मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पार्वतीखण्डः, अध्याय ७

3
रुद्रसंहिता · पार्वतीखण्डः · 7

पार्वतीबाल्यलीलावर्णनम्

ब्रह्मोवाच

ततो मेना पुरस्सा वै सुता भूत्वा महाद्युतिः ।

चकार रोदनं तत्र लौकिकीं गतिमाश्रिता

॥१॥

अरिष्टशय्यां परितस्सद्विसारिसुतेजसा ।

निशीथदीपा विहतत्विष आसन्नरं मुने

॥२॥

श्रुत्वा तद्रोदनं रम्यं गृहस्थास्सर्वयोषितः ।

जहृषुस्सम्भ्रमात्तत्रागताः प्रीतिपुरस्सराः

॥३॥

तच्छुद्धान्तचरः शीघ्रं शशंस भूभृते तदा ।

पार्वतीजन्म सुखदं देवकार्यकरं शुभम्

॥४॥

तच्छुद्धान्तचरायाशु पुत्रीजन्म सुशंसते ।

सितातपत्रं नादेयमासीत्तस्य महीभृतः

॥५॥

गतस्तत्र गिरिः प्रीत्या सपुरोहितसद्विजः ।

ददर्श तनयां तान्तु शोभमानां सुभाससा

॥६॥

नीलोत्पलदल श्यामां सुद्युतिं सुमनोरमाम् ।

दृष्ट्वा च तादृशीं कन्यां मुमोदाति गिरीश्वरः

॥७॥

सर्वे च मुमुदुस्तत्र पौराश्च पुरुषाः स्त्रियः ।

तदोत्सवो महानासीन्नेदुर्वाद्यानि भूरिशः

॥८॥

बभूव मंगलं गानं ननृतुर्वारयोषितः ।

दानं ददौ द्विजातिभ्यो जातकर्मविधाय च

॥९॥

अथ द्वारं समागत्य चकार सुमहोत्सवम् ।

हिमाचलः प्रसन्नात्मा भिक्षुभ्यो द्रविणन्ददौ

॥१०॥

अथो मुहूर्त्ते सुमते हिमवान्मुनिभिः सह ।

नामाऽकरोत्सुतायास्तु कालीत्यादि सुखप्रदम्

॥११॥

दानं ददौ तदा प्रीत्या द्विजेभ्यो बहु सादरम् ।

उत्सवं कारयामास विविधं गानपूर्व्वकम्

॥१२॥

इत्थं कृत्वोत्सवं भूरि कालीं पश्यन्मुहुर्मुहुः ।

लेभे मुदं सपत्नीको बहुपुत्रोऽपि भूधरः

॥१३॥

तत्र सा ववृधे देवी गिरिराजगृहे शिवा ।

गंगेव वर्षासमये शरदीवाथ चन्द्रिका

॥१४॥

एवं सा कालिका देवी चार्वङ्गी चारुदर्शना ।

दध्रे चानुदिनं रम्यां चन्द्रबिम्बकलामिव

॥१५॥

कुलोचितेन नाम्ना तां पार्वतीत्याजुहावहा।

बन्धुप्रियां बन्धुजनः सौशील्यगुणसंयुताम्

॥१६॥

उमेति मात्रा तपसे निषिद्धा कालिका च सा ।

पश्चादुमाख्यां सुमुखी जगाम भुवने मुने

॥१७॥

दृष्टिः पुत्रवतोऽप्यद्रेस्तस्मिंस्तृप्तिं जगाम न ।

अपत्ये पार्वतीत्याख्ये सर्वसौभाग्य संयुते

॥१८॥

मधोरनन्तपुष्पस्य चूते हि भ्रमरावलिः ।

विशेषसंगा भवति सहकारे मुनीश्वर

॥१९॥

पूतो विभूषितश्चापि स बभूव तया गिरिः ।

संस्कारवत्येव गिरा मनीषीव हिमालयः

॥२०॥

प्रभामहत्या शिखयेव दीपो भुवनस्य च ।

त्रिमार्गयेव सन्मार्गस्तद्वद्गिरिजया गिरिः

॥२१॥

कन्दुकैः कृत्रिमैः पुत्रैस्सखीमध्यगता च सा ।

गंगासैकतवेदीभिर्बाल्ये रेमे मुहुर्मुहुः

॥२२॥

अथ देवी शिवा सा चोपदेशसमये मुने ।

पपाठ विद्यात्सुप्रीत्या यतचित्ता च सद्गुरोः

॥२३॥

प्राक्तना जन्मविद्यास्तां शरदीव प्रपेदिरे ।

हंसालिस्स्वर्णदी नक्तमात्मभासो महौषधिम्

॥२४॥

इत्थं सुवर्णिता लीला शिवायाः काचिदेव हि ।

अन्यलीलाम्प्रवक्ष्येऽहं शृणु त्वं प्रेमतो मुने

॥२५॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनंनाम सप्तमो ऽध्यायः ॥ ७ ॥