मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पार्वतीखण्डः, अध्याय ४०

3
रुद्रसंहिता · पार्वतीखण्डः · 40

यात्रावर्णनम्

ब्रह्मोवाच

अथ शम्भुः समाहूय नन्द्यादीन् सकलान्गणान् ।

आज्ञापयामास मुदा गन्तुं स्वेन च तत्र वै

॥१॥

शिव उवाच

अपि यूयं सह मया संगच्छध्वं गिरेः पुरम् ।

कियद्गणानिहास्थाप्य महोत्सवपुरस्सरम्

॥२॥

ब्रह्मोवाच

अथ ते समनुज्ञप्ता गणेशा निर्ययुर्मुदा ।

स्वंस्वं बलमुपादाय तान् कथंचिद्वदाम्यहम्

॥३॥

अभ्यगाच्छंखकर्णश्च गणकोट्या गणेश्वरः ।

शिवेन सार्द्धं संगन्तुं हिमाचलपुरम्प्रति

॥४॥

दशकोट्या केकराक्षो गणानां समहोत्सवः ।

अष्टकोट्या च विकृतो गणानां गणनायकः

॥५॥

चतुष्कोट्या विशाखश्च गणानां गणनायकः ।

पारिजातश्च नवभिः कोटिभिर्गणपुंगवः

॥६॥

षष्टिस्सर्वान्तकः श्रीमान्तथैव विकृताननः ।

गणानान्दुन्दुभोष्टाभिः कोटिकोटिभिर्गणनायकः

॥७॥

पञ्चभिश्च कपालाख्यो गणेशः कोटिभिस्तथा ।

षड्भिस्सन्दारको वीरो गणानां कोटिभिर्मुने

॥८॥

कोटिकोटिभिरेवेह कन्दुकः कुण्डकस्तथा ।

विष्टम्भो गणपोऽष्टाभिर्गणानां कोटिभिस्तथा

॥९॥

सहस्रकोट्या गणपः पिप्पलो मुदितो ययौ ।

तथा संनादको वीरो गणेशो मुनिसत्तम

॥१०॥

आवेशनस्तथाष्टाभिः कोटिभिर्गणनायकः ।

महाकेशस्सहस्रेण कोटीनां गणपो ययौ

॥११॥

कुण्डो द्वादशकोट्या हि तथा पर्वतको मुने ।

अष्टाभिः कोटिभिर्वीरस्समगाच्चन्द्रतापनः

॥१२॥

कालश्च कालकश्चैव महाकालश्शतेन वै ।

कोटीनां गणनाथो हि तथैवाग्निकनामकः

॥१३॥

कोट्यग्निमुख एवागाद् गणानां गणनायकः ।

आदित्यमूर्द्धा कोट्या च तथा चैव घनावहः

॥१४॥

सन्नाहश्शतकोट्या हि कुमुदो गणपस्तथा ।

अमोघः कोकिलश्चैव शतकोट्या गणाधिपः

॥१५॥

सुमन्त्रः कोटिकोट्या च गणानां गणानायकः ।

काकपादोदरः कोटिषष्ट्या सन्तानकस्तथा

॥१६॥

महाबलश्च नवभिर्मधुपिंगश्च कोकिलः ।

नीलो नवत्या कोटीनां पूर्णभद्रस्तथैव च

॥१७॥

सप्तकोट्या चतुर्वक्त्रः करणो विंशकोटिभिः ।

ययौ नवतिकोट्या तु गणेशानो हि रोमकः

॥१८॥

यज्वाशश्शतमन्युश्च मेघमन्युश्च नारद ।

तावत्कोट्या ययुस्सर्वे गणेशा हि पृथक्पृथक्

॥१९॥

काष्ठाङ्गुष्ठश्चतुष्षष्ट्या कोटीनां गणनायकः ।

विरूपाक्षस्सुकेशश्च वृषाभश्च सनातनः

॥२०॥

तालकेतुः षडास्यश्च चञ्च्वास्यश्च सनातनः ।

सम्वर्तकस्तथा चैत्रो लकुलीशस्स्वयम्प्रभुः

॥२१॥

लोकान्तकश्च दीप्तात्मा तथा दैत्यान्तको मुने ।

देवो भृंगिरिटिश्श्रीमान्देवदेवप्रियस्तथा

॥२२॥

अशनिर्भानुकश्चैव चतुष्षष्ट्या सहस्रशः ।

ययुश्शिवविवाहार्थं शिवेन सहसोत्सवाः

॥२३॥

भूतकोटिसहस्रेण प्रमथाः कोटिभिस्त्रिभिः ।

वीरभद्रश्चतुष्षष्ट्या रोमजानान्त्रिकोटिभिः

॥२४॥

कोटिकोटिसहस्राणां शतैर्विंशतिभिर्वृताः ।

तत्र जग्मुश्च नन्द्याद्या गणपाश्शंकरोत्सवे

॥२५॥

क्षेत्रपालो भैरवश्च कोटिकोटिगणैर्युतः ।

उद्वाहश्शंकरस्येत्याययौ प्रीत्या महोत्सवे

॥२६॥

एते चान्ये च गणपा असङ्ख्याता महाबलाः ।

तत्र जग्मुर्महाप्रीत्या सोत्साहाश्शंकरोत्सवे

॥२७॥

सर्वे सहस्रहस्ताश्च जटामुकुटधारिणः ।

चन्द्ररेखावतंसाश्च नीलकण्ठास्त्रिलोचनाः

॥२८॥

रुद्राक्षाभरणास्सर्वे तथा सद्भस्मधारिणः ।

