मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पार्वतीखण्डः, अध्याय ४१

3
रुद्रसंहिता · पार्वतीखण्डः · 41

ततस्सम्मन्त्र्य च मिथः प्राप्याज्ञां शांकरीं हरिः

ब्रह्मोवाच

ततस्सम्मन्त्र्य च मिथः प्राप्याज्ञां शांकरीं हरिः ।

मुने त्वाम्प्रेषयामास प्रथमं कुधरालयम्

॥१॥

अथ प्रणम्य सर्वेशं गतस्त्वं नारदाग्रतः ।

हरिणा नोदितः प्रीत्या हिमाचलगृहम्प्रति

॥२॥

त्वं मुनेऽपश्य आत्मानं गत्वा तद्व्रीडयान्वितम् ।

कृत्रिमं रचितं तत्र विस्मितो विश्वकर्मणा

॥३॥

श्रान्तस्त्वमात्मना तेन कृत्रिमेण महामुने ।

अवलोकपरस्सोऽभूच्चरितं विश्वकर्मणः

॥४॥

प्रविष्टो मण्डपस्तस्य हिमाद्रे रत्नचित्रितम् ।

सुवर्णकलशैर्जुष्टं रम्भादिबहुशोभितम्

॥५॥

सहस्रस्तम्भसंयुक्तं विचित्रम्परमाद्भुतम् ।

वेदिकां च तथा दृष्ट्वा विस्मयं त्वं मुने ह्ययाः

॥६॥

तदावोचश्च स मुने नारद त्वं नगेश्वरम् ।

विस्मितोऽतीव मनसि नष्टज्ञानो विमूढधीः

॥७॥

आगतास्ते किमधुना देवा विष्णुपुरोगमाः ।

तथा महर्षयस्सर्वे सिद्धा उपसुरास्तथा

॥८॥

महादेवो वृषारूढो गणैश्च परिवारितः ।

आगतः किं विवाहार्थं वद तथ्यं नगेश्वर

॥९॥

ब्रह्मोवाच

इत्येवं वचनं श्रुत्वा तव विस्मित चेतसः ।

उवाच त्वां मुने तथ्यं वाक्यं स हिमवान् गिरिः

॥१०॥

हिमवानुवाच

हे नारद महाप्राज्ञागतो नैवाधुना शिवः ।

विवाहार्थं च पार्वत्यास्सगणस्सवरातकः

॥११॥

विश्वकर्मकृतं चित्रं विद्धि नारद सद्धिया ।

विस्मयन्त्यज देवर्षे स्वस्थो भव शिवं स्मर

॥१२॥

भुक्त्वा विश्रम्य सुप्रीतः कृपां कृत्वा ममोपरि ।

मैनाकादिधरैस्सार्द्धं गच्छ त्वं शंकरान्तिकम्

॥१३॥

एभिस्समेतो गिरिभिर्महामत संप्रार्थ्य शीघ्रं शिवमत्र चानय ।

देवैस्समेतं च महर्षिसंघैस्सुरासुरैरर्चितपादपल्लवम्

॥१४॥

ब्रह्मोवाच

तथेति चोक्त्वागम आशु हि त्वं सदैव तैश्शैलसुतादिभिश्च ।

तत्रत्यकृत्यं सुविधाय भुक्त्वा महामनास्त्वं शिवस न्निधानम्

॥१५॥

तत्र दृष्टो महादेवो देवादिपरिवारितः ।

नमस्कृतस्त्वया दीप्तश्शैलैस्तैर्भक्तितश्च वै

॥१६॥

तदा मया विष्णुना च सर्वे देवास्सवासवाः ।

पप्रच्छुस्त्वां मुने सर्वे रुद्रस्यानुचरास्तथा

॥१७॥

विस्मिताः पर्वतान्दृष्ट्वा सन्देहाकुलमानसाः ।

