एतावद्धि मया ज्ञातं कश्चिदन्योयमागतः
पार्वत्युवाच
एतावद्धि मया ज्ञातं कश्चिदन्योयमागतः ।
इदानीं सकलं ज्ञातमवध्यस्त्वम्विशेषतः
॥१॥त्वयोक्तं विदितं देव तदलीकं न चान्यथा ।
यदि त्वयोदितं स्याद्वै विरुद्धं नोच्यते त्वया
॥२॥कदाचिद्दृश्यते तादृक् वेषधारी महेश्वरः ।
स्वलीलया परब्रह्म स्वरागोपात्तविग्रहः
॥३॥ब्रह्मचारिस्वरूपेण प्रतारयितुमुद्यतः ।
आगतश्छलसंयुक्तं वचोवादीः कुयुक्तितः
॥४॥शंकरस्य स्वरूपं तु जानामि सुविशेषतः ।
शिवतत्त्वमतो वच्मि सुविचार्य्य यथार्हतः
॥५॥वस्तुतो निर्गुणो ब्रह्म सगुणः कारणेन सः ।
कुतो जातिर्भवेत्तस्य निर्गुणस्य गुणात्मनः
॥६॥स सर्वासां हि विद्यानामधिष्ठानं सदाशिवः ।
किं तस्य विद्यया कार्य्यं पूर्णस्य परमात्मनः
॥७॥वेदा उच्छ्वासरूपेण पुरा दत्ताश्च विष्णवे ।
शंभुना तेन कल्पादौ तत्समः कोऽस्ति सुप्रभुः
॥८॥सर्वेषामादिभूतस्य वयोमानं कुतस्ततः ।
प्रकृतिस्तु ततो जाता किं शक्तेस्तस्य कारणम्
॥९॥ये भजंति च तं प्रीत्या शक्तीशं शंकरं सदा ।
तस्मै शक्तित्रयं शंभुः स ददाति सदाव्ययम्
॥१०॥तस्यैव भजनाज्जीवो मृत्युं जयति निर्भयः ।
तस्मान्मृत्युंजयन्नाम प्रसिद्धम्भुवनत्रये
॥११॥तस्यैव पक्षपातेन विष्णुर्विष्णुत्वमाप्नुयात् ।
ब्रह्मत्वं च यथा ब्रह्मा देवा देवत्वमेव च
॥१२॥दर्शनार्थं शिवस्यादौ यथा गच्छति देवराट् ।
भूतादयस्तत्परस्य द्वारपालाश्शिवस्य तु
॥१३॥दण्डैश्च मुकुटं विद्धं मृष्टं भवति सर्वतः ।
किं तस्य बहुपक्षेण स्वयमेव महाप्रभुः
॥१४॥कल्याणरूपिणस्तस्य सेवयेह न किं भवेत् ।
किं न्यूनं तस्य देवस्य मामिच्छति सदाशिवः
॥१५॥सप्तजन्मदरिद्रः स्यात्सेवेन्नो यदि शंकरम् ।
तस्यैतत्सेवनाल्लोको लक्ष्मीः स्यादनपायिनी
॥१६॥यदग्रे सिद्धयोष्टौ च नित्यं नृत्यंति तोषितुम् ।
अवाङ्मुखास्सदा तत्र तद्धितं दुर्ल्लभं कुतः
॥१७॥यद्यस्य मंगालानीह सेवते शंकरस्य न ।
यथापि मंगलन्तस्य स्मरणादेव जायते
॥१८॥यस्य पूजाप्रभावेण कामास्सिद्ध्यन्ति सर्वशः ।
कुतो विकारस्तस्यास्ति निर्विकारस्य सर्वदा
॥१९॥शिवेति मंगलन्नाम मुखे यस्य निरन्तरम् ।
तस्यैव दर्शनादन्ये पवित्रास्संति सर्वदा
॥२०॥यद्यपूतम्भवेद्भस्म चितायाश्च त्वयोदितम् ।
नित्यमस्यांगगं देवैश्शिरोभिर्द्धार्यते कथम्
॥२१॥यो देवो जगतां कर्ता भर्ता हर्ता गुणान्वितः ।
निर्गुणश्शिवसंज्ञश्च स विज्ञेयः कथम्भवेत्
॥२२॥अगुणं ब्रह्मणो रूपं शिवस्य परमात्मनः ।
तत्कथं हि विजानन्ति त्वादृशास्तद्बहिर्मुखाः
॥२३॥दुराचाराश्च पापाश्च देवेभ्यस्ते विनिर्गताः ।
तत्त्वं ते नैव जानन्ति शिवस्यागुणरूपिणः
॥२४॥शिवनिन्दां करोतीह तत्त्वमज्ञाय यः पुमान् ।
आजन्मसंचितं पुण्यं भस्मीभवति तस्य तत्
॥२५॥त्वया निंदा कृता यात्र हरस्यामित तेजसः ।
त्वत्पूजा च कृता यन्मे तस्मात्पापम्भजाम्यहम्
