मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पार्वतीखण्डः, अध्याय १

3
रुद्रसंहिता · पार्वतीखण्डः · 1

दाक्षायणी सती देवी त्यक्तदेहा पितुर्मखे

श्रीगणेशाय नमः

अथ तृतीयः पार्वतीखण्डः प्रारभ्यते

नारद उवाच

दाक्षायणी सती देवी त्यक्तदेहा पितुर्मखे ।

कथं गिरिसुता ब्रह्मन्बभूव जगदम्बिका

॥१॥

कथं कृत्वा तपोऽत्युग्रम्पतिमाप शिवं च सा ।

एतन्मे पृच्छते सम्यक्कथय त्वं विशेषतः

॥२॥

ब्रह्मोवाच

शृणु त्वं मुनिशार्दूल शिवाचरितमुत्तमम् ।

पावनं परमं दिव्यं सर्वपापहरं शुभम्

॥३॥

यदा दाक्षायणी देवी हरेण सहिता मुदा ।

हिमाचले सुचिक्रीडे लीलया परमेश्वरी

॥४॥

मत्सुतेयमिति ज्ञात्वा सिषेवे मातृवर्चसा ।

हिमाचलप्रिया मेना सर्वर्द्धिभिरनिर्भरा

॥५॥

यदा दाक्षायणी रुष्टा नादृता स्वतनुं जहौ ।

पित्रा दक्षेण तद्यज्ञे संगता परमेश्वरी

॥६॥

तदैव मेनका तां सा हिमाचलप्रिया मुने ।

शिवलोकस्थितां देवीमारिराधयिषुस्तदा

॥७॥

तस्यामहं सुता स्यामित्यवधार्य सती हृदा ।

त्यक्तदेहा मनो दध्रे भवितुं हिमवत्सुता

॥८॥

समयं प्राप्य सा देवी सर्वदेवस्तुता पुनः ।

सती त्यक्ततनुः प्रीत्या मेनकातनयाभवत्

॥९॥

नाम्ना सा पार्वती देवी तपः कृत्वा सुदुस्सहम् ।

नारदस्योपदेशाद्वै पतिम्प्राप शिवं पुनः

॥१०॥

नारद उवाच

ब्रह्मन्विधे महाप्राज्ञ वद मे वदतां वर ।

मेनकायास्समुत्पतिं विवाहं चरितं तथा

॥११॥

धन्या हि मेनका देवी यस्यां जाता सुता सती ।

अतो मान्या च धन्या च सर्वेषां सा पतिव्रता

॥१२॥

ब्रह्मोवाच

शृणु त्वं नारद मुने पार्वतीमातुरुद्भवम् ।

विवाहं चरितं चैव पावनं भक्तिवर्द्धनम् ।

१३ अस्त्युत्तरस्यां दिशि वै गिरीशो हिमवान्महान् ।

पर्वतो हि मुनिश्रेष्ठ महातेजास्समृद्धिभाक्

॥१४॥

द्वैरूप्यं तस्य विख्यातं जंगमस्थिरभेदतः ।

वर्णयामि समासेन तस्य सूक्ष्मस्वरूपकम्

॥१५॥

पूर्वापरौ तोयनिधी सुविगाह्य स्थितो हि यः ।

नानारत्नाकरो रम्यो मानदण्ड इव क्षितेः

॥१६॥

नानावृक्षसमाकीर्णो नानाशृंगसुचित्रितः ।

सिंहव्याघ्रादिपशुभिस्सेवितस्सुखिभिस्सदा

॥१७॥

तुषारनिधिरत्युग्रो नानाश्चर्यविचित्रितः ।

देवर्षिसिद्धमुनिभिस्संश्रितः शिवसंप्रियः

॥१८॥

तपस्थानोऽतिपूतात्मा पावनश्च महात्मनाम् ।

तपस्सिद्धिप्रदोत्यंतं नानाधात्वाकरः शुभः

॥१९॥

स एव दिव्यरूपो हि रम्यः सर्वाङ्गसुन्दरः ।

विष्ण्वंशोऽविकृतः शैलराजराजस्सताम्प्रियः

॥२०॥

कुलस्थित्यै च स गिरिर्धर्म्मवर्द्धनहेतवे ।

स्वविवाहं कर्त्तुमैच्छत्पितृदेवहितेच्छया

॥२१॥

तस्मिन्नवसरे देवाः स्वार्थमाचिन्त्य कृत्स्नशः ।

ऊचुः पितॄन्समागत्य दिव्यान्प्रीत्या मुनीश्वर

॥२२॥

देवा ऊचुः

सर्वे शृणुत नो वाक्यं पितरः प्रीतमानसाः ।

कर्त्तव्यं तत्तथैवाशु देवकार्य्येप्सवो यदि

॥२३॥

मेना नाम सुता या वो ज्येष्ठा मङ्गलरूपिणी ।

ताम्विवाह्य च सुप्रीत्या हिमाख्येन महीभृता

॥२४॥

एवं सर्वमहालाभः सर्वेषां च भविष्यति ।

युष्माकममराणां च दुःखहानिः पदे पदे

॥२५॥

ब्रह्मोवाच

इत्याकर्ण्यापरवचः पितरस्ते विमृश्य च ।

स्मृत्वा शापं सुतानां च प्रोचुरोमिति तद्वचः

॥२६॥

ददुर्मेनां सुविधिना हिमागाय निजात्मजाम् ।

समुत्सवो महानासीत्तद्विवाहे सुमङ्गले

॥२७॥

हर्य्यादयाऽपि ते देवा मुनयश्चापरोखिलाः ।

आजग्मुस्तत्र संस्मृत्य वामदेवं भवं धिया

॥२८॥

उत्सवं कारयामासुर्दत्त्वा दानान्यनेकशः ।

सुप्रशस्य पितॄन्दिव्यान्प्रशशंसुर्हिमाचलम्

॥२९॥

महामोदान्विता देवास्ते सर्वे समुनीश्वराः ।

संजग्मुः स्वस्वधामानि संस्मरन्तः शिवाशिवौ

॥३०॥

कौतुकं बहु सम्प्राप्य सुविवाह्य प्रियां च ताम् ।

आजगाम स्वभवनं मुदमाप गिरीश्वरः

॥३१॥

ब्रह्मोवाच

मेनया हि हिमागस्य सुविवाहो मुनीश्वर ।

प्रोक्तो मे सुखदः प्रीत्या किम्भूयः श्रोतुमिच्छसि

॥३२॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे हिमाचलविवाहवर्णनं नाम प्रथमोध्यायः ॥ १ ॥