हारकुण्डलकेयूरमुकुटाद्यैरलंकृताः

॥२९॥

ब्रह्मविष्ण्विन्द्रसंकाशा अणिमादिगुणैर्युताः ।

सूर्य्यकोटिप्रतीकाशास्तत्र रेजुर्गणेश्वराः

॥३०॥

पृथिवीचारिणः केचित् केचित्पातालचारिणः ।

केचिद्व्योमचराः केचित्सप्तस्वर्गचरा मुने

॥३१॥

किम्बहूक्तेन देवर्षे सर्वलोकनिवासिनः ।

आययुस्स्वगणाश्शम्भोः प्रीत्या वै शङ्करोत्सवे

॥३२॥

इत्थं देवैर्गणैश्चान्यैस्सहितश्शङ्करः प्रभुः ।

ययौ हिमगिरिपुरं विवाहार्थं निजस्य वै

॥३३॥

यदाजगाम सर्वेशो विवाहार्थे सुरादिभिः ।

तदा तत्र ह्यभूद्वृत्तं तच्छृणु त्वं मुनीश्वर

॥३४॥

रुद्रस्य भगिनी भूत्वा चण्डी सूत्सवसंयुता ।

तत्राजगाम सुप्रीत्या परेषां सुंभयावहा

॥३५॥

प्रेतासनसमारूढा सर्पाभरणभूषिता ।

पूर्णं कलशमादाय हैमं मूर्ध्नि महाप्रभम्

॥३६॥

स्वपरीवारसंयुक्ता दीप्तास्या दीप्तलोचना ।

कुतूहलम्प्रकुर्वन्ती जातहर्षा महाबला

॥३७॥

तत्र भूतगणा दिव्या विरूपः कोटिशो मुने ।

विराजन्ते स्म बहुशस्तथा नानाविधास्तदा

॥३८॥

तैस्समेताग्रतश्चण्डी जगाम विकृतानना ।

कुतूहलान्विता प्रीता प्रीत्युपद्रव कारिणी

॥३९॥

चण्ड्या सर्वे रुद्रगणाः पृष्ठतश्च कृतास्तदा ।

कोट्येकादशसंख्याका रौद्ररुद्रप्रियाश्च ते

॥४०॥

तदा डमरुनिर्घोषैर्व्याप्तमासीज्जगत्त्रयम् ।

भेरीझंकारशब्देन शंखानां निनदेन च

॥४१॥

तथा दुन्दुभिनिर्घोषैश्शब्दः कोलाहलोऽभवत् ।

कुर्वञ्जगन्मंगलं च नाशयेन्मंगलेतरत्

॥४२॥

गणानां पृष्ठतो भूत्वा सर्वे देवास्समुत्सुकाः ।

अन्वयुस्सर्वसिद्धाश्च लोकपालादिका मुने

॥४३॥

मध्ये व्रजन् रमेशोऽथ गरुडासनमाश्रितः ।

शुशुभे ध्रियमाणेन क्षत्रेण महता मुने

॥४४॥

चामरैर्वीज्यमानोऽसौ स्वगणैः परिवारितः ।

पार्षदैर्विलसद्भिश्च स्वभूषाविधिभूषितः ।

४५ तथाऽहमप्यशोभम्वै व्रजन्मार्गे विराजितः ।

वेदैर्मूर्तिधरैश्शास्त्रैः पुराणैरागमैस्तथा

॥४६॥

सनकादिमहासिद्धैस्सप्रजापतिभिस्सुतैः ।

परिवारैस्संयुतो हि शिवसेवनतत्परः

॥४७॥

स्वसैन्यमध्यगश्शक्र ऐरावतगज स्थितः ।

नामाविभूषितोऽत्यन्तं व्रजन् रेजे सुरेश्वरः

॥४८॥

तदा तु व्रजमानास्ते ऋषयो बहवश्च ते ।

विरेजुरतिसोत्कण्ठश्शिवस्योद्वाहनम्प्रति

॥४९॥

शाकिन्यो यातुधानाश्च वेताला ब्रह्मराक्षसाः ।

भूतप्रेतपिशाचाश्च तथान्ये प्रमथादयः

॥५०॥

तुम्बुरुर्नारदो हाहा हूहूश्चेत्यादयो वराः ।

गन्धर्वाः किन्नरा जग्मुर्वाद्यानाध्माय हर्षिताः

॥५१॥

जगतो मातरस्सर्वा देवकन्याश्च सर्वशः ।

गायत्री चैव सावित्री लक्ष्मीरन्यास्सुरस्त्रियः

॥५२॥

एताश्चान्याश्च देवानां पत्नयो भवमातरः ।

उद्वाहश्शंकरस्येति जग्मुस्सर्वा मुदान्विताः

॥५३॥

शुद्धस्फटिकसंकाशो वृषभस्सर्वसुन्दरः ।

यो धर्म उच्यते वेदैश्शास्त्रैस्सिद्धमहर्षिभिः

॥५४॥

तमारूढो महादेवो वृषभं धर्मवत्सलः ।

शुशुभेतीव देवर्षिसेवितस्सकलैर्व्रजन्

॥५५॥

एभिस्समेतैस्सफलैमहर्षिभिर्बभौ महेशो बहुशोत्यलंकृतः ।

हिमालयाह्वस्य धरस्य संव्रजन् पाणिग्रहार्थं सदनं शिवायाः

॥५६॥

इत्युक्तं शम्भुचरितं गमनम्परमोत्सवम् ।

हिमालयपुरोद्भूतं सद्वृत्तं शृणु नारद

॥५७॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे यात्रावर्णनं नाम चत्वारिशोऽध्यायः ॥ ४० ॥