मैनाकसह्यमेर्वाद्यान्नानालंकारसंयुतान्

॥१८॥

देवा ऊचुः

हे नारद महाप्राज्ञ विस्मितस्त्वं हि दृश्यसे ।

सत्कृतोऽसि हिमागेन किं न वा वद विस्तरात्

॥१९॥

एते कस्मात्समायाताः पर्वता इह सत्तमाः ।

मैनाकसह्यमेर्वाद्यास्सुप्रतापास्स्वलंकृताः

॥२०॥

कन्यां दास्यति शैलोऽसौ स भवे वा न नारद ।

हिमालयगृहे तात किं भवत्यद्य तद्वद

॥२१॥

इति सन्दिग्धमनसामस्माकं च दिवौकसाम् ।

वद् त्वं पृच्छमानानां सन्देहं हर सुव्रत

॥२२॥

ब्रह्मोवाच

इत्याकर्ण्य वचस्तेषां विष्ण्वादीनान्दिवौकसाम् ।

अवोचस्तान्मुने त्वं हि विस्मितस्त्वाष्ट्रमायया

॥२३॥

एकान्तमाश्रित्य च मां हि विष्णुमभाषथा वाक्यमिदं मुने त्वम् ।

शचीपतिं सर्वसुरेश्वरं वै पक्षाच्छिदं पूर्वरिपुन्धराणाम्

॥२४॥

नारद उवाच

त्वष्ट्रा कृतन्तद्विकृतं विचित्रं विमोहनं सर्वदिवौकसां हि ।

येनैव सर्वान्स विमोहितुं सुरान्समिच्छति प्रेमत एव युक्त्या

॥२५॥

पुरा कृतन्तस्य विमोहनन्त्वया सुविस्मृतन्तत् सकलं शचीपते ।

तस्मादसौ त्वां विजिगीषुरेव गृहे धुवन्तस्य गिरेर्महात्मन

॥२६॥

अहं विमोहितस्तेन प्रतिरूपेण भास्वता ।

तथा विष्णुः कृतस्तेन ब्रह्मा शक्रोऽपि तादृशः

॥२७॥

किम्बहूक्तेन देवेश सर्वदेवगणाः कृताः ।

कृत्रिमाश्चित्ररूपेण न किंचिदवशेषितम्

॥२८॥

विमोहनार्थं सर्वेषां देवानां च विशेषतः ।

कृता माया चित्रमयी परिहासविकारिणी

॥२९॥

ब्रह्मोवाच

तच्छुत्वा वचनस्तस्य देवेन्द्रो वाक्यमब्रवीत् ।

विष्णुम्प्रति तदा शीघ्रं भयाकुलतनुर्हरिम्

॥३०॥

देवेन्द्र उवाच

देवदेव रमानाथ त्वष्टा मां निहनिष्यति ।

पुत्रशोकेन तप्तोऽसौ व्याजेनानेन नान्यथा

॥३१॥

ब्रह्मोवाच

तस्य तद्वचनं श्रुत्वा देवदेवो जनार्दनः ।

उवाच प्रहसन् वाक्यं शक्रमाश्वासयंस्तदा

॥३२॥

विष्णुरुवाच

निवातकवचैः पूर्वं मोहितोऽसि शचीपते ।

महाविद्यावलेनैव दानवैः पूर्ववैरिभिः

॥३३॥

पर्वतो हिमवानेष तथान्यऽखिलपर्वताः ।

विपक्षा हि कृतास्सर्वे मम वाक्याच्च वासव

॥३४॥

तेनुस्मृत्या तु वै दृष्ट्वा मायया गिरयो ह्यमी ।

जेतुमिच्छन्तु ये मूढा न भेतव्यमरावपि

॥३५॥

ईश्वरो नो हि सर्वेषां शंकरो भक्तवत्सलः ।

सर्वथा कुशलं शक्र करिष्यति न संशयः

॥३६॥

ब्रह्मोवाच

एवं संवदमानन्तं शक्रं विकृतमानसम् ।

