।

मनोहराश्च सर्वेषां कामोद्दीपकरा अपि

॥७॥

चंद्रस्य विशदा कांतिर्विकीर्णा हि समंतत ।

कामिनां कामिनीनां च दूतिका इव साभवत्

॥८॥

मानिनां प्रेरणायासीत्तत्काले कालदीपिका ।

मारुतश्च सुखः साधो ववौ विरहिणोऽप्रियः

॥९॥

एवं वसंतविस्तारो मदनावेशकारकः ।

वनौकसां तदा तत्र मुनीनां दुस्सहोऽत्यभूत्

॥१०॥

अचेतसामपि तदा कामासक्तिरभून्मुने ।

सुचेतासां हि जीवानां सेति किं वर्ण्यते कथा ।

एवं चकार स मधुस्स्वप्रभावं सुदुस्सहम् ।

सर्वेषा चैव जीवानां कामोद्दीपनकारकः

॥१२॥

अकालनिमितं तात मधोर्वीक्ष्य हरस्तदा ।

आश्चर्य्यं परमं मेने स्वलीलात्ततनुः प्रभुः

॥१३॥

अथ लीलाकरस्तत्र तपः परमदुष्करम् ।

तताप स वशीशो हि हरो दुःखहरः प्रभुः

॥१४॥

वसंते प्रसृते तत्र कामो रतिसमन्वितः ।

चूतं बाणं समाकृष्य स्थितस्तद्वामपार्श्वतः

॥१५॥

स्वप्रभावं वितस्तार मोहयन्सकलाञ्जनान् ।

रत्यायुक्तं तदा कामं दृष्ट्वा को वा न मोहितः

॥१६॥

एवं प्रवृत्तसुरतौ शृंगारोऽपि गणैस्सह ।

हावभावयुतस्तत्र प्रविवेश हरांतिकम्

॥१७॥

मदनः प्रकटस्तत्र न्यवसच्चित्तगो बहिः ।

न दृष्टवांस्तदा शंभोश्छिद्रं येन प्रविश्यते

॥१८॥

यदा चाप्राप्तविवरस्तस्मिन्योगिवरे स्मरः ।

महादेवस्तदा सोऽभून्महाभयविमोहितः

॥१९॥

ज्वलज्ज्वालाग्निसंकाशं भालनेत्रसमन्वितम् ।

ध्यानस्थं शंकरं को वा समासादयितुं क्षमः

॥२०॥

एतस्मिन्नंतरे तत्र सखीभ्यां संयुता शिवा ।

जगाम शिवपूजार्थं नीत्वा पुष्पाण्यनेकशः

॥२१॥

पृथिव्यां यादृशं लोकैस्सौंदर्यं वर्ण्यते महत् ।

तत्सर्वमधिकं तस्यां पार्वत्यामस्ति निश्चितम्

॥२२॥

आर्तवाणि सुपुष्पाणि धृतानि च तया यदा ।

तत्सौंदर्यं कथं वर्ण्यमपि वर्षशतैरपि

॥२३॥

यदा शिवसमीपे तु गता सा पर्वतात्मजा ।

तदैव शंकरो ध्यानं त्यक्त्वा क्षणमवस्थितः

॥२४॥

तच्छिद्रं प्राप्य मदनः प्रथमं हर्षणेन तु ।

बाणेन हर्षयामास पार्श्वस्थं चन्द्रशेखरम्

॥२५॥

शृंगारैश्च तदा भावैस्सहिता पार्वती हरम् ।

जगाम कामसाहाय्ये मुने सुरभिणा सह

॥२६॥

तदेवाकृष्य तच्चापं रुच्यर्थं शूलधारिणः ।

द्रुतं पुष्पशरं तस्मै स्मरोऽमुंचत्सुसंयतः

॥२७॥

यथा निरंतरं नित्यमागच्छति तथा शिवम् ।

तन्नमस्कृत्य तत्पूजां कृत्वा तत्पुरतः स्थिता

॥२८॥

सा दृष्टा पार्वती तत्र प्रभुणा गिरिशेन हि ।

विवृण्वती तदांगानि स्त्रीस्वभावात्सुलज्जया

॥२९॥

सुसंस्मृत्य वरं तस्या विधिदत्तं पुरा प्रभुः ।

शिवोपि वर्णयामास तदंगानि मुदा मुने

॥३०॥

शिव उवाच

कि मुखं किं शशांकश्च किं नेत्रे चोत्पले च किम् ।

भ्रुकुट्यौ धनुषी चैते कंदर्पस्य महात्मनः

॥३१॥

अधरः किं च बिंबं किं किं नासा शुकचंचुका ।

किं स्वरः कोकिलालापः किं मध्यं चाथ वेदिका

॥३२॥

किं गतिर्वर्ण्यते ह्यस्याः किं रूपं वर्ण्यते मुहुः ।

पुष्पाणि किं च वर्ण्यंते वस्त्राणि च तथा पुनः

॥३३॥

लालित्यं चारु यत्सृष्टौ तदेकत्र विनिर्मितम् ।

सर्वथा रमणीयानि सर्वांगानि न संशयः

॥३४॥

अहो धन्यतरा चेयं पार्वत्यद्भुतरूपिणी ।

एतत्समा न त्रैलोक्ये नारी कापि सुरूपिणी

॥३५॥

सुलावण्यानिधिश्चेयमद्भुतांगानि बिभ्रती ।

विमोहिनी मुनीनां च महासुखविवर्द्धिनी

॥३६॥

ब्रह्मोवाच

इत्येवं वर्णयित्वा तु तदंगानि मुहुर्मुहुः ।

विधिदत्तवराध्यासाद्धरस्तु विरराम ह

॥३७॥

हस्तं वस्त्रांतरे यावदचालयत शंकरः ।

स्त्रीस्वभावाच्च सा तत्र लज्जिता दूरतो गता

॥३८॥

विवृण्वती निजांगानि पश्यंती च मुहुर्मुहुः ।

सुवीक्षणैर्महामोदात्सुस्मिताभूच्छिवा मुने

॥३९॥

एवं चेष्टां तदा दृष्ट्वा शंभुर्मोहमुपागतः ।

उवाच वचनं चैवं महालीलो महेश्वरः

॥४०॥

अस्या दर्शनमात्रेण महानंदो भवत्यलम् ।

यदालिंगनमेनस्याः कुर्य्यां किन्तु ततस्सुखम्

॥४१॥

क्षणमात्रं विचार्य्येत्थं संपूज्य गिरिजां ततः ।

प्रबुद्धस्य महायोगी सुविरक्तो जगाविति

॥४२॥

किं जातं चरितं चित्रं किमहं मोहमागतः ।

कामेन विकृतश्चाद्य भूत्वापि प्रभुरीश्वरः

॥४३॥

ईश्वरोहं यदीच्छेयं परांगस्पर्शनं खलु ।

तर्हि कोऽन्योऽक्षमः क्षुद्रः किं किं नैव करिष्यति

॥४४॥

एवं वैराग्यमासाद्य पर्य्यंकासादनं च तत् ।

वारयामास सर्वात्मा परेशः किं पतेदिह

॥४५॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितान्तर्गततृतीये पार्वतीखण्डे कामकृतविकारवर्णननामाष्टादशोऽध्यायः ॥ १८ ॥