॥२६॥शिवविद्वेषिणं दृष्ट्वा सचेलं स्नानमाचरेत् ।
शिवविद्वेषिणं दृष्ट्वा प्रायश्चितं समाचरेत्
॥२७॥रे रे दुष्ट त्वया चोक्तमहं जानामि शंकरम् ।
निश्चयेन न विज्ञातश्शिव एव सनातनः
॥२८॥यथा तथा भवेद्रुद्रो यथा वा बहुरूपवान् ।
ममाभीष्टतमो नित्यं निर्विकारी सतां प्रियः
॥२९॥विष्णुर्ब्रह्मापि न समस्तस्य क्वापि महात्मनः ।
कुतोऽन्ये निर्जराद्याश्च कालाधीनास्सदैवतम्
॥३०॥इति बुध्या समालोक्य स्वया सत्या सुतत्त्वतः ।
शिवार्थं वनमागत्य करोमि विपुलं तपः
॥३१॥स एव परमेशानस्सर्वेशो भक्तवत्सलः ।
संप्राप्तुम्मेऽभिलाषो हि दीनानुग्रहकारकम्
॥३२॥ब्रह्मोवाच
इत्युक्त्वा गिरिजा सा हि गिरीश्वरसुता मुने ।
विरराम शिवं दध्यो निर्विकारेण चेतसा
॥३३॥तदाकर्ण्य वचो देव्या ब्रह्मचारी स वै द्विजः ।
पुनर्वचनमाख्यातुं यावदेव प्रचक्रमे
॥३४॥उवाच गिरिजा तावत्स्वसखीं विजयां द्रुतम् ।
शिव सक्तमनोवृत्तिश्शिवनिंदापराङ्मुखी
॥३५॥गिरिजोवाच
वारणीयः प्रयत्नेन सख्ययं हि द्विजाधमः ।
पुनर्वक्तुमनाश्चैव शिवनिंदां करिष्यति
॥३६॥न केवलम्भवेत्पापं निन्दां कर्तुश्शिवस्य हि ।
यो वै शृणोति तन्निन्दां पापभाक् स भवेदिह
॥३७॥शिवनिन्दाकरो वध्यस्सर्वथा शिवकिंकरैः ।
ब्राह्मणश्चेत्स वै त्याज्यो गन्तव्यं तत्स्थलाद्द्रुतम्
॥३८॥अयं दुष्टः पुनर्निन्दां करिष्यति शिवस्य हि ।
ब्राह्मणत्वादवध्यश्चैत्त्याज्योऽदृश्यश्च सर्वथा
॥३९॥हित्वैतत्स्थलमद्येव यास्यामोऽन्यत्र मा चिरम् ।
यथा संभाषणं न स्यादनेनाऽविदुषा पुनः
॥४०॥ब्रह्मोवाच
इत्युक्त्वा चोमया यावत्पादमुत्क्षिप्यते मुने ।
असौ तावच्छिवस्साक्षादालंबे प्रियया स्वयम्
॥४१॥कृत्वा स्वरूपं सुभगं शिवाध्यानं यथा तथा ।
दर्शयित्वा शिवायै तामुवाचावाङ्मुखीं शिवः
॥४२॥शिव उवाच
कुत्र यास्यसि मां हित्वा न त्वं त्याज्या मया पुनः ।
प्रसन्नोऽस्मि वरं ब्रूहि नादेयम्विद्यते तव
॥४३॥अद्यप्रभृति ते दासस्तपोभिः क्रीत एव ते ।
क्रीतोऽस्मि तवसौन्दर्यात्क्षणमेकं युगाय ते
॥४४॥त्यज्यतां च त्वया लज्जा मम पत्नी सनातनी ।
गिरिजे त्वं हि सद्बुध्या विचारय महेश्वरि
॥४५॥मया परीक्षितासि त्वं बहुधा दृढमानसे ।
तत्क्षमस्वापराधम्मे लोकलीलानुसारिणः
॥४६॥न त्वादृशीम्प्रणयिनीं पश्यामि च त्रिलोकके ।
सर्वथाहं तवाधीनस्स्वकामः पूर्य्यतां शिवे
॥४७॥एहि प्रिये मत्सकाशं पत्नी त्वं मे वरस्तव ।
त्वया साकं द्रुतं यास्ये स्वगृहम्पर्वत्तोत्तमम्
॥४८॥ब्रह्मोवाच
इत्युक्ते देवदेवेन पार्वती मुदमाप सा ।
तपोजातं तु यत्कष्टं तज्जहौ च पुरातनम्
॥४९॥सर्वः श्रमो विनष्टोभूत्स त्यास्तु मुनिसत्तम ।
फले जाते श्रमः पूर्वो जन्तोर्नाशमवाप्नुयात्
॥५०॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे पार्वत्याश्शिवरूपदर्शनं नामाष्टाविंशोऽध्यायः ॥ २८ ॥