हरिणोक्तश्च गिरिशो लौकिकीं गतिमाश्रितः

॥३७॥

ईश्वर उवाच

हे हरे हे सुरेशान किम्ब्रूथोऽद्य परस्परम् ।

इत्युक्त्वा तौ महेशानो मुने त्वाम्प्रत्युवाच सः

॥३८॥

किंनु वक्ति महाशैलो यथार्थं वद नारद ।

वृत्तान्तं सकलम्ब्रूहि न गोप्यं कर्तुमर्हसि

॥३९॥

ददाति वा नैव ददाति शैलस्सुतां स्वकीयां वद तच्च शीघ्रम् ।

किन्ते दृष्टं किं कृतन्तत्र गत्वा प्रीत्या सर्वं तद्वदाश्वद्य तात

॥४०॥

ब्रह्मोवाच

हत्युक्तश्शम्भुना तत्र मुने त्वन्देवदर्शनः ।

सर्वं रहस्यवोचो वै यद्दृष्टन्तत्र मण्डपे

॥४१॥

नारद उवाच

देवदेव महादेव शृणु मद्वचनं शुभम् ।

नास्ति विघ्नभयं नाथ विवाहे किंचिदेव हि

॥४२॥

अवश्यमेव शैलेशस्तुभ्यं दास्यति कन्यकाम् ।

त्वामानयितुमायाता इमे शैला न संशयः

॥४३॥

किन्तु ह्यमरमोहार्थं माया विरचिताद्भुता ।

कुतूहलार्थं सर्वज्ञ न कश्चिद्विघ्नसम्भवः

॥४४॥

विचित्रम्मण्डपं गेहेऽकार्षीत्तस्य तदाज्ञया ।

विश्वकर्मा महामायी नानाश्चर्यमयं विभो

॥४५॥

सर्वदेवसमाजश्च कृतस्तत्र विमोहनः ।

तन्दृष्ट्वा विस्मयं प्राप्तोहं तन्मायाविमोहितः

॥४६॥

ब्रह्मोवाच

तच्छ्रुत्वा तद्वचस्तात लोकाचारकरः प्रभुः ।

हर्षादीन्प्रहसञ्छम्भुरुवाच सकलान्सुरान्

॥४७॥

ईश्वर उवाच

कन्यां दास्यति चेन्मह्यं पर्वतो हि हिमाचलः ।

मायया मम किं कार्यं वद विष्णो यथातथम्

॥४८॥

हे ब्रह्मञ्छक्र मुनयस्तुरा ब्रूत यथार्थतः ।

मायया मम किं कार्यं कन्यां दास्यति चेद्गिरिः

॥४९॥

केनाप्युपायेन फलं हि साध्यमित्युच्यते पण्डितैर्न्यायविद्भिः ।

तस्मात्सर्वैर्गम्यतां शीघ्रमेव कार्यार्थिभिर्विष्णुपुरोगमैश्च

॥५०॥

ब्रह्मोवाच

एवं संवदमानोऽसौ देवैश्शम्भुरभूत्तदा ।

कृतः स्मरेणैव वशी वशं वा प्राकृतो नरः

॥५१॥

अथ शम्भ्वाज्ञया सर्वे विष्ण्वाद्या निर्जरास्तदा ।

ऋषयश्च महात्मानो ययुर्मोहभ्रमापहम्

॥५२॥

पुरस्कृत्य मुने त्वां च पर्वतांस्तान्सविस्मयाः ।

हिमाद्रेश्च तदा जग्मुर्मन्दिरम्परमाद्भुतम्

॥५३॥

अथ विष्ण्वादिसंयुक्तो मुदितैस्स्वबलैर्युतः ।

आजगामोपहैमागपुरं प्रमुदितो हरः

॥५४॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे मण्डपरचनावर्णनं